"पृष्ठम्:शिवगीता.djvu/24" इत्यस्य संस्करणे भेदः
No edit summary |
|||
पुटाग्रः(अव्यचितम्) : | पुटाग्रः(अव्यचितम्) : | ||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२१'''}} |
|||
पुटाङ्गम् (उपयोगार्थम्) : | पुटाङ्गम् (उपयोगार्थम्) : | ||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{rh|center='''बालानन्दिनीव्याख्यासहिता ।'''|right= '''२१'''}} |
|||
<poem> |
<poem> |
||
{{bold| |
{{bold| |
||
पङ्क्तिः १२: | पङ्क्तिः ११: | ||
</poem> |
</poem> |
||
{{rule}} |
{{rule}} |
||
दुःखं वा तेषामेव ॥ ३० ॥। त एवेति । तेषां व्यापकत्वेऽपि अस्मिन्भोगायतने शरीर एवान्तःकरणावच्छेदेन त एव सुखदु:खादि |
दुःखं वा तेषामेव ॥ ३० ॥। त एवेति । तेषां व्यापकत्वेऽपि अस्मिन्भोगायतने शरीर एवान्तःकरणावच्छेदेन त एव सुखदु:खादि भुञ्जत इत्यर्थः ॥ ३१ । प्रसङ्गाद्भोगायतनभूतानां शरीराणामवान्तरविभागमाह-स्थावरं जंगमं चेति। स्थातुं शीलमस्य स्थावरम् । गमनहीनमित्यर्थः । जंगम्यत इति जंगमम् । इत्थं वपुः शरीरं द्विविधम्। तत्र तयोर्भेदयोर्मध्ये ये स्थावरा देहास्ते सूक्ष्मा अतिमन्दा इत्यर्थः । के ते । गुल्मलतादयः ॥३२॥ जंगमानाह--अण्डजा इति । अण्डेभ्यो जाता अण्डजाः पक्षिसर्पादयश्च । स्वेदजा मशकादयः । उद्भिदन्ति भूमिमित्युद्भिदः तादृशाः सन्तो ये जायन्ते त उद्भिज्जाः पिपीलिकादयः । यद्वा जरायुमुद्भिद्य जायन्त इत्युद्भिज्जाः जरायुजा इत्यर्थः । अयमेवार्थः साधुः । "उद्भिदा यजेत पशुकामः” इत्यत्र लक्षणादोषप्रसक्तौ उद्भिच्छब्दो यागनामधेयमित्युक्तम्, तद्वज्जरायुजनामघेयमिति ज्ञेयम् ॥ ३३ ॥ एवं नानाविधदेहप्राप्तौ नियामकमाह--योनिमिति । देहिनः केनचित्पुण्येन शरीरत्वाय शरीरसंबन्धार्थं योनिं स्त्रीगर्भं प्रपद्यन्ते । अन्ये तु पापविशेषेण स्थाणुं स्थाणुप्रभृतिदेहं प्रपद्यन्त इति । तत्र नियामकमाह । यथाकर्म पुण्यापुण्यरूपं तदनतिक्रम्य । यथाश्रुतं वेदुशास्त्राध्ययनसंस्कारमनतिक्रम्येत्यर्थः ॥ ३४ ॥ ननु शरीरत्वाविशेषबिम्बीभूतेश्वरस्यापि भोगः |