"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">एकोनविंशी।
<poem><span style="font-size: 14pt; line-height: 200%">एकोनविंशी।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य ।
अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।।१९ ।।
अ॒ग्निष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।।१९ ।।
उ० विश्वस्मै प्राणाय सर्वस्मै प्राणार्थं । अपानाय व्यानाय उदानाय प्रतिष्ठायै चरित्राय चरणाय त्वां सादयामीति शेषः । अग्निः त्वाम् अभिपातु पालयतु । मह्या महत्या स्वस्त्या अविनाशेन । छर्दिषा शन्तमेन । गृहेण सुखतमेन हेतुभूतेन सादयति । तया देवतया । व्याख्यातम् ॥ १९॥

म० यजुः एकाधिकार्ष्यनुष्टुप् । हे स्वयमातृण्णे, विश्वस्मै सर्वस्मै प्राणायापानाय व्यानायोदानाय प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठायै कीर्त्यै चरित्राय शास्त्रीयाचरणाय च । प्राणिनामेतत्सर्वसिद्ध्यर्थं त्वां सादयामीति शेषः । किंच मह्या महत्या स्वस्त्या योगक्षेमसंपत्त्या शन्तमेनात्यन्तं सुखकारिणा छर्दिषा गृहेण चाग्निस्त्वा त्वामभिपातु सर्वतो रक्षतु । तया देवतयानुगृहीता त्वं ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरस्वदङ्गिरसां चयनानुष्ठाने यथा त्वं स्थिरस्थिता तद्वदिहोपविश ॥ १९॥
उ० विश्वस्मै प्राणाय सर्वस्मै प्राणार्थ । अपानाय व्यानाय उदानाय प्रतिष्ठायै चरित्राय चरणाय त्वां सादयामीति शेषः । अग्निः त्वाम् अभिपातु पालयतु । मह्या महत्या स्वस्त्या अविनाशेन । छर्दिपा शन्तमेन । गृहेण सुखतमेन हेतुभूतेन सादयति । तया देवतया । व्याख्यातम् ॥ १९॥

म० यजुः एकाधिकाऱ्यानुष्ट । हे खयमातृण्णे, विश्वस्मै सर्वस्मै प्राणायापानाय व्यानायोदानाय प्राणापानव्यानोदानाख्यवायुवृत्तिलाभाय प्रतिष्ठाये कीत्यै चरित्राय शास्त्रीयाचरणाय च । प्राणिनामेतत्सर्वसिद्ध्यर्थं त्वां सादयामीति शेषः । किंच मद्या महत्या वस्त्या योगक्षेमसंपत्त्या शन्तमेनात्यन्तं सुखकारिणा छर्दिषा गृहेण चाग्निस्त्वा खामभिपातु सर्वतो रक्षतु । तया देवतयानुगृहीता वं ध्रुवा स्थिरा सती सीदोपविश । अङ्गिरवदङ्गिरसां चयनानुष्टाने यथा वं स्थिरस्थिता तद्वदिहोपविश ॥ १९॥


