"शुक्लयजुर्वेदः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९९:
<poem><span style="font-size: 14pt; line-height: 200%">चतुर्थोऽध्यायः।
तत्र प्रथमा।
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪऋ॒क्सा॒माभ्या॑ᳪं᳭ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪमैन॑ᳪं᳭ हिᳪसीःहिᳪं᳭सीः ।। १ ।।
उ० एदमगन्म।आग्निष्टोमिका मन्त्रा अवभृथपर्यन्ताः। प्रजापतेरार्षम् । द्वे अप्येते ऋचौ अत्यष्टी त्र्यवसाने । शालस्तम्भमन्वारभ्य यजमानो जपति । द्वावर्धर्चौ देवयजनदैवत्यौ । आ इदम् एदं देवयजनम् अगन्म वयम् आगताः स्मः। पृथिव्या उत्कृष्टम् । यत्र यस्मिन्देवयजने । देवासः देवा एव देवासः । 'आज्जसेरसुक्' । अजुषन्त । 'जुषी प्रीतिसेवनयोः' । सेवितवन्तः कामान् । विश्वे सर्वे तमागत्य देवयजनम् । ऋक्सामाभ्यां प्लवभूताभ्यां यज्ञसमुद्रं सन्तरन्तः यजुर्भिश्च रायस्पोषेण धनस्य पुष्ट्या निमित्तभूतया इषा अन्नेन च संमदेम हृष्येमहि तुष्येमहि । उन्दति । इमा आपः शमु मे सन्तु देवीः । शमिति सुखनाम । उ इति पादपूरणे । इमा आपः सुखरूपा मम भवन्तु । देव्यो दानादिगुणयुक्ताः । अपां वज्रश्रुतौ वज्रसंस्तवेऽतः शमाशास्यते । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व । त्रायतिः पालनार्थः।हे ओषधे, पालय एनं यजमानं क्षुरात् । क्षुरस्यापि वज्रसंबन्धः। क्षुरेणाभिनिदधाति । स्वधिते मैनᳪमैनᳪं᳭ हिᳪसीःहिᳪं᳭सीः । स्वधितिर्वज्रः । वज्रकर्म कुर्वन्नवज्रोऽपि वज्रमुच्यते । हे स्वधिते, मा एनं हिंसीः ॥१॥
म० आधानाग्निहोत्राग्न्युपस्थानचातुर्मास्यमन्त्रास्तृतीयाध्याये प्रोक्ताः । चतुर्थाध्यायमारभ्याष्टमस्य द्वात्रिंशत्कण्डिकापर्यन्तमग्निष्टोममन्त्रा उच्यन्ते । तेषां प्रजापतिर्ऋषिः । तत्र चतुर्थे यजमानसंस्कारपूर्वकं सोमक्रयमन्त्राः प्राधान्येनोच्यन्ते । तत्रादौ यजमानः षोडशर्त्विजो वृत्वारण्योरग्नी समारोप्य शालां गच्छेत् । तथा च 'समारोह्याग्नी शालास्तम्भं पूर्वार्धं गृहीत्वारणिपाणिराहेदमगन्मेति' (का० ७।१।३६) । द्वे अत्यष्टी त्र्यवसाने । तयोः कण्डिकयोः सप्त मन्त्राः । आद्यावर्धर्चौ देवयजनदेवत्यौ ॥ आ इदम् अगन्मेति पदानि । 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति उपसर्गक्रियापदयोर्व्यवधानम् । इदमिति हस्तेन प्रदर्श्यते । वयमिदं पृथिव्याः संबन्धि देवयजनं देवा इज्यन्ते यस्मिंस्तद्देवयजनं स्थानम् आ अगन्म आगताः स्मः । गच्छतेर्लङ्युत्तमबहुवचने व्यत्ययेन शपो लुकि 'मो नो धातोः' (पा० ८।२। ६४) इति मस्य नः अडागमश्च । इदं किम् । यत्र देवयजने विश्वेदेवासः सर्वे देवाः अजुषन्ताप्रीयन्त । प्रीत्या स्थिता इत्यर्थः । किंच । वयं रायो धनस्य पोषेण पुष्ट्या इषा इष्यमाणेनान्नेन च संमदेम । 'मदी हर्षे' व्यत्ययेन शप् । हृष्टा भवेम धनैरन्नैश्च तृप्येम । किं कुर्वन्तः । ऋक्सामाभ्याम् ऋक् च साम च ऋक्सामे 'अचतुर-(पा० ५।४ । ७७ ) इति सूत्रेणाजन्तो निपातः । ताभ्यां यजुर्भिश्च वेदत्रयगतमन्त्रैः संतरन्तः । समुद्रवद्गम्भीरं सोमयागं समापयन्त इत्यर्थः । 'दक्षिणं गोदानं वितार्योनत्तीमा आपः' (का. ७।२।९) इति । इमा आपः । आपो देवताः । इमा आपः शिरःक्लेदाय सिच्यमाना एता आपो मे मम यजमानस्य शमु । उ एवार्थे । शं सुखार्थमव्ययम् । शं सुखकारिण्य एव सन्तु भवन्तु । किंभूता आपः । देवीः देव्यः दीव्यन्ति ताः देव्यः द्योतनाः । निर्मला इत्यर्थः । 'यूपवत् कुशतरुणं क्षुरेण चाभिनिधाय छित्त्वेति' (का. ७ । २ । १०-११)। यथा पश्वर्थयूपस्य छेदे मन्त्रः एवमत्रापि तृणान्तर्धानं क्षुरस्थापनं च मन्त्रद्वयेन कर्तव्यमिति सूत्रार्थः । ओषधे । कुशतरुणं देवता । हे ओषधे कुशतरुण, त्वं यजमानं त्रायस्व क्षुराद्रक्ष । स्वधिते । क्षुरो देवता । हे स्वधिते क्षुर, एनं यजमानं मा हिंसीः ॥१॥
 
द्वितीया ।
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॒: पुनन्तु ।
विश्व॒ᳪविश्व॒ᳪं᳭ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वाᳪशि॒वाᳪं᳭ श॒ग्मां परि॑ दधे भ॒द्रं वर्णं॒ पुष्य॑न् ।। २ ।।
उ० स्नाति।आपो अस्मान्मातरः शुन्धयन्तु। आप उच्यन्ते। या एता आपः जगतो निर्मात्र्यः ता अस्मान् शुन्धयन्तु शोधयन्तु । किंच घृतेन च नः अस्मान् । घृतप्वः घृतेन पुनन्तीति घृतप्वः । घृतं हि अपां परमं तेजः पवित्रं च । । 'तद्वै सुपूतं यं घृतेन पुनन्ति' इति श्रुतिः । 'सुवर्णप्राशो घृतप्राश इति मेध्यानि' इति गौतमः । पुनन्तु यज्ञयोग्यं कुर्वन्तु । स्तुतिपूर्वं हि याज्या क्रियते नचात्र स्तुतिरत आह। विश्वं हि रिप्रं प्रवहन्ति देवीः । हिशब्दो यस्मादर्थे । 'रपो रिप्रमिति पापनामनी भवतः'। यस्मात्स्वभावत एव सर्व पापं प्रकर्षेण दहन्ति देव्यः । उत्क्रामत्युत्तरपूर्वार्धम् । उदिदाभ्यः शुचिरापूत एमि । उदेमि उद्गच्छामि । इत्शब्दोऽनर्थकः ।। आभ्योऽद्भ्यः शुचिः सन् आपूतश्च यावत्पापं पावितः । वासः परिधत्ते । दीक्षातपसोः। दीक्षैव दीक्षा । तपःशब्देन उपसद उच्यन्ते तपःप्रधानत्वात् । वासः तन्वास्त्राणं तनूशब्देनोच्यते । या त्वं दीक्षातपसोस्तनूः शरीरं भवसि 'तां त्वा शिवां शान्तां शग्मां ससुखां साध्वीं वा' इति श्रुतेः । परिदधे आच्छादयामि । भद्रं कल्याणम् । वर्णं दीक्षितरूपम् पुष्यन् वर्धयन् । अनेन हि दीक्षितरूपमभिव्यज्यते ॥ २ ॥
म०. 'आपो अस्मानिति स्नात्वेति' ( का० ७ । २ । १५)। मातरः मिमते ता मातरो जगन्निर्मात्र्यो मातृवत्पालयित्र्यो वा आपः अस्मान् कृतक्षीरान् यजमानान् शुन्धयन्तु 'शुन्ध शुद्धौ' शोधयन्तु । क्षौरकर्मनिमित्तामपहतिं निवारयन्त्वित्यर्थः । किंच घृतप्वः 'घृ क्षरणे' जिघर्ति क्षरतीति घृतं तेन क्षरितजलेन पुनन्तीति घृतप्वः जलदेवतास्ताश्च घृतेन क्षरितजलेन नोऽस्मान् पुनन्तु शुद्धान् कुर्वन्तु । किंच देवीः द्योतमाना आपो विश्वं हि । हि एवार्थः । सर्वमेव रिप्रं पापं प्रवहन्ति प्रकर्षेणापनयन्तु । 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । 'उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धमिति' ( का० ७ । २ । १५) । अहमाभ्योऽद्भ्यः उदेमि इत् । इत् एवार्थे । उद्गच्छाम्येव । जलान्निर्गच्छामीत्यर्थः । किंभूतोऽहम् । शुचिः शुद्धः स्नानेन । तथा आपूतः समन्ताद्भावेनान्तरपि शुद्ध आचमनेन । शुचिरापूत इति शब्दाभ्यां स्नानाचमनाभ्यां बहिरन्तश्च शुद्धिरुक्ता ॥ 'क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य स्नातवस्यं(?)वाऽमौत्रधीतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति' (का० ७ । २ । १६-१९) ॥ दीक्षातपसोः वासो देवता । हे क्षौम वस्त्र, त्वं दीक्षातपसोस्तनूरसि । दीक्षा दीक्षणीयेष्टिः । तप उपसदिष्टिः । दीक्षाभिमानिदेवतायास्तपोभिमानिदेवतायाश्च त्वं शरीरवत्प्रियमसि । तां दीक्षातपसोस्तनूं तद्देवताद्वयशरीरभूतां त्वामहं परिदधे धारयामि । किंभूतां त्वाम् । शिवां शग्मां द्वयोरपि शब्दयोः सुखवाचकवादत्यन्तसुखरूपां कोमलत्वात् । किंभूतोऽहम् । भद्रं वर्णं पुष्यन् त्वत्परिधानेन कल्याणीं कान्तिं पुष्यन् ॥ २॥
