"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६५:
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑:।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑: ।। १२ ।।
उ० [http://vipin110012.tripod.com/pur_index28/shvaa.htm श्वात्राः] पीता । जगत्याब्दैवत्यया नाभिमुपस्पृशति । हे आपः, यूयं श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रपरिणामाः । प्रीता भवत अस्माकमन्तर्मध्ये । पुनर्विशिनष्टि उदरे सुशेवाः । शेव इति सुखनाम । सुसुखाः । ता अस्मभ्यम् अयक्ष्माः अनमीवा अनागसः । आग इत्यपराधनाम । अनपराधाः । स्वदन्तु देवीः । 'स्वद स्वर्द आस्वादने देवीरिति निःसंशयं द्वितीयान्तम् । एतत्पदसामानाधिकरण्यात्तु ता इत्येतदादीन्यपि द्वितीयान्तान्येव । ता युष्मान् अस्मभ्यम् अस्मदर्थम् अयक्ष्माः सतीः । यक्ष्मा व्याधिराजस्तद्रहिताः । अनमीवाः । अमीवा व्याधिरेव । आदरार्थं यक्ष्मग्रहणम् । अनागसः अनपराधाः सतीः । आग इत्यपराधनाम । स्वदन्तु । 'स्वद स्वर्द आस्वादने । आस्वादयन्तु । कमादयन्तु । अमृताः प्राणाः वागेवाग्निरित्यादयः। ऋतावृधः सत्यवृधः यज्ञवृधो वा ॥ १२॥
म०. 'श्वात्राः पीता इति नाभिमालभत इति' (का० ७ | ४ । ३५ ) । अब्देवत्या जगती । हे आपः, क्षीररूपा यूयं मया पीताः सत्यः श्वात्राः क्षिप्रपरिणामाः शीघ्रं जीर्णा भवत । श्वात्रमिति क्षिप्रनामाशु अतनं भवति' (निरु० ५।३) इति यास्कः । किंच अस्माकं पीतवतामन्तरुदरे जलपाकस्थाने सुशेवाः शोभनसुखाः भवतेत्यनुवर्तते । सुष्ठु शेवं याभ्यस्ताः । शेवमिति सुखनाम । किंच । तास्तथाविधा आपः अस्मभ्यमस्मदुपकारार्थं स्वदन्तु स्वादुत्वयुक्ता भवन्तु । किंभूतास्ताः । अयक्ष्माः प्रबलरोगराजरहिताः । अनमीवाः सामान्यरोगनिवर्तिकाः । नास्त्यमीवा याभ्यः । अनागसः नास्त्यागो याभ्यः अपराधहारिण्यः । ऋतावृधः ऋतं वर्धयन्ति ता ऋतवृधः । संहितायाम् ऋतस्य दीर्घः । यज्ञवृद्धिहेतवः । देवीः देव्यो द्योतमानाः । अमृताः नास्ति मृतं याभ्यः मरणनिवर्तिकाः । यद्वायमर्थः । ता इति द्वितीयाबहुवचनम् । अमृताः अमरणधर्मिणो देवाः पूर्वोक्ताः प्राणा वागादयस्ता अपः स्वदन्तु आस्वादयन्तु । कीदृशीः। अस्मभ्यमयक्ष्माः अस्मदर्थमस्माकं वा यक्ष्मनाशिनीः । शेषं पूर्ववत् ॥ १२ ॥
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्