विंशी।
विंशी।
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।। २० ।।
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।। २० ।।
उ० अग्निना दृष्टां दूर्वेष्टकामुपदधाति द्वाभ्यामनुष्टुब्भ्याम् । काण्डात्काण्डात् । भूमौ संबद्धं जटाभिः पर्व काण्डमित्युच्यते । असंबद्धं परुः। काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । पर्वणः पर्वणश्च परि प्ररोहन्ती यथा शताङ्कुरांल्लभसि एवं नः अस्मान् हे दूर्वे, प्रतनु विस्तारय । पुत्रपौत्रनप्तृभिः शतसहस्रसंख्यैः ॥ २० ॥
म० 'मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद्भूमिप्राप्तां काण्डात्काण्डादिति'(का. १७। ४ । १८) तस्यां स्वयमातृण्णायां काण्डादिति ऋग्द्वयेन पुरस्ताद्भूमिगताग्रं मूलाग्रयुतां दूर्वामुपदधाति । अग्निदृष्टे दूर्वष्टकादेवत्ये द्वे अनुष्टुभौ । मूलैर्भूसंबद्धं पर्व काण्डं भूम्यसंबद्धं परुः । हे दूर्व दूर्वेष्टके, काण्डात्काण्डात्प्रतिकाण्डं परुषः परुषः प्रतिपरुः भूमिसंबद्धासंबद्धेभ्यः सर्वपर्वभ्यः सकाशाद्यथा त्वं परि समन्तात्प्ररोहन्ती अङ्कुरवती वर्तसे । 'नित्यवीप्सयोः' (पा० ८ । १ । ४) इति वीप्सार्थे काण्डपरुषोर्द्वित्वम् । एवेत्यव्ययमेवमित्यर्थे 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । हे दूर्वे, एवं स्वाङ्कुरविस्तारवत्सहस्रेण शतेन च । सहस्रशतशब्दावसंख्यार्थौ । असंख्यैः पुत्रपौत्रनप्त्रादिभिर्नोऽस्मान् प्रतनु विस्तारय ॥ २० ॥


एकविंशी।
उ० अग्निना दृष्टां दूर्वेष्टकामुपदधाति द्वाभ्यामनुष्टुब्भ्याम् । काण्डात्काण्डात् । भूमौ संबद्धं जटाभिः पर्व काण्डमित्युच्यते । असंबद्धं परुः। काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । पर्वणः पर्वणश्च परि प्ररोहन्ती यथा शताङ्करांल्लभसि एवं नः अस्मान् हे दुर्वे, प्रतनु विस्तारय । पुत्रपौत्रनप्नृभिः शतसहस्रसंख्यैः ॥ २० ॥

म० 'मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद्भुमिप्राप्तां काण्डात्काण्डादिति'(का. १७। ४ । १८) तम्यां स्वयमातृण्णायां काण्डादिति ऋग्द्वयेन पुरस्ताद्भुमिगताग्रं मूलाग्रयुतां दूर्वामुपदधाति । अग्निदृष्टे दूर्वप्टकादेवत्ये द्वे अनुष्टुभौ । मूलभूसंबद्धं पर्व काण्डं भूम्यसंवद्धं परुः । हे पूर्व दूर्वष्टके, काण्डात्काण्डात्प्रतिकाण्ड परुषः परुषः प्रतिपरुः भूमिसंवद्धासंबद्धेभ्यः सर्वपर्वभ्यः सकाशाद्यथा वं परि समन्तात्प्ररोहन्ती अङ्करवती वर्तसे । 'नित्यवीप्सयोः' (पा० ८ । १ । ४) इति वीप्साथै काण्डपरुषोखिम् । एवेत्यव्ययमेवमित्यर्थे 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । हे दूर्व, एवं स्वाङ्कुरविस्तारवत्सहस्रेण शतेन च । सहस्रशतशब्दावसंख्यार्थो । असंख्यैः पुत्रपौत्रनप्लादिभिर्नोऽस्मान् प्रतनु विस्तारय ॥ २० ॥

एकविंशी। |
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।। २१।।
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।। २१।।
उ० या शतेन या त्वं शतेन काण्डानां प्रतनोषि पृथिवीं सहस्रेण चाङ्कुराणां विरोहसि तस्यास्तव हे इष्टके, विधेम स्थानं हविषा सह वयम् ॥ २१॥


उ० या शतेन या त्वं शतेन काण्डानां प्रतनोषि पृथिवीं सहस्रेण चाकुराणां विरोहसि तस्यास्तव हे इष्टके, विधेम स्थानं हविषा सह वयम् ॥ २१॥
म० हे देवि दीप्यमाने हे इष्टके, या त्वं शतेन काण्डानां प्रतनोषि विस्तारयसि, सहस्रेण चाङ्कुराणां विरोहसि विविधं प्ररूढा भवसि वयं हविषा सह ते स्थानं विधेम परिचरेम ॥ २१॥