पङ्क्तिः २४३:
नवमी।
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीःहिᳪं᳭सीः ।। ९ ।।
उ०. कृष्णाजिनयोः शुक्लकृष्णसंधिमालभते ऋक्सामयोरिति । ये युवामृचां साम्नां च शिल्पे स्थः । 'यद्वै प्रतिरूपं तच्छिल्पम्' इति श्रुतिः । प्रतिरूपे प्रतिभूते भवथः। ते वां युवाम् । आरभे आलभे । ते च मा पातं गोपायतम् । आ अस्य यज्ञस्य उदृचः उत्तमा ऋचः आसमाप्तेरित्यर्थः । । दक्षिणजानुमारोहति । शर्मासि कृष्णाजिनमुच्यते । शर्म शरणं यतस्त्वमसि अतः शर्म शरणं मे मह्यं यच्छ प्रयच्छ । नमस्ते अस्तु नमस्तुभ्यं भवतु । मा मां माहिᳪसीः॥९॥माहिᳪं᳭सीः॥९॥
म० 'कृष्णाजिनयोः सन्धिमालभत ऋक्सामयोरिति' (का. ७ । ३ । २३ ) इति । कृष्णाजिने देवते । हे कृष्णाजिनगते शुक्लकृष्णरेखे, युवामृक्सामयोः शिल्पे स्थः ऋगभिमानिसामाभिमानिदेवतयोः संबन्धिनी शिल्पे चातुर्ये तद्रूपे भवतः । 'यद्वै प्रतिरूपं तच्छिल्पम्' (३ । २ । १।५) इति श्रुतेः । ते वां तथाविधे युवामारभे अहं स्पृशामि । ते मा पातं तथाविधे युवां मा मां पालयतम् । कियन्तं कालमिति चेत्तदाह । अस्य यज्ञस्य आ उदृचः उत्तमा चरमा ऋगुदृक् तस्या उदृचः आ तत्पर्यन्तम् । ‘पञ्चम्यपाङ्परिभिः' (पा० २ । ३ । १० ) इति पञ्चमी । एतद्यज्ञसमाप्तिपर्यन्तमित्यर्थः । ऋक्सामाभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठतां तन्मृगचर्मणि यच्छुक्लं तदृचो रूपं यत् कृष्णं तत् साम्नो रूपम् । तदुक्तं तित्तिरिणा 'ऋक्सामे वै देवेभ्यो यज्ञार्थ तिष्ठमाने कृष्णमृगरूपं कृत्वापक्राम्यातिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनमस्यै साम्नो यत्कृष्णम्' (६। १। ३) इति । 'दक्षिणजानुमारोहति शर्मासि' (का० ७ । ३ । २४) इति । हे कृष्णाजिन, त्वं शर्म शरणमसि । अतो मे मह्यं शर्म शरणं यच्छ देहि । स्वकीयत्वेन स्वीकुर्वित्यर्थः । ते तुभ्यं कृष्णाजिनाय नमोस्तु । मा मां यजमानं मा हिंसीः मा जहि ॥ ९॥
पङ्क्तिः २५०:
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि ।
सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि ।
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪह॑स॒पा॒ह्यᳪं᳭ह॑स॒ आस्य य॒ज्ञस्यो॒दृच॑: ।। १० ।।
उ० मेखलां बध्नीते। ऊर्गसि।अङ्गिरसामार्षम् । अस्मिन्यजुषि उर्गसि अन्नं भवसि । आङ्गिरसी अङ्गिरोभिर्दृष्टा । ऊर्णम्रदाः ऊर्णेव मृद्वी । यतस्त्वमधस्तनैर्गुणैर्युक्तासि अत ऊर्जमन्नं मयि धेहि स्थापय । नीवीं कुरुते । सोमस्य नीविरसि । 'पितृदेवत्या वै नीविः' इत्यदीक्षितस्योक्तम् । इह तु सोमयागार्था नीविः सोमेन व्यपदिश्यते । शिरःप्रोर्णुते । विष्णोः शर्मासि । 'उभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च' इत्यादि निदानम् । विष्णोर्दीक्षितस्य शरणं भवसि । शरणं च यजमानस्य । कृष्णविषाणां सिचि बध्नीते । इन्द्रस्य योनिः । 'देवाश्च वा असुराश्च' इत्यादि निदानम् यथा इन्द्रस्य योनिर्जन्मस्थानं पूर्वं त्वमसि एवमिदानीं यजमानस्येति दर्शनार्थोर्थवादः। भूमौ लिखति । सुसस्याः कृषीस्कृधि । कल्याणधान्याः कृषीः कृधि जनानां कुरु । दण्डमुच्छ्रयति । उच्छ्रयस्व ऊर्ध्वो भव । हे वनस्पते, ऊर्ध्वो भूत्वा मां पाहि गोपाय । अᳪहसःअᳪं᳭हसः पापात् । कियन्तं कालम् । आस्य यज्ञस्योदृचः आ अस्य यज्ञस्य समाप्तेः ॥ १० ॥
म० 'मेखलां बध्नीते वेणिं त्रिवृतᳪत्रिवृतᳪं᳭ शणमुञ्जमिश्रामन्तरां वासस ऊर्गसीति' ( का० ७ । ३ । २६)। अङ्गिरोभिर्दृष्टं मैखलं यजुः । हे मेखले, त्वमाङ्गिरसी अङ्गिरोनामकानामृषीणां संबन्धिनी ऊर्क् अन्नरसरूपासि । किंभूता । ऊर्णम्रदाः ऊर्णेव म्रदीयसी कम्बलवन्मृदुरसि । तथाविधा त्वमूर्जमन्नरसं मयि धेहि स्थापय । अङ्गिरसः स्वर्गं लोकं गच्छन्तोऽन्नरसं व्यभजन्त विभज्यमानेऽवशिष्टोऽन्नरसो भूमौ पतितः शणमुञ्जनामकतृणरूपेणाविर्भूतस्तस्माच्छणमुञ्जमयी मेखला । अतएव मेखलाया आङ्गिरसत्वमिति तित्तिरिणा प्रत्यपादि । 'नीविं कुरुते सोमस्य नीविरिति' (का. ७ । ३ । २७ )। हे मेखले, त्वं सोमस्य नीविरसि सोमदेवतायाः प्रियभूता ग्रन्थिरसि । मूलाग्रयोरेकीकरणेन ग्रन्थिविशेषो नीविरुच्यते । अदीक्षितस्य पितृदेवत्या नीविरुक्ता दीक्षितस्य तु सोमयागाय नीविः सोमेन व्यपदिश्यते । 'शिरः प्रोर्णुते विष्णोः शर्मेति' ( का० ७ । ३ । २८)। हे वस्त्र, त्वं विष्णोः व्यापकस्य यज्ञस्य शर्मासि सुखहेतुर्भवसि । अतो यजमानस्य शर्म सुखं कुर्विति शेषः ॥ 'कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां | दशायां बध्नीते तया कण्डूयनमुपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्रस्य योनिरितीति' (का० ७ । ३ । २९-३१)। हे कृष्णविषाणे, त्वं यथा पूर्वमिन्द्रस्य योनिरसि तथेदानीं यजमानस्य स्थानं भवेति शेषः । पुरा कदाचिद्यज्ञपुरुषो दक्षिणां देवीं समभवत्तस्मात्संभावनादिन्द्रोऽजायत तदानीमत्रान्यस्योत्पत्तिर्मा भूदिति विचार्येन्द्रः स्वां योनिं दक्षिणाया आच्छिद्य मृगेषु न्यदधात् । निहिता सा योनिः कृष्णविषाणाभूदिति तित्तिरिश्रुतौ यज्ञो दक्षिणामभ्यधादित्याख्याने कथा । । तस्मात्कृष्णविषाणाया इन्द्रयोनित्वम् ॥ 'भूमौ चोल्लिखति सुसस्या इतीति' (का० ७ । ३ । ३२ )। हे कृष्णविषाणे, त्वं कृषीः सुसस्याः कृधि कुरु । करतेः शपि लुप्ते 'श्रुशृणु' (पा० ६ । ४ । १०२) इत्यादिना हेर्धिः । शोभनं सस्य ' यासु ताः सुसस्याः । सस्यं व्रीहियवादि । तदर्थो भूम्युल्लेखः । कृषिः । यजमानानां कृषयः सन्ति ताः सर्वाः शोभनधान्याः कुर्वित्यर्थः । 'मुखसंमितमौदुम्बरं दण्डं प्रयच्छत्युच्छ्रयस्वेत्येनमुच्छ्रयतीति' (का० ७ । ४ । १-२) । दण्डो देवता । हे । वनस्पते वृक्षावयव दण्ड, उच्छ्रयस्व उन्नतो भव । ऊर्ध्वो भूत्वा अंहसः पापात् मा मां पाहि रक्ष । तत्र कालावधिरुच्यते ।
अस्यानुष्ठीयमानस्य यज्ञस्य उदृचः उत्तमायाः समाप्तिगतायाः ऋचः आ तदृक्पर्यन्तमित्यर्थः ॥ १० ॥
 
एकादशी।
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: ।
