"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
{{सायणभाष्यम्|
‘ हिरण्यगर्भः' इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यस्यार्षं त्रैष्टुभम् । कशब्दाभिधेयः प्रजापतिर्देवता । तथा चानुक्रान्तं - हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायम् ' इति । गतः सूक्तविनियोगः । प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः । सूत्रितं च -- ‘ हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः (आश्व. श्रौ. ३. ८) इति । वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या। सूत्रितं च --- ‘ कथाकया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः ' (आश्व श्रौ. २. १७ ) इति ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्