"ऋग्वेदः सूक्तं १.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १४६:
धृतऽव्रताय । दाशुषे ॥६॥
 
“धृतव्रताय अनुष्ठितकर्मणे “दाशुषे हविर्दत्तवते यजमानाय वेनन्तौ कामयमानौ मित्रावरुणाविति शेषः । तावुभौ "समानं साधारणं “तदित् अस्माभिर्दत्तं तदेव हविः "आशाते अश्नुवाते। “न “प्र "युच्छतः कदाचिदपि प्रमादं न कुरुतः ॥ आशाते । अश्नोतेर्लिटि द्विर्भावहलादिशेषौ । ‘अत आदेः ' (पा. सू. ७. ४. ७० ) इति आत्वम् । ‘अनित्यमागमशासनम्' इति वचनात् “ अश्नोतेश्च ' ( पा. सू. ७. ४. ७२ ) इति नुडभावः । वेनन्ता। [http://puranastudy.byethost14.com/pur_index27/vena1.htm वेनतिः] कान्तिकर्मा ।' सुपां सुलुक् ' इति आकारः। प्र युच्छतः । 'युच्छ प्रमादे'। दाशुषे ।' दाशृ दाने' इत्यस्मात् दाश्वान् साह्वान्' इति क्वसुप्रत्ययो निपातितः । वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२५" इत्यस्माद् प्रतिप्राप्तम्