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪय॒ज्ञवा॑हसᳪं᳭ सुती॒र्था नो॑ अस॒द्वशे॑ ।
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑ ।। ११ ।।
उ० वाचं विसृजते । व्रतं कृणुत । व्रतशब्देन पयोभिधीयते । मम क्षिप्रं भोजनार्थं पयः कुरुत । अग्निः ब्रह्म त्रयीलक्षणम् । अग्निः यज्ञः अग्निं प्रत्याख्याय यज्ञो न प्रवर्तत इत्याशयः । वनस्पतिर्यज्ञियः । 'न हि मनुष्या यजेरन्यद्वनस्पतयो न स्युः' इति श्रुतिः । दैवीं धियम् । शक्वरी अतिशक्वरी वा । अस्याश्च पूर्णेनार्धर्चेन व्रतायोपस्पृशति दैवीं धियं मनामहे । मनामह इति याञ्चाकर्मसु पठितः । देवसंबन्धिनीं धियं याचामहे । सुमृडीकाम् । 'मृड सुखने'। सुसुखाम् । अभिष्टये । अभिपूर्वस्य यजतेरादिलोपः । अभिइष्टये अभियागाय । अथवा अभिपूर्वस्य सिञ्चतेः अभिष्टिः । अभिषेकाय प्रक्षालनाय । वर्चोधाम् ब्रह्मवर्चसो धारयित्रीम् । यज्ञवाहसम् यज्ञस्य वोढ्रीम् । सा च सुतीर्था नोऽसत् यज्ञं प्रति शोभनावतारा अस्माकं भवतु । वशे वश्या भवतु । व्रतं व्रतयति । ये देवाः । अत्राग्निहोत्रसंपदं यजमानः करोति । ये मयि प्राणेषु देवाः मनोजाताः मनसो जाताः । मनःपूर्वका हि तेषु प्रवृत्तिः । मनोयुजः मनसा युज्यन्ते स्वप्नावस्थायामिति मनोयुजः । दक्षक्रतवः क्रतुः संकल्पः तस्यैव समृद्धिर्दक्षक्रतुशरीरा । 'वागेवाग्निः प्राणोदाना मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' य एते अध्यात्मश्रुतौ पठ्यन्ते त इहोच्यन्ते । ते नः अस्मान् अवन्तु ते अस्मान् पान्तु पालयन्तु तेभ्यश्च स्वाहा सुहुतमस्तु सुहुतमेतद्धविर्भवतु ॥११॥
पङ्क्तिः २७४:
 
चतुर्दशी ।
अग्ने॒ त्वᳪत्वᳪं᳭ सु जा॑गृहि व॒यᳪव॒यᳪं᳭ सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि ।। १४ ।।
उ० स्वपिति । अग्ने त्वम् । अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि साधु जागृहि । वयं सुमन्दिषीमहि । 'मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । वयं स्वप्स्यामः । मन्दतिः स्वप्नार्थः। किंच रक्ष नः अस्मान् अप्रयुच्छन् । 'युच्छ प्रमादे'। किंच प्रबुधे प्रबोधाय नः अस्मान् पुनः कृधि कुरु ॥ १४ ॥
म० 'अग्ने, त्वमित्युक्त्वा स्वपित्यधः प्राग्दक्षिणत इति' (का० ७ । ४ । ३९)। अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि सुष्ठु निद्रारहितो भव । वयं यजमानाः सुमन्दिषीमहि साधु स्वप्स्यामः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' अत्र स्वप्नार्थः । आशीर्लिङ्युत्तमबहुवचने रूपम् । किंच । नोऽस्मान् रक्ष । किं कुर्वन् । अप्रयुच्छन् । 'युच्छ प्रमादे' । अप्रमाद्यन् । | 'द्व्यचोतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'नश्च धातुस्थोरुषुभ्यः' (पा० ८।४।२७) इति | न इत्यस्य णत्वम् । नो अप्रयुच्छन्नित्यत्र 'एङः पदान्तादति' (पा० ६।१।१०९) इति पूर्वरूपे प्राप्ते 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१।११५) इति प्रकृतिभावः । किंच अग्ने, नोऽस्मान् पुनः प्रबुधे प्रबोधाय । कृधि कुरु । प्रबोधनं प्रभुत् तस्यै प्रबुधे । संपदादित्वाद्भावे क्विप् । स्वपतोऽग्नेः प्रार्थनं रक्षसां नाशाय । तदुक्तं तित्तिरिणा 'अग्निमेवाधिपं कृत्वा खपिति रक्षसामपहत्या' इति ॥ १४ ॥
पङ्क्तिः २९१:
सप्तदशी।
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ।। १७ ।।
उ० एघा ते । अनुष्टुभौ । पूर्वार्धर्चो हिरण्यदेवत्यः उत्तरो वाग्देवत्यः विनियोगो ध्रौवाज्ये । आज्यं जुह्वां चतुः क्षिप्त्वा तत्र हिरण्यं निदधाति । आज्यमुच्यते । एषा हिरण्यलक्षणा ते तव हे शुक्राज्य तनूः शरीरम् । 'समानजन्म वै पयश्च हिरण्यं चोभयᳪचोभयᳪं᳭ ह्यग्निरेतसम्' इति श्रुतिः । एतच्च हिरण्यलक्षणं वर्चस्तेजः तया तन्वा संभव एकीभव । एकीभूय च भ्राजं सोमं गच्छ । जुहोति जूरसि 'जीव प्राणधारणे' । अस्य क्विबन्तस्यापि डूप्रत्यये जूरिति भवति । या त्वं जीवनमसि । 'धिया धिया ह्येतया मनुष्या जुजूषन्ति' इति श्रुतिः। अथवा जवत इति जूः । 'एतᳪह्याकाशमनुजवतेएतᳪं᳭ह्याकाशमनुजवते' इति श्रुतेः । या च त्वं धृता धारिता मनसा। 'जुषी प्रीतिसेवनयोः' । अभिरुचिता च । विष्णवे विष्णोः सोमस्य ॥ १७ ॥
म०. 'शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति बर्हिस्तृणेन हिरण्यं बद्ध्वावदधात्येषा त इतीति' (का० ७ । ६ । ७-८)। ध्रुवास्थमाज्यं जुह्वां चतुर्ग्रहीत्वा तत्राज्ये दर्भतृणबद्धं स्वर्णं क्षिपेदिति सूत्रार्थः । एषा ते । हिरण्याज्यदैवतम् । हे शुक्र शुक्ल दीप्यमानाग्ने, ते तव एषा तनूः दृश्यमानमाज्यं शरीरम् । एतत् आज्ये प्रक्षिप्यमाणं हिरण्यं ते वर्चः त्वदीयं तेजः । तया आज्यरूपया तन्वा संभव एकीभव । ततो भ्राजं गच्छ । 'भ्राज दीप्तौ' हिरण्यगतां दीप्तिं प्राप्नुहि । एतन्मन्त्रपाठेनाग्नेः सतेजस्त्वं सतनुत्वं च संपद्यते । तदुक्तं तित्तिरिणा 'सतेजसमेवैनं सतनुं करोति' इति । यद्वायमर्थः । हे शुक्र आज्य, एषा हिरण्यलक्षणा ते तनूः एतत्ते वर्चश्च । 'समानजन्म वै पयश्च हिरण्यं चोभयं ह्यग्निरेतसम्' ( ३ । २।४। ८) इति श्रुतेः । तया हिरण्यलक्षणया तन्वा संभव एकीभूय भ्राजं सोमं गच्छ । भ्राजतेऽसौ भ्राट् तम् । 'सोमो वै भ्राट्' ( ३ । २ । ४ । ९) इति श्रुतेः । ‘जूरसीति जुहोतीति' (का० ७ । ६ । ९) । वाग्दैवतम् । हे वाक् , त्वं जूरसि वेगयुक्तासि । यद्वा ‘जीव प्राणधारणे' । जीवयतीति जूः । डूप्रत्ययः । किंभूता त्वम् । मनसा धृता नियमिता । तथा विष्णवे जुष्टा । यज्ञो वै विष्णुः । यज्ञार्थं प्रीतियुक्ता । यद्वा षष्ठ्यर्थे चतुर्थी । यज्ञस्य रुचिता ॥ १७ ॥
 
पङ्क्तिः ३०४:
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।। १९ ।।
उ० सोमक्रयणीमभिमन्त्रयते वागूपाध्याहारोपकल्पनया। त्वं चिदसि । चित्तस्य मनसोऽनुवादिनी भवसि । या च मनोसि प्रज्ञासि । या च धीरसि बुद्धिर्भवसि । 'धिया ह्येतया मनुष्या जुजूषन्ति जीवितुमिच्छन्ति' इति श्रुतिः। या च त्वं दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इत्येतदभिप्रायम् । तेभ्यो वाचं दक्षिणामानयन्नित्येतदभिप्रायं वा । या च क्षत्रियासि । क्षतात् त्रायत इति क्षत्रियः । जात्या स्तूयते वा । या च यज्ञियासि यज्ञार्हासि । या च अदितिरसि । अदीनासि । या च उभयतःशीर्ष्णी उभयतोमुखी । वाक्ये पदानामन्यथाचान्यथा च क्रमो भवतीत्येतदभिप्रायम् । स यदेनया सयानᳪसविपर्यासंसयानᳪं᳭सविपर्यासं वदति' इत्यादिश्रुतिः । सा नः सुप्राची सुप्रतीची एधि । या त्वमुक्तगुणासि सास्माकं सुप्राची भव। सोममभिगच्छेत्यर्थः । सुप्रतीच्येधि । साधु अस्मान् प्रति सोमं गृहीत्वा आगच्छेत्यर्थः । 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' इति श्रुतिः । किंच । मित्रस्त्वा पदि बध्नीताम् । मित्र आदित्यस्त्वां पदि पादे बध्नातु अप्रणाशाय । किंच पूषाध्वनस्पातु इयं वै पृथिवी पूषा सा त्वामध्वनः मार्गात् पातु रक्षतु । किंच इन्द्रायाध्यक्षाय । चतुर्थ्याः षष्ठ्या विपरिणामः । अधि उपरि अक्षिणी यस्य सोऽध्यक्षः । इन्द्रस्याध्यक्षस्य सतः ॥ १९॥
