"पृष्ठम्:शिवगीता.djvu/23" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२०'''|center='''शिवगीता ।'''|right= '''[ अध्यायः २'''}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२०'''|center='''शिवगीता ।'''|right= '''[ अध्यायः २'''}}
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ११: पङ्क्तिः १०:
</poem>
</poem>
{{rule}}
{{rule}}
नन्वहंकारस्यादित्वात्तदवच्छिन्नो जीवोऽपि सादिः स्यादित्याशङ्क्याह-विस्फुलिङ्गा इति । यथा विस्फुलिङ्गाः प्राक् सूक्ष्मरूपेणावस्थिताः सन्त एव काष्ठयोगतो जायन्ते व्यक्ता भवन्ति, तद्वदनादिकर्मभिर्वासनाभिश्च संबद्धास्तादात्म्यमापन्ना महेशितुरंशा जीवा अइंकारयोगतः प्राक् स्थिताः सन्त एवाभिव्यज्यन्ते । तथाच सूत्रम् 'पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात्' इति अयमर्थः संपन्नः । सृष्टेः प्रागनादिकर्मसंस्कारयुक्ता जीवा मायायां लीनाः सन्तः सृष्टिकालेऽहंकारावच्छिन्नाः सन्त एवाभिव्यज्यन्ते तेषां जीवानां तत्तदहंकारावच्छेदेनैव सुखदु:खादिभोगो नान्यावच्छेदेन” इति। २८ ॥ हृदये प्राणिनां स्थित इत्युतं तदेव हृदयशब्दस्य विवरणमाह-मनो ब्रुद्धिरिति । मन इति बुद्धिरिति अहंकार इति चित्तमिति चतुष्टयमन्तःकरणस्यैव वृतिभेदा इत्याहुः । तत्रान्तःकरणे प्रतिबिम्बिता जीवा इत्युच्यन्ते । वृत्तिवृत्तिमतोरभेदविवक्षया मनोऽवच्छिन्ना बुद्ध्यवच्छिन्ना अहंकारावच्छिन्ना इति तत्रतत्रोच्यन्ते । अतो नानुपपत्तिः । अतएव "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” । "बुद्वेर्गुणेनात्मगुणेन चैवम्" इति, तथा “शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहंकारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः । सर्वश्चित्तविलासोऽयम्" इत्यादिवाक्यानामेकवाक्यत्वं द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणे प्रतिबिम्बिता जीवाः कर्मभोक्तारस्त एव वैषयिकं सुखं
नन्वहंकारस्यादित्वात्तदवच्छिन्नो जीवोऽपि सादिः स्यादित्याशङ्क्याह-विस्फुलिङ्गा इति । यथा विस्फुलिङ्गाः प्राक् सूक्ष्मरूपेणावस्थिताः सन्त एव काष्ठयोगतो जायन्ते व्यक्ता भवन्ति, तद्वदनादिकर्मभिर्वासनाभिश्च संबद्धास्तादात्म्यमापन्ना महेशितुरंशा जीवा अइंकारयोगतः प्राक् स्थिताः सन्त एवाभिव्यज्यन्ते । तथाच सूत्रम् "पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात्" इति अयमर्थः संपन्नः । सृष्टेः प्रागनादिकर्मसंस्कारयुक्ता जीवा मायायां लीनाः सन्तः सृष्टिकालेऽहंकारावच्छिन्नाः सन्त एवाभिव्यज्यन्ते तेषां जीवानां तत्तदहंकारावच्छेदेनैव सुखदु:खादिभोगो नान्यावच्छेदेन” इति। २८ ॥ हृदये प्राणिनां स्थित इत्युतं तदेव हृदयशब्दस्य विवरणमाह-मनो ब्रुद्धिरिति । मन इति बुद्धिरिति अहंकार इति चित्तमिति चतुष्टयमन्तःकरणस्यैव वृत्तिभेदा इत्याहुः । तत्रान्तःकरणे प्रतिबिम्बिता जीवा इत्युच्यन्ते । वृत्तिवृत्तिमतोरभेदविवक्षया मनोऽवच्छिन्ना बुद्ध्यवच्छिन्ना अहंकारावच्छिन्ना इति तत्रतत्रोच्यन्ते । अतो नानुपपत्तिः । अतएव "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” । "बुद्वेर्गुणेनात्मगुणेन चैवम्" इति, तथा “शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहंकारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः । सर्वश्चित्तविलासोऽयम्" इत्यादिवाक्यानामेकवाक्यत्वं द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणे प्रतिबिम्बिता जीवाः कर्मभोक्तारस्त एव वैषयिकं सुखं
"https://sa.wikisource.org/wiki/पृष्ठम्:शिवगीता.djvu/23" इत्यस्माद् प्रतिप्राप्तम्