म० हे देवि दीप्यमाने हे इष्टके, या वं शतेन काण्डानां प्रतनोषि विस्तारयसि, सहस्रेण चाङ्कुराणां विरोहसि विविध प्ररूढा भवसि वयं हविषा सह ते स्थानं विधेम परिचरेम ॥ २१॥


द्वाविंशी।
द्वाविंशी।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। २२ ।।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। २२ ।।
उ० द्वियजुषमुपदधाति इन्द्राग्निभ्यां दृष्टाभ्यां द्वाभ्यामनुष्टुब्भ्यामग्निलिङ्गोक्तदेवताभ्याम् । यास्ते अग्ने । हे अग्ने, यास्ते तव सूर्येऽवस्थिता रुचो दीप्तयः दिवं द्युलोकम् | आतन्वन्ति प्रकाशयन्ति रश्मिभिः । ताभी रुग्भिः सर्वाभिः नोऽस्मान् अस्मिन्द्यवि रुचे रोचनाय कृधि कुरु । जनाय नस्कृधि । जनानां च भोक्तॄन् अस्मान् कृधि ॥ २२ ॥
म० ‘यास्त इति द्वियजुषं द्वितीये' (का० १७ । ४ । २०)। दूर्वष्टकापुरस्ताद्द्वितीये पद्यालोके यास्त इति ऋग्द्वयेन द्वियजुःसंज्ञां पद्येष्टकामुपदधाति इति सूत्रार्थः । इन्द्राग्निदृष्टे अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, याः ते तव रुचः दीप्तयः सूर्ये सूर्यमण्डले वर्तमानाः सत्यः दिवं द्युलोकमातन्वन्ति प्रकाशयन्ति रश्मिभिः सरूपभूतैः किरणैः ताभिः सर्वाभिः रुग्भिः नोऽस्मान रुचे रोचनाय शोभायै अद्यास्मिन्द्यवि कृधि कुरु । जनाय पुत्रपौत्रादिकाय च कुरु । द्युलोकप्रकाशिकाः सर्वाः कान्तीः पुत्रांश्चास्मभ्यं देहीत्यर्थः । यद्वा विभक्तिव्यत्ययः । नोऽस्माकं जनाय जनं पुत्रादिकं ताभिः रुग्भिः रुचे शोभायै कुरु । जगत्प्रसिद्धं पुत्रादिकं देहीत्यर्थः ॥ २२ ॥


त्रयोविंशी।
उ० द्वियजुषमुपदधाति इन्द्राग्निभ्यां दृष्टाभ्यां द्वाभ्यामनुष्टुब्भ्यामग्निलिङ्गोक्तदेवताभ्याम् । यास्ते अग्ने । हे अग्ने, याम्ते तव सूर्येऽवस्थिता रुचो दीप्तयः दिवं धुलोकम् | आतन्वन्ति प्रकाशयन्ति रश्मिभिः । ताभी रुग्भिः सर्वाभिः नोऽस्मान् अस्मिन्धवि रुचे रोचनाय कृधि कुरु । जनाय नस्कृधि । जनानां च भोक्तन् अस्मान् कृधि ॥ २२ ॥

म० ‘यास्त इति द्वियजुषं द्वितीये' (का० १७ । ४ । २०)। दूर्वष्टकापुरस्ताद्वितीये पद्यालोके यास्त इति ऋग्द्वयेन द्वियजुःसंज्ञां पद्येष्टकामुपदधाति इति सूत्रार्थः । इन्द्राग्निदृष्टे अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, याः ते तव रुचः दीप्तयः सूर्य सूर्यमण्डले वर्तमानाः सत्यः दिवं धुलोकमातन्वन्ति प्रकाशयन्ति रश्मिभिः सरूपभूतैः किरणेः ताभिः सर्वाभिः रुग्भिः नोऽम्मान रुचे रोचनाय शोभायै अद्यास्मिन्द्यवि कृधि कुरु । | जनाय पुत्रपौत्