म० 'चिदसीत्येनामभिमन्त्रयते' (का० ७ । ६ । १५) इति कण्डिकाद्वयेन । एनां सोमक्रयणीमित्यर्थः । वाग्रूपाध्यारोपकल्पनया सोमक्रयणी गौः स्तूयते । हे वाग्देवतारूपे सोमक्रयणि, त्वं चिदसि मनोऽसि धीरसि । अन्तःकरणस्य चित्तमनोबुद्धय इति तिस्रो वृत्तयः । तल्लक्षणानि । अचेतन देहादिसङ्घातस्य चेतनत्वं संपादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तं तदेवात्र चिदित्युच्यते । लोके कंचित्पदार्थं दृष्ट्वा एवं भवति न वेति संकल्पविकल्पौ कुर्वाणा वृत्तिर्मनः तदेवात्र मन इत्युच्यते । इदमित्थं भवत्येवेति निश्चयरूपा वृत्तिर्बुद्धिः सैवात्र धीशब्देनोच्यते । वागात्मिका सोमक्रयणी चिन्मनोधीरूपत्वेन प्रशस्यते । चिदादिरूपत्वमारोप्य स्तुतिः कृता । दक्षिणादिरूपत्वं तु विद्यमानमेव स्तूयते । हे गौः, त्वं दक्षिणासि । गवां देयद्रव्यत्वेन कर्मसु दक्षिणात्वं प्रसिद्धम् । यद्वा वाग्दानस्य प्रशस्त त्वाद्दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इति स्मृतेः । तथा क्षत्रियासि सोमक्रयसाधनत्वेन । तथाहि । देवेषु क्षत्रजात्यभिमानी सोमः । तदुक्तं बृहदारण्यके 'यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः' (माध्य० १ । २ । १३) इति । तेन सोमेन क्षत्रेणाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वेन त्वं क्षत्रियासि । तद्रूपं चास्याः क्रयद्वारा तत्संबन्धित्वादुपचर्यते । अतएव यज्ञसंबन्धित्वाद्यज्ञिया यज्ञार्हासि । अदितिः अखण्डिता अदीना देवमातृरूपासि । नास्ति दितिर्यस्याः सा । 'अदितिरदीना देवमाता' (निरु० ४ । २२) इति यास्कः । तथा उभयतःशीर्ष्णी उभयतः शीर्षे यस्याः सा । ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोः शीर्षत्वम् । 'द्वे शीर्षे प्रायणीयोदयनीये' | (निरु० १३ । ७) इति यास्कोक्तेः । यद्वोभयतःशीर्ष्णी सर्वतोमुखी वाग्रूपत्वात् । स यदेनया समानं सद्विपर्यासं वदति' (३ । २ । ४ । १६) इति श्रुतेः । सा पूर्वोक्ता | चिदादिरूपा त्वं नोऽस्मदर्थे सुप्राची सुप्रतीची च एधि भव । | सुष्ठु प्राङञ्चतीति सुप्राची । सुष्ठु प्रत्यङ्ङञ्चतीति सुप्रतीची। प्रथमं सोमस्य क्रेतारं प्रति सुष्ठु प्राङ्मुखीभूत्वा पश्चात्सोमेन सहास्मान्प्रत्यागन्तुं सुष्ठु प्रत्यङ्मुखी भवेत्यर्थः । तथाच श्रुतिः 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' (३ । २ । ४ । १७) इति । किंच मित्रः सूर्यः पदि दक्षिणपादे त्वा त्वां बध्नीतां बन्धनं करोतु अप्रणाशाय । तथा पूषा पोषको देवः सूर्य एवाध्वनो मार्गात्पातु त्वां रक्षतु । यद्वा पूषेत्याबन्तं स्त्रीलिङ्गं पदम् । पूषा पृथिवी त्वां मार्गात् पातु 'इयं वै पृथिवी पूषा' ( ३।२।४।१९) इति श्रुतेः । किमर्थम् । इन्द्राय इन्द्रप्रीत्यर्थम् । किंभूतायेन्द्राय । अध्यक्षाय अधि उपरि अक्षिणी यस्य सोऽध्यक्षस्तस्मै द्रष्ट्रे । यज्ञस्वामिने इत्यर्थः ॥ १९ ॥
 
विंशी।
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪसोम॑ᳪं᳭ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ।। २० ।।
उ० किंच सोमाहरणप्रवृत्तां त्वामेते अनुमन्यन्तां त्वा त्वां माता अनुमन्यतां त्वां पिता अनुमन्यतां त्वां भ्राता सगर्भ्यः समानगर्भभवः अनुमन्यतां । त्वां सखा सयूथ्यः समानयूथप्रभवः सखा अनुमन्यताम् । किंच या त्वं कृतसामग्रीकाऽस्माभिः सोमं प्रति गमने सा त्वं हे देवि दानादिगुणयुक्ते, देवमच्छेहि । 'अच्छाभेराप्तुमिति शाकपूणिः' । देवं सोममध्येहि अभिगच्छ । इन्द्राय सोमम् आहर्तुमिति शेषः। किंच । रुद्रस्त्वावर्तयतु रुद्रः त्वाम् आवर्तयतु । रुद्राज्ञां नातिक्रामन्ति पशवः । ततः स्वस्ति अविनाशेन सोमसखा सती पुनरागच्छ ॥ २० ॥
म० किंच सोमाहरणे प्रवृत्तां त्वां माता त्वदीया जननी अनुमन्यतामनुज्ञां ददातु । पितानुमन्यताम् । उपसर्गावृत्त्या क्रियापदावृत्तिः । सगर्भ्यः समाने गर्भे भवः सहोदरो भ्रातानुमन्यताम् । 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (६ । ३ । ८४) इति समानपदस्य सादेशः । सयूथ्यः समाने एकस्मिन्यूथे गोसमूहे भवः सयूथ्यः सखा वत्सोऽनुमन्यताम् । हे देवि सोमक्रयणि, सा त्वमिन्द्राय इन्द्रार्थं सोमं देवमच्छेहि प्राप्तुं गच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८)। किंच रुद्रः त्वा त्वां वर्तयतु सोमं गृहीत्वा स्थितां त्वां रुद्रो देवोऽस्मान्प्रति निवर्तयतु । यद्वा रुद्रः त्वां प्रवर्तयतु । यतो रुद्राज्ञां नातिक्रामन्ति पशवः । सोमो देवः सखा यस्याः सा सोमसखा । ईदृशी सोमसहिता सती स्वस्ति क्षेमेण पुनरेहि भूयोऽप्यागच्छ ॥ २० ॥
पङ्क्तिः ३२०:
द्वाविंशी ।
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪव॒यᳪं᳭ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑: ।। २२ ।।
उ० पदे जुहोति । अदित्यास्त्वा अदित्याः पृथिव्यास्त्वाम् हे आज्य, मूर्धनि शिरसि आजिघर्मि । ' घृ क्षरणदीप्त्योः' आक्षारयामि । देवयजने पृथिव्याः इडाया गोः पदं यतस्त्वमसि अतो घृतवत् घृतयुक्तं त्वां कर्तुं जुहोमीति शेषः । पदं लिखति । अस्मे रमस्व अस्मासु रतिं कुरु । पदं स्थाल्यामावपति । अस्मे ते बन्धुः वयं ते तव बन्धुभूताः । यजमानाय पदं प्रयच्छति । त्वे रायः । पशवो वै रायः । त्वयि पशवः सन्त्विति शेषः । पदं यजमानः प्रतिगृह्णाति । मे रायः । मयि पशवः सन्त्विति शेषः । | अध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्म मा विभक्ताः स्याम वयं धनस्य पोषेण । गृहीतपदां पत्नी वाचयति । तोतोरायः । त्वयि रायः पशवः सन्त्विति शेषः ॥२२॥ ।
