"ऋग्वेदः सूक्तं १०.१२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥१
 
“हिरण्यगर्भः“[http://puraana.tripod.com/pur_index30/pva13.htm हिरण्यगर्भः] हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकं -- ‘ प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. [https://sa.wikisource.org/s/1e1s ५, ५. १. २]) इति । यद्वा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । “अग्रे प्रपञ्चोत्पत्तेः प्राक् “समवर्तत । मायाध्यक्षात सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च “जातः जातमात्र एव “एकः अद्वितीयः सन् "भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः “पतिः ईश्वरः आसीत् । न केवलं पतिरासीदेव अपि तर्हि “सः हिरण्यगर्भः “पृथिवीं विस्तीर्णां “द्यां दिवम् “उत अपि च “इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च “दाधार धारयति ॥ ‘ छन्दसि लुङ्लङ्लिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यासदीर्घः ॥ “कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । सृष्ट्यर्थं कामयत इति कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । ‘इन्द्रो वै वृत्रं हत्वा सर्वां विजितीर्विजित्याब्रवीत् ' ( ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्वनामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। 'सावेकाचः' इति प्राप्तस्य ‘ न गोश्वन्साववर्ण ' इति प्रतिषेधः । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं प्रजापतिं “देवाय देवं दानादिगुणयुक्तं “हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरोडाशेन वा “विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२१" इत्यस्माद् प्रतिप्राप्तम्