"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८८:
 
हे “प्रजापते “त्वत् त्वत्तोऽन्यः कश्चित् “एतानि इदानीं वर्तमानानि “विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः ।। “जातानि प्रथमविकारभाञ्जि “ता तानि सर्वाणि भूतजातानि “न “परि “बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च “यत्कामाः यत्फलं कामयमानाः “ते तुभ्यं जुहुमः हवींषि प्रयच्छामः “तत् फलं “नः अस्माकम् “अस्तु भवतु । तथा “वयं च “रयीणां धनानां “पतयः ईश्वराः “स्याम भवेम ।। नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ॥ ॥ ४ ॥
 
}}
== ==
{{टिप्पणी|
१०.३४.२० प्रजापते न त्वद् एतान्य् अन्यो इति
प्रजापते न त्वदेतान्यन्य इति तस्यै गृहे जुहुयात् । यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति । राष्ट्रमेवास्यै प्रजा भवति । पर्णमयेनाध्वर्युरभिषिञ्चति । ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति । औदुम्बरेण राजन्यः । ऊर्जमेवास्मिन्नन्नाद्यं दधाति । आश्वत्थेन वैश्यः । विशमेवास्मिन्पुष्टिं दधाति । नैयग्रोधेन जन्यः । मित्राण्येवास्मै कल्पयति । - तै.ब्रा. [https://sa.wikisource.org/s/nkz १.७.८.७]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्