म० षट्पदान्यतीत्य सप्तमं पर्युपविशन्ति हिरण्यमस्मिन्निधायाभिजुहोत्यदित्यास्त्वेतीति' (का० ७ । ३ । १७-१८)। | आज्यदैवतं यजुः । अदित्याः अखण्डितायाः पृथिव्याः भुवो मूर्धन् मूर्धनि शिरोरूपे देवयजने देवानां यागयोग्यस्थाने हे आज्य, त्वा त्वामाजिघर्मि आक्षारयामि । 'घृ क्षरणदीप्त्योः ' । 'पृथिव्या ह्येष मूर्धा यद्देवयजनम्' इति तित्तिरिश्रुतेर्देवयजनस्य पृथिवीमूर्धत्वम् । किंच हे स्थानविशेष, त्वमिडायाः गोः पदमसि गोपदेनाङ्कितत्वात्तद्रूपमसि । तच्च पदं घृतवत् घृतयुक्तं कर्तुं स्वाहा जुहोमि । 'स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति' (का० ७ । ६ । १९) । हे गोः पद, त्वमस्मे अस्मासु रमस्व क्रीडां कुरु । 'समुद्धृत्य पदᳪपदᳪं᳭ स्थाल्यामावपत्यस्मे ते बन्धुरिति' (का० ७ । ६ । २०)। हे सोमक्रयणीपद, ते तव अस्मे बन्धुः वयं बन्धुभूताः स्मः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति जसः शेआदेशे अस्मे इति रूपम् । 'यजमानाय पदं प्रयच्छति त्वे राय इति' (का० ७ । ६ । २१) । हे यजमान, त्वे त्वयि रायो धनानि एतत्पदरूपेण तिष्ठन्त्विति शेषः । यद्वात्र रायः पशवः । 'पशवो वै रायः' (३ । ३ । १।८) इति श्रुतेः। त्वयि पशवः सन्तु । 'मे राय इति यजमानः प्रतिगृह्णातीति' (का. ७ । ६ । २२) । मे मयि यजमाने रायो धनानि पदरूपेण तिष्ठन्तु । पशवो मयि सन्तु । ङेः शेआदेशे मे इति रूपम् । ‘मा वयमित्यध्वर्युरात्मानᳪवयमित्यध्वर्युरात्मानᳪं᳭ संस्पृशतीति' (का. ७।६।२३) । वयमध्वर्युप्रभृतयो रायस्पोषेण धनस्य पुष्ट्या मा वियोष्म वियुक्ता मा भवाम । यौतेः 'माङि लुङ्' (पा० ३।३।१७५) इति लुङि उत्तमबहुवचने वियौष्मेति रूपम् । 'हृत्वा पत्न्यै पदं प्रयच्छति नेष्टा तोत इत्येनां वासयतीति' (का० ७ । ६ । २४-२५) । तोतःशब्दः कलत्रवाची अव्ययम् । तोतः कलत्रे रायो धनानि पशवो वा पदरूपेण तिष्ठन्तु । यद्वाव्ययानामनेकार्थत्वात्तोतःशब्दो युष्मत्पर्यायः । तोतः त्वयि रायः सन्तु ॥ २२ ॥
 
त्रयोविंशी।
पङ्क्तिः ३२८:
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑ ।। २३ ।।
उ० सोमक्रयण्या समीक्षयति । समख्ये । पत्न्याशीः । आस्तारपङ्क्तिः। सोमक्रयणीतः पत्न्याशिषमाशास्ते। यया त्वया अहं समख्ये । 'ख्या प्रकथने' । संदर्शनं कृतवती । देव्या दानादिगुणयुक्याक । धिया प्रज्ञया । सहार्थे तृतीया । संदक्षिणया उरुचक्षसा समख्ये च दक्षिणया सह । गौर्हि प्रायशो दक्षिणा दीयते । उरुचक्षसा विस्तीर्णदर्शनया । वाचोभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । सा त्वं मा म आयुः प्रमोषीः । 'मुष स्तेये। मा प्रमोषीः मावखण्डय मम आयुः। मा अहं तवायुः प्रमोषिषम् । किंच वीरं विदेय । विदिर्लाभार्थः । पुत्रं लभेय । संदृशि हे देवि, तव संदर्शने सति ॥ २३ ॥
म० सोमक्रयण्या च समीक्ष्यमाणाᳪसमीक्ष्यमाणाᳪं᳭ समख्य इतीति' (का० ७॥ ६ । २६)। एनां वाचयतीत्यनुवर्तते । आस्तारपङ्क्तिः पत्न्याशीः । यस्या आद्यावष्टाक्षरौ पादावन्त्यौ द्वादशाक्षरौ सास्तारपङ्क्तिः । अन्त्यौ चेदास्तारपङ्क्तिरिति वचनात् । सोमक्रयणीतः पत्न्याशिषमाशास्ते । हे सोमक्रयणि, देव्या द्योतमानया त्वया धिया बुद्ध्या सह बुद्धिपूर्वकमहं समख्ये अदृक्षि दृष्टेत्यर्थः । 'ख्या प्रकथने' इत्यस्य धातोः संपूर्वस्य लुङि तङि 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १।५२) इति च्लेरङि उत्तमैकवचने कर्मणि समख्ये इति रूपम् । एकं संपदं पादपूरणाय । किंभूतया त्वया । दक्षिणया दक्षिणात्वयोग्यया । तथा उरुचक्षसा उरु चष्टे सोरुचक्षास्तया विस्तीर्णदर्शनया । एवंविधा त्वं मे मम पत्न्या आयुः मा प्रमोषीः मा खण्डय । 'मुष स्तेये लुङि रूपम् । मो अहं तव । तव सोमक्रयण्या आयुरहं पत्नी मा उ मैव प्रमोषिषमित्यध्याहारः । मार्थे मो इत्यव्ययं वा । अहं तवायुर्न नाशयामीत्यर्थः। किंच वीरं विदेय तव देवि संदृशि। हे देवि गौः, तव संदृशि संदर्शने सति वीरं पुत्रं विदेय लभेय । संदर्शनं संदृक् भावे क्विप् । 'विद्लृ लाभे' इत्यस्य व्यत्ययेन 'तुदादिभ्यः शः' (पा० ३। १ । ८७) इति शप्रत्यये लिङि रूपम् ॥ २३ ॥
 
चतुर्विंशी।
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ᳪब्रूताच्छन्दोना॒माना॒ᳪं᳭ साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ।।२४ ।।
उ० यजमानं वाचयति । एष ते गायत्रो भागः । हे सोम, एष ते तव गायत्रीसंबन्धी भागः अंशः इति एवं मे यजमानाभिधायकं पदम् । सोमायेति षष्ठ्यर्थे चतुर्थी । मम वचनमेवं सोमस्य ब्रूतात् कथयत। हे अध्वर्यवः, छन्दोर्थं तव क्रयो न वधार्थम् । एवं यजमानाभिप्रायः । एतदध्वर्यवः सोमस्य कथयन्तीति वाक्यार्थः । एष ते त्रैष्टुभो भागः । एष ते जागत इत्यनेनैव व्याख्यातौ । छन्दोनामानाम् । नामशब्दोऽनर्थकः । अन्येषामपि छन्दसां साम्राज्यमाधिपत्यं गच्छ इति एवं मे ममाभिप्रायं सोमस्य ब्रूतात् कथयत । हे अध्वर्यवः । अनापि मे इत्येतत्पदं यजमानवाच्यमेव । सोममालभते । आस्माकोसि । यस्त्वां हे सोम, क्रयार्थमुपागतः स आस्माको मदीयः संजातः । शुक्रस्ते ग्रहः । उपलक्षणार्थः । शुक्रप्रभृतयो ग्रहास्तव ग्रहीष्यन्ते । किंच विचितः विचयनकर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु ॥ २४ ॥
म० एष त इति वाचयतीति' (का० ७ । ७ । ८)। मन्त्रचतुष्टय यजमानः पठेत् । हे अध्वर्यो, सोमाय सोमाभिमानिने देवाय मे इति वचो ब्रूतात् वं ब्रूहि कथय । इति किम् । हे सोम, ते तव एष पुरो दृश्यमानो भागो गायत्रो गायत्रीसंबन्धी । गायत्रीच्छन्दोऽर्थं तव क्रयो नतु वधार्थमिति यजमानाभिप्रायः । तं ममाभिप्रायं सोमाय कथयेत्यर्थः । ते तव एष त्रैष्टुभः त्रिष्टुप्छन्दसः संबन्धी भाग इति मेऽभिप्रायमध्वर्यो, सोमाय त्वं ब्रूहि । एवमग्रेऽपि । जागतो जगतीच्छन्दसः संबन्धी । अन्यत्पूर्ववत् । छन्दोनामानां छन्द इति नाम येषामन्येषामप्युष्णिगादीनां ताः छन्दोनामानः तेषां साम्राज्यं गच्छ सर्वेषां छन्दसामाधिपत्यं प्राप्नुहि। इति मे वचः सोमाय ब्रूतात्कथय । यः सोमाय छन्दसामाधिपत्यं दत्त्वा क्रीणाति तं स स्वानामाधिपत्यं प्राप्नोति। तदुक्तं तित्तिरिणा 'यो वै सोमं राजानᳪराजानᳪं᳭ साम्राज्यलोकं गमयित्वा क्रीणाति गच्छति स्वानाᳪस्वानाᳪं᳭ साम्राज्यमिति' । अत एतैर्मन्त्रैः सोमस्य राज्याप्तिः सूचिता । गायत्र्यादिच्छन्दोदेवता यत्र तिष्ठन्ति स छन्दोलोकस्तदाधिपत्यं प्रापय्य सोमं क्रीणानः स्वाधिपत्यभाग्भवतीत्यभिप्रायः । 'प्राङुपविश्यास्माकोऽसीति सोममालभते' (का० ७।७।९) इति । हे सोम, त्वं क्रयपथमागतः सन्नास्माकोऽसि । शुक्रः शुक्लसंज्ञः ते तव ग्रह्यः । ग्रह एव ग्रह्यः । शुक्रपदमैन्द्रवायवादिग्रहाणामुपलक्षणम् । शुक्रादयः सर्वे तव ग्रहा इत्यर्थः । विचितः ।। विचिन्वन्तीति विचितः विवेकेन चयनस्य कर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु । सारासारविवेकं कृत्वा सारभूतं समूहयन्त्वित्यर्थः ॥ २४ ॥
 
पञ्चविंशी।
