"ऋग्वेदः सूक्तं १०.१०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७८:
दूताऽइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाऽइव । अवऽपानात् ॥२
 
"उष्टारेव । उष्टः कामयेते गन्तव्यं देशमित्युष्टारौ प्रासङ्गस्य वोढारावनड्वाहाविव ॥ ‘वश कान्तौ ' इत्यस्मात्तृचि छान्दसं संप्रसारणमिडभावश्च ॥ तौ यथा संपूर्णघासेषु संचरतः तद्वत् “फर्वरेषु स्तुतिभिर्हविर्भिश्च पूरयितृषु जनेषु “श्रयेथे । तत्स्वीकरणार्थमाश्रयथः ॥ फर्वतिः पूरणार्थः । अस्मादौणादिको रन्प्रत्ययः ॥ “प्रायोगेव प्रायोगौ प्रयोक्तव्यावनड्वाहाविव । प्रपूर्वाद्युजेः कर्मणि घञ्युपसर्गस्य दीर्घः । थाथादिस्वरेणान्तोदात्तः ॥ तौ यथा “श्वात्र्या“[http://vipin110012.tripod.com/pur_index28/shvaa.htm श्वात्र्या] श्वात्र्यौ । शु क्षिप्रमतनं श्वात्रम् । तत्र साधू भवतः तद्वत् । यद्वा । युद्धार्थं प्रयोक्तव्यावश्वाविव श्वाञ्यौ। श्वात्र्यमिति धननाम । तत्र भवौ । धनस्य साधकावित्यर्थः । तौ युवां “शासुः शंसितुः स्तोतुः स्तुतिं प्रति “एथः आगच्छथः । ‘इण् गतौ' । आदादिकः । दूतेव दूताविव यथा राज्ञः प्रियतमौ दूतौ जनपदेषु यशस्विनौ भवतः तद्वत् ”जनेषु स्तोतृषु ”यशसा यशस्विनौ “स्थः “हि भवथः खलु ॥ अस्तेर्लटि रूपम् । हियोगादनिघातः ॥ “महिषेव महिषाविव यथा श्रान्तौ महिषौ “अवपानात् । पीयतेऽस्मिन्निति पानं हृदादि । अधिकरणे ल्युट् । पानमेवावपानम्। संनिकृष्टात् पानान्नापगच्छतः तद्वद्युवामस्मदीयाद्धविषः स्तोत्राच्च ”माप “स्थातं मापक्रम्य तिष्ठतम् ॥ तिष्ठतेर्लुङि गातिस्था°' इति सिचो लुक् । ‘न माङ्योगे' इत्यडभावः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०६" इत्यस्माद् प्रतिप्राप्तम्