"श्रीसूर्याष्टकम्" इत्यस्य संस्करणे भेदः

<poem> आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:१३, २५ फेब्रवरी २०१२ इत्यस्य संस्करणं


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपमात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्य प्रणमाम्यहम ॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्य प्रणमाम्यहम ॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम ।
महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥

बश्हितं तेजर्पुद्बजं च वायुमाकाशमेव च ।
प्रभुं च सर्व लोकानां तं सूर्य प्रणमाम्यहम् ॥

बंधुक पुष्पसंकाशं हारकुण्डलभूषितम् ।
एकचधरं देवं तं सूर्य प्रणमाम्यहम् ॥

तं सूर्य जगत्कर्तारं महातेज: प्रदीपनम् ।
महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥

तं सूर्य जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥

॥इति श्री शिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्॥

"https://sa.wikisource.org/w/index.php?title=श्रीसूर्याष्टकम्&oldid=28613" इत्यस्माद् प्रतिप्राप्तम्