अ॒भि त्यं दे॒वᳪदे॒वᳪं᳭ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪस॒त्यस॑वᳪं᳭ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ।। २५ ।।
उ० सोमं मिमीते । अभि त्यं देवम् । सावित्र्यत्यष्टिः ।। अभ्यर्चामि अभिपूजयामि । त्यं तम् । देवं दानादिगुणयुक्तं सवितारम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानम् । कविक्रतुं मेधाविकर्माणम् । सत्यसवं अवितथप्रसवम् । रत्नधाम् रमणीयानां धनानां दातारम् । अभिरनर्थकः । प्रियम् सर्वजनानां प्रियम् । मतिं बुद्धिं व्याप्यावस्थितम् । मतीनां हि सविताधिष्ठात्री देवता । कविं क्रान्तदर्शनम् । किंच ऊर्ध्वा यस्याऽमतिः भा अदिद्युतत् सवीमनि । यस्य सवितुः ऊर्ध्वा गमनाभिमुखी अमतिः आत्ममयी मतिः अनन्यभूता । कतरा भा दीप्तिः अदिद्युतत् द्योतयते सवीमनि प्रसवे पूर्णे हि दातव्ये । स सविता हिरण्यपाणिः सुवर्णपाणिः अमिमीत ममीते सोमं परिच्छिनत्ति । सुक्रतुः साधुकर्मा शोभनयज्ञो वा कृपा कल्पनया सोमस्य कल्पना । स्वः आदित्यः सु अरणः । अन्तान् संगृह्योष्णीषेण बध्नाति । प्रजाभ्यस्त्वाम् । बध्नामीति शेषः । उत्पत्तये स्थितये च प्रजानां हे सोम, त्वां बध्नामि । अङ्गुल्या मध्ये विवृणोति । प्रजास्त्वानुप्राणन्तु। हे सोम, त्वां प्राणन्तमुच्छ्वसन्तम् । प्रजा अनुप्राणन्तु उच्छ्वसन्तु । त्वं च प्रजाः उच्छ्वसतीः अनुप्राणिहि अनूच्छ्वसिहि । 'तमयतीति वा एनमेतत्समायच्छन्नं प्राणमिव करोति तस्येतदतएव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति' इत्यादि ब्राह्मणम् ॥ २५ ॥
म० 'सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा तस्मिन्सोमं मिमीते दशकृत्वोऽभित्यमितीति' (का० ७ । ७ । १२-१३)। सावित्र्यष्टिः । त्यन्तं सवितारं देवमभ्यर्चामि सर्वतः पूजयामि । किंभूतं देवम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानमिति शेषः । ओण्योरिति द्यावापृथिवीनामसु पठितम् । तथा कविक्रतुं कविः क्रतुः यस्य तं मेधाविकर्माणम् । सत्यसवं सत्यः सवो यस्य अवितथप्रेरणम् । तथा रत्नधां रत्नानि दधातीति रत्नधास्तं रत्नानां धारकं पोषकं दातारं वा अभिप्रियं सर्वतः प्रीतिविषयम् । मतिं मन्यत इति मतिस्तं मननयोग्यम् । कविं क्रान्तदर्शनम् । किंच यस्य सवितुर्भा दीप्तिः अमतिः केनापि मातुमशक्या सती ऊर्ध्वा गगनाभिमुखी सवीमन्यदिद्युतत् सवः प्रसवः प्रवृत्तिर्नक्षत्रादीनां यस्मिन् स सवीमा तस्मिन् गगनप्रदेशे सर्वाणि वस्तूनि द्योतयन्ते । यद्वायमर्थः । यस्यामतिरात्ममयी भा ऊर्ध्वा गगने सर्वमदिद्युतत् । अमाशब्द आत्मवचनः । आत्ममयी ततिर्मतिर्वा अमतिः । तन्यत | इति ततिः दीप्तिः । मतिरपि प्रकाशरूपत्वाद्दीप्तिः । अमाततिशब्दस्य वा अमतिभावः । सवितृभाविशेषणम् । आत्मप्रकाशमयी ततिर्मतिर्वा यस्य भाः अदिद्युतत् । किंनिमित्तम् । सवीमनि अनुज्ञानिमित्तं सर्वान् कर्माण्यनुज्ञातुमित्यर्थः । 'षु प्रसवैश्वर्ययोः' 'वृस्तृस्तुभ्य () इमनिच्' इतीमनिच् । गुणावादेशौ । सवीमा प्रसवोऽनुज्ञेत्यभिधानम् । स स्वरादित्यः । कृपा कल्पनं कृप् तया कृपा कल्पनया अमिमीत सोममिति शेषः । एतावान्सोम इति तदीयं परिमाणं निश्चितवानित्यर्थः । किंभूतः स्वः । हिरण्यपाणिः हिरण्यं पाणौ यस्य सौवर्णाभरणयुक्तहस्तः । सुक्रतुः साधुसंकल्पः । | 'अन्तान् संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेतीति' (का. ७ । ७ । २०) । हे सोम, प्रजाभ्यः प्रजानामुपकाराय त्वा त्वां बध्नामीति शेषः । 'अङ्गुल्या मध्ये विवृणोति प्रजास्त्वानुप्राणन्त्वितीति' (का० ७ । ७ । २१) । उष्णीषेण बद्धस्य | सोमदेवस्य श्वासरोधो मा भूदिति विवरं कुर्यादिति सूत्रार्थः। | हे सोम, प्रजास्त्वामनुप्राणन्तु श्वासं कुर्वन्तं त्वामनुसृत्य सर्वाः प्रजाः श्वासं कुर्वन्तु जीवन्तु । तथा हे सोम, प्रजा अनु श्वासं कुर्वतीः प्रजा अनुसृत्य प्राणिहि श्वासं कुरु । प्रजानां तव च कदाचित् श्वासरोधो मा भूत् परस्परमनुसृत्य जीवनं भवत्वित्यभिप्रायेण विवरकरणमित्यर्थः ॥२५॥
पङ्क्तिः ३४३:
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ।। २६ ।।
उ० हिरण्यमालभ्य वाचयति । शुक्रं त्वा । हे सोम, शुक्रमक्लिष्टकर्माणं त्वां शुक्रेण हिरण्येन क्रीणामि । एवं सर्वमपि व्याख्येयम् । सोमविक्रयिणं हिरण्येनाभिकम्पयति। सग्मे ते गौः गौरिति विपरिणामः । सह गवा वर्तत इति सग्मो यजमानः । तव संबन्धिनी या गौः सा यजमाने वर्तत इति सोमक्रयिणं निराशं करोति । यजमानसहितं निदधाति । अस्मे ते। हे सोमक्रयिन् , अस्मासु तव संबन्धीनि हिरण्यानि वर्तन्ते । अजामालभ्य वाचयति । तपसस्तनूरसि तपसः प्रजापतेः हे अजे, तनूः शरीरं त्वमसि । प्रजापतेश्च वर्णः रूपं त्वमसि । सा यन्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः । एवमजां सोमसमक्षमभिष्टुत्य अथेदानीं सोममाह । परमेण पशुना क्रीयसे त्वं हे सोम, सा यतस्त्रिः संवत्सरस्य विजायते तेन परमपशुः । यस्मात्त्वं परमेणोत्कृष्टेन पशुना क्रीयसे तस्मात्तव प्रसादादहम् सहस्रपोषं सहस्रं प्राणिनां यत्पुष्णाति धनं तदहं पुषेयं वर्धयेयम् । सहस्रप्राणिपोषो मम गृहे वर्धमानोस्तु इत्यभिप्रायः ॥ २६ ॥
म० 'शुक्रं त्वेति हिरण्यमालभ्य वाचयतीति' (का० ७।८।१६ ) हे सोम, शुक्रं दीप्यमानं त्वा त्वां शुक्रेण दीप्यमानेन हिरण्येन क्रीणामि क्रीतं करोमि । किंभूतं त्वाम् । चन्द्रं 'चदि आह्लादने' फलहेतुत्वेनाह्लादकरम् । तथा अमृतं स्वादुत्वेनामृतसमानम् । किंभूतेन शुक्रेण । चन्द्रेणाह्लादकरेण तथामृतेनाग्निसंयोगादिनापि विनाशरहितेन । 'सग्मे त इति सोमविक्रयिणᳪसोमविक्रयिणᳪं᳭ हिरण्येनाभिकम्पयतीति' । (का० ७।८।१७) । यो हिरण्यमादाय सोमं विक्रीणीते तं हिरण्येनाभिकम्पयेत् । तद्धस्ते हिरण्यं दत्त्वा दत्त्वा स्वीकुर्वस्तं निराशं कुर्यादिति सूत्रार्थः । षष्ठी प्रथमार्थे । हे सोमविक्रयिन् , गौः सोममूल्यत्वेन तुभ्यं दत्ता सा त्वदीया गौः पुनः प्रत्यावृत्य सग्मे यजमाने तिष्ठतु । हिरण्यमेव तवास्तु गौर्मा भूदित्यर्थः । यद्वा ते गौः सग्मे वर्तते । गौः ग्मा क्षमा क्षा क्षामेत्युक्तेः ग्मा गौः तया सह वर्तमानः सग्मस्तस्मिन् सग्मे ते गोरिति । 'यजमाने ते गौः' (३ । ३ । ३ । ७) इति श्रुतेः । सग्मो यजमानः । 'अस्मे त इति यजमानसहितं निदधातीति' (का. ७।८।१८) । यजमाने प्रत्यर्पितं यद्गोद्रव्यं तत्पुनर्यजमानसहितं सोमविक्रयिणः पुरतो निदध्यादिति सूत्रार्थः । हे सोमविक्रयिन् , ते चन्द्राणि तुभ्यं दत्तानि यानि हिरण्यानि तान्यस्मे अस्मासु प्रत्यावृत्य तिष्ठन्तु । तव गौरेव सोममूल्यमस्तु हिरण्यानि मा भूवन्नित्यर्थः । 'अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरितीति' (का. ७ । ८ । २०) । अर्धे अजा देवतास्य यजुषोऽर्धे सोमः । हे अजे, त्वं तपसः पुण्यस्य तनूरसि देहोऽसि । दिवि स्थितस्य यज्ञियस्यानयनायाजां गृहीत्वा गायत्री जगामेति तित्तिरिणा सोमाहरणोपाख्याने उक्तत्वादजायाः पुण्यशरीरत्वम् । किंच हे अजे, त्वं प्रजापतेर्वर्णोऽसि । वर्णों देहः । यथा प्रजापतिः सर्वदेवताप्रिय एवमजापि । तदुक्तं तित्तिरिणा 'सा वा एषा सर्वदेवत्या यदजा' इति । एवमजामुक्त्वा सोमं प्रत्याह । हे सोम, परमेण पशुना उत्तमेनाजालक्षणेनानेन पशुना त्वं क्रीयसे । तपसस्तनूत्वादजाया उत्तमत्वम् । अतस्तव प्रसादात्सहस्रपोषं पुत्रपश्वादिसहस्राणां पोषो यथा भवति तथा पुषेयं पुष्टो भूयासम् । यद्वायमर्थः । हे अजे, त्वं प्रजापतेस्तपसस्तनूरसि प्रजापतितपोरूपासि तत उत्पन्नत्वात् । तदुक्तं श्रुत्या 'तपसो ह वा एषा प्रजापतेः संभूता यदजेतिः (३ । ३ । ३ । ८) । किंच प्रजापतेर्वर्णो रूपं त्वमसि । त्रिगुणत्वात्प्रजापतेस्त्रिरूपत्वम् । अजापि प्रतिसंवत्सरं त्रिवारं प्रसूते तस्मात्प्रजापतेर्वर्णत्वम् । तदुक्तं श्रुत्या 'सा यत्त्रि' संवत्सरस्य जायते तेन प्रजापतेर्वर्णः' ( ३ । ३ । ३ । ९) इति । एवमजां स्तुत्वा सोममाह । परमेणोत्कृष्टेन पशुनाजया त्वं क्रीयसे ततोऽहं सहस्रपोषं सहस्रं प्राणिनां पुष्णातीति सहस्रपोषं धनं पुषेयं पुष्णीयाम् । वर्धयेयमित्यर्थः । पुष्णातेर्व्यत्ययेन शेप्रत्यये लिङि पुषेयमिति रूपम् ॥ २६ ॥
 
सप्तविंशी।
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪदक्षि॑णमु॒शन्नु॒शन्त॑ᳪं᳭ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ।। २७ ।।
उ० सोममादत्ते । मित्रो न एहि । हे सोम, मित्रस्त्वं सन्नोऽस्मानप्येहि । मित्रशब्देनेहादित्यो गृह्यते पुंलिङ्गार्थात् । सुमित्रधः शोभनानि मित्राणि दधाति पुष्णातीति सुमित्रधः । यस्त्वं सुमित्रधः । यजमानस्य दक्षिण ऊरौ निदधाति इन्द्रस्योरुम् । स इन्द्रस्य यजमानस्य ऊरुं दक्षिणं आविश उपविश । 'एष वा अत्रेन्द्रो भवति यद्यजमानः' इति श्रुतिः । उशन्नुशन्तम् । 'वश कान्तौ' । कामयमानस्त्वं कामयमानमेव यजमानस्योरुमाविश इत्यनुवर्तते । स्योनः स्योनम् । स्योनमिति सुखनाम । सुखरूपस्तं सुखरूपम् । यजमानस्योरुमाविश इत्यनुवर्तते । एवं परस्परप्रीत्या अवियुक्तौ भवेतामित्यभिप्रायः । सोमक्रयणाननुदिशति । स्वान भ्राज । सप्तदशानां मध्यात्सप्त तावत्सोमक्रयणाननुदिशति । हे स्वान, भ्राज अङ्घारे बम्भारे हस्त सुहस्त कृशानो । एवं सप्तधिष्णान् संबोध्य अथेतरानाह । एते वः सोमक्रयणाः । एते वः युष्माकं मध्ये तावत् सोमक्रयणाः तान्रक्षध्वम् गोपायत । धिष्ण्यान् मा वो दभन् एते होतृका अपि स्वानभ्राजादयः युष्मान् मा दभन् । दभ्नोतिर्हिंसाकर्मा । मा युष्मान्दभ्नुयुः ॥ २७ ॥
म० 'सव्येनाजां प्रयच्छन्मित्रो न इति दक्षिणेन सोममादायेति' ( का० ७ । ८ । २१)। सौम्यम् । हे सोम, त्वं नोऽस्मान् प्रत्येहि आगच्छ । किंभूतस्त्वम् । मित्रः सखा, प्रीतियुतः । यद्वा मित्रः रविरूपः । तथा सुमित्रधः शोभनानि मित्राणि दधाति पुष्यतीति सुमित्रधः । क्रीत्वा वाससा बद्धस्य सोमस्य वरुणदेवताकत्वेन क्रूरत्वात्तच्छान्त्यर्थो मित्रत्वेन प्रार्थ्यते । तदाह तित्तिरिः 'वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रध इत्याह शान्त्यै' इति । 'दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्रस्योरुमितीति' (का० ७। ८ । २३ ) । वासः प्रत्युह्य वस्त्रमुपरिस्थाप्य सोमं निदध्यादित्यर्थः । यजमानरूपेण परमैश्वर्येणोपेतत्वादत्रेन्द्रशब्देन यजमानः । तथा च श्रुतिः ‘एष वा अत्रेन्द्रो भवति यद्यजमानः' (३।३।३।१०) इति । हे सोम, त्वमिन्द्रस्य यजमानस्य दक्षिणमूरुमाविश । दक्षिणे ऊरावुपविशेत्यर्थः । किंभूतस्त्वम् । उशन् ‘वश कान्तौ' वष्टि उशन् शतृप्रत्ययः । ऊरुं कामयमानः । तथा स्योनः सुखभूतः । किंभूतमूरुम् । उशन्तं सोमं कामयमानं स्योनमुपवेशे सुखकरम् । पुरा देवाः सोमं क्रीतमिन्द्रस्योरावुपवेशयन् तस्मादत्रेन्द्रशब्देन यजमानः । तदाह तित्तिरिः 'देवा वै सोममक्रीणंस्तमिन्द्रस्योरौ दक्षिण आसादयन् स खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह' इति । 'स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः' (का० ७।८।२४) इति । स्वनतीति स्वानः । भ्राजते शोभतेऽसौ भ्राजः । अङ्घस्य पापस्यारिरङ्घारिः । बिभर्ति पुष्णाति विश्वमिति बम्भारिः । हसति हस्तः सर्वदा हृष्टरूपः । शोभनौ हस्तौ यस्य सुहस्तः । कृशं दुर्बलमनिति जीवयतीति कृशानुः । स्वानादयः सप्त सोमरक्षका देवविशेषाः । हे स्वानादयः सप्त देवाः, वो युष्माकमेते सोमक्रयणाः सोमः क्रीयते यैस्ते सोमं क्रेतुमानीता हिरण्यादिपदार्थाः पुरतः स्थापिताः । तान्पदार्थान् यूयं रक्षध्वमवत । वो युष्मान्मा दभन् वैरिणो मा हिंसिषत । स्वानादयो धिष्ण्याधिष्ठातारः सोमरक्षकाः । तदाह तित्तिरिः 'स्वान भ्राजेत्याह ते चामुष्मिँल्लोके सोममरक्षन्' इति ॥ २७ ॥
पङ्क्तिः ३७०:
एकत्रिंशी।
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ।। ३१ ।।
उ० वनेषु वि । वीत्ययमुपसर्गस्ततानेत्यनेन संबध्यते । यो वरुणः वनेषु वृक्षाग्रेषु वि ततान वितनोत्यन्तरिक्षमाकाशम् । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादुपलभ्यत एव । वाजमर्वत्सु । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तःपुमाᳪं᳭सोऽर्वन्तः' इति श्रुतिः। वाजं वीर्यम् । अर्वत्सु पुरुषेषु । ततानेत्यनुवर्तते । पय उस्रियासु । उस्रियासु गोषु पयो विततान । हृत्सु क्रतुम् । क्रतुः संकल्पः । हृदयेषु संकल्पं विततान । विक्ष्वग्निम् प्रजास्वग्निं विततान । दिवि द्युलोके सूर्यमदधात् स्थापितवान् । सोममद्रौ । अद्रिषु सोमं स्थापितवान् । य एवं परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥३१॥
