"ऋग्वेदः सूक्तं १०.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७७:
 
 
हृत्सु हृदयेषु धीतयः निधातव्या निहिताः क्रतवः प्रज्ञाः क्रतूयन्ति अग्निहोत्रादिकर्म कर्तुमिच्छन्ति । तदेवाह । [http://puranastudy.byethost14.com/pur_index27/vena1.htm वेनाः] कान्ताः प्रज्ञाः वेनन्ति देवान् कामयन्ते । ' वेनो वेनतेः कान्तिकर्मणः ' ( निरु. १०. ३८) इति यास्कः । तथा दिशः अस्माभिर्निर्दिश्यमानाः प्रेर्यमाणाः कामाः आ पतयन्ति देवान् फलावाप्तय आगच्छन्ति । यतः एभ्यः देवेभ्यः अन्यः देवः एषां कामानां मर्डिता सुखयिता न विद्यते । किं बहुना । देवेषु अधि । अधिशब्दः सप्तम्यर्थद्योतकः । इन्द्रादिषु देवेषु मे मदीयाः कामाः अयंसत नियम्यन्ते । यच्छतेः कर्मणि लुङि रूपम् ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६४" इत्यस्माद् प्रतिप्राप्तम्