"ऋग्वेदः सूक्तं १०.११२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८५:
हे “मघवन् धनवन्निन्द्र “नाधमानान् ॥ ‘ नाधृ नाथृ याञ्चोपतापैश्वर्याशीःषु । भौवादिकः । अनुदात्तेत् ॥ याचमानान् “नः अस्मान् “अभिख्या अभिख्यापनेन तेजसा युक्तान कुरु। प्रसिद्धान् वा कुरु। । हे “सखे धनदानेन हे “वसुपते वसूनां स्वामिन् त्वं “सखीनां स्तोतृत्वेन सखिभूतानामस्माकं स्वभूतानि स्तोत्राणि “बोधि बुध्यस्व ॥ ‘ बुध अवगमने'। भौवादिकः । लोटि छान्दसः शपो लुक्। छन्दस्युभयथा इति हेरार्धधातुकरत्वेनाङित्त्वात् ' अङितिश्च ' इति हेर्धिभावः। अत एव गुणः। सार्वधातुकत्वेन ङित्त्वादन्तोदात्तत्वम् । वर्णलोपष्छान्दसः ॥ हे “रणकृत् शत्रुभिः सह युद्धकर्तः अत एव हे “सत्यशुष्म यथार्थबलोपेत त्वं “रणं “कृधि कुरु । शत्रून् जहि ॥ करोतेर्लोटि ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिः ।। किंच “अभक्ते “चित् असंभजनीये स्थानेऽपि “अस्मान् “राये धनाय “आ “भज भागिनः कुरु । ' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । ॥ १३॥ ॥९॥
}}
 
== ==
{{टिप्पणी|
 
}}
 
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११२" इत्यस्माद् प्रतिप्राप्तम्