म० 'वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्येति' (का० ७ । ९ । ९) । बन्धनहेतुना वस्त्रेण परितो वेष्टयित्वेत्यर्थः । वि उपसर्गस्ततानेत्यनेन संबध्यते । वरुणो वनेषु वनगतवृक्षाग्रेषु अन्तरिक्षमाकाशं विततान । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादत्यन्तं विस्तारितवान् । तथा अर्वत्सु अश्वेषु वाजं बलं विततानेत्यनुवर्तते । यद्वा अर्वत्सु पुरुषेषु वाजं वीर्यं विततान । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तःपुमाᳪं᳭सोऽर्वन्तः' (३।३।४।७) इति श्रुतेः । तथा उस्रियासु पयः क्षीरं विततान । उस्रियाशब्दो गोनाममु पठितः । हृत्सु हृदयेषु क्रतुं संकल्पं तच्छक्तियुतं मनो विततान । विक्षु प्रजासु अग्नि जठराग्निम् । दिवि द्युलोके सूर्यं विततान । अद्रौ पर्वते सोमं वल्लीरूपमदधात्स्थापितवान् । पर्वतपाषाणसंधिषु सोमवल्ल्या उत्पद्यमानत्वादद्रौ सोमस्थापनमुक्तम् । तदाह तित्तिरिः । 'सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं निदधाति' इति । य एव मन्त्रद्वयोक्तद्युलोकस्तम्भनादिसामर्थ्यवान्परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥ ३१ ॥
 
द्वात्रिंशी।
पङ्क्तिः ३८४:
 
चतुस्त्रिंशी।
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सᳪस्कृ॒तम्सᳪं᳭स्कृ॒तम् ।। ३४ ।।
उ० वाचयति । भद्रो मेऽसि । 'भदि कल्याणे सुखे च' । सोम उच्यते । भन्दनीयः स्तुत्यः यतस्त्वं मे मम भवसि अतो ब्रवीमि । प्रच्यवस्व । 'च्युङ् छुङ् जिङ् किङ् प्रुङ् कुच् सैङ् गाङ् गतौ' । गच्छ । भुवस्पते भूतजातस्य पते । विश्वान्यभिधामानि सर्वाणि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि । किंच त्वां प्रच्यवमानं माविदन् मा जानन्तु । परिपरिणः परिणेतारो दुर्जनाः । मा च त्वां परिपन्थिनः सर्वतः पन्थानं ये तिष्ठन्ति ते विदन् । मा च त्वां वृका अघायवो विदन् । वृका विकर्तनशीलाः । अघायवः अघं पापं ये परस्य कर्तुमिच्छन्ति ते अघायवः ।। एते च त्वां गच्छन्तं मा जानन्तु । किंच त्वमपि श्येनो भूत्वा परापत श्येनरूपमवस्थायोत्पत । ततो यजमानस्य गृहान् गच्छ । तत् नौ आवयोः तव च मम च संस्कृतं सर्वोपकरणयुक्तं स्थानं विद्यते ॥ ३४ ॥
म० 'भद्रो म इति वाचयतीति' ( का० ७ । ९ । १९)। सौम्यं यजुः । हे सोम, मे मह्यं यजमानाय मदुपकारार्थं त्वं भद्रोऽसि कल्याणरूपोऽसि । 'भदि कल्याणे' । हे भुवः पते, भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युच्यन्ते । तेषां भूतानां पालकत्वात्पतिः सोमः । तदाह तित्तिरिः 'प्रच्यवस्व भुवस्पत इत्याह भूतानाᳪभूतानाᳪं᳭ ह्येष पतिः' इति । तथाविध हे सोम, विश्वानि सर्वाणि धामान्यभि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि अभिलक्ष्य प्रच्यवस्व प्रकर्षेण गच्छ । 'च्युङ् गतौ' । प्रच्यवमानं त्वा त्वां परिपरिणो मा विदन् मा जानन्तु । सर्वतः संचरन्तस्तस्करविशेषाः परिपरिण उच्यन्ते । तथा परिपन्थिनो यागस्य प्रतिषेधकाः शत्रवस्त्वां मा विदन् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा० ५।२। ८९) इति निपातावेतौ । तथा वृका विकर्तनशीला आरण्यश्वानो दुर्जना वा त्वां मा विदन् । किंभूता वृकाः । अघायवः परस्याघं कर्तुमिच्छन्ति ते अघायवः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यचि 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः । 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । किंच श्येनो भूत्वा श्येनरूपमास्थाय श्येनाख्यपक्षिवच्छीघ्रगामी वा भूत्वा परापत उत्पत । यजमानस्य गृहान् गच्छ । तत्तत्र यजमानगृहेषु नौ आवयोः तव मम च संस्कृतं सर्वोपकरणसंयुक्तं स्थानमस्तीति शेषः ॥ ३४ ॥
 
पञ्चत्रिंशी।
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳪतदृ॒तᳪं᳭ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳪसतशᳪं᳭सत ।। ३५ ।।
उ०. वाचयति । नमो मित्रस्य । सौरी जगती । ऋषिर्दृष्टार्थः । परब्रह्मरूपेणादित्यमवगम्य स्वं नमस्कारं कृत्वान्येषां कथयति । नमः सूर्याय । कथंभूताय । मित्रस्य वरुणस्य चक्षसे । मित्र आदित्यो वरुणश्च । उपलक्षणार्थं चैतत् । सर्वद्यावापृथिवीनिवासिलोकग्रहणार्थं वा तथैव श्रुतिः 'अयं वै लोको मित्रोऽसौ वरुणः' इति । चक्षसे द्रष्ट्रे ईश्वररूपेणाध्यक्षाय । महो देवाय तदृतᳪतदृतᳪं᳭ सपर्यत । महते देवाय तत्सत्यं पूजयत हे ब्राह्मणाः । सपर्यतीत्यर्चाकर्मसु पठितम् । किंच दूरदृशे दूरेस्थितो दृश्यत इति दूरेदृक् । यद्वा अतीतानागतवर्तमानकालसंबन्धान् प्राणिनो दूरेऽवस्थितान्पश्यतीति दूरेदृक् । देवजाताय देवानुग्रहार्थं जातो देवजातः । यद्वा जाता देवा अस्मादिति देवजातः । निष्ठा 'वाहिताग्न्यादिषु' इति बहुव्रीहौ परनिपातः । केतवे ।। केतुरिति प्रज्ञानामसु पठितम् । प्रज्ञानत्वाय । विज्ञानघनानन्दस्वभावायेत्यर्थः । दिवस्पुत्राय द्युलोकाद्धि सूर्यो विजायते द्युलोकं वा बहुधा त्रायत इति दिवस्पुत्रः सूर्यः । सूर्याय शᳪसतशᳪं᳭सत । 'शंसु स्तुतौ' । इत्थंस्वरूपाय सूर्याय ! स्तुतीरुच्चारयत । किमन्यैर्देवताविशेषैः ॥ ३५॥
म०. 'शालां पूर्वेण प्रतिप्रस्थाताग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गं नमो मित्रस्येत्येनमालभ्य वाचयति' (का० ७ । ९ । २१-२२) इति । सौरी जगती सूर्यदृष्टा । द्वादशाक्षरचतुःपादा जगती । अत्र मन्त्रे सूर्यरूपेण सोमः स्तूयते । एवंविधाय सूर्याय नमः । किंभूताय मित्रस्य वरुणस्य । चतुर्थ्यर्थे षष्ठ्यौ । मित्राय वरुणाय मित्रवरुणदेवतारूपेण वर्तमानाय । जगतां हितकारिणे । वृणोतीति वरुणः स्वरश्मिभिर्जगदावृण्वते । चक्षसे चष्टे इति चक्षास्तस्मै । चक्षुष्मते द्रष्ट्रे इत्यर्थः । यद्वायमर्थः मित्रस्य वरुणस्य चक्षसे सर्वजगतो द्रष्ट्रे । मित्रावरुणशब्देन सर्वं जगल्लक्ष्यते । तथा महो महसे तेजोरूपाय 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तिलोपः । देवाय द्योतमानाय । तथा दूरदृशे दूरे वर्तमानैः प्राणिभिर्दृश्यत इति दूरेदृक् तस्मै । यद्वा दूरे पश्यतीति दूरेदृक् । देवजाताय देवाद् द्योतमानात्परमात्मनो जायतेऽसौ । देवानुग्रहाय जातो देवजात इति वा । जाता देवा यस्मात्स देवजात इति वा । 'वाहिताग्न्यादिषु' (पा. २ । २ । ३७) इति जातशब्दस्य परनिपातः । केतवे प्रज्ञारूपाय विज्ञानघनाय । केतुरिति प्रज्ञानाम । दिवस्पुत्राय द्युलोकस्य पुत्रवत्प्रियाय । द्युलोकाद्धि सूर्यो जायते । दिवः पुरु त्रायते इति दिवस्पुत्रः। दिवः पालकायेति वा । एवंविधाय सूर्याय तदृतं सत्यमवश्यफलप्रदज्योतिष्टोमरूपं कर्म हे ऋत्विजः, यूयं सपर्यतानुष्ठानेन सपर्यां कुरुत । सपर्यतिः परिचरणकर्मा (निघ० ३ । ५ । ३) सूर्यार्थं यज्ञं कुरुतेत्यर्थः । यद्वा तदृतं सूर्यरूपं सत्यं ब्रह्म सपर्यत परिचरत । किंच शंसत । 'शंसु स्तुतौ' सूर्यप्रीत्यर्थं स्तुतिं कुरुत । शस्त्राणि पठतेत्यर्थः । यागानुष्ठाने तस्यावश्यकत्वादित्यर्थः ॥ ३५ ॥
 
"https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्