"ऋग्वेदः सूक्तं १०.१५९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
उदसौ सूर्यो अगादुदयं मामको भगः |
अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥
अहं केतुरहं मूर्धाहमुग्रा विवाचनी |
ममेदनुक्रतुं पतिः सेहानाया उपाचरेत ॥
मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट |
उताहमस्मि संजया पत्यौ मे शलोक उत्तमः ॥
 
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः |
इदं तदक्रि देवा असपत्ना किलाभुवम ॥
असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी |
आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव ॥
समजैषमिमा अहं सपत्नीरभिभूवरी |
यथाहमस्य वीरस्य विराजानि जनस्य च ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५९" इत्यस्माद् प्रतिप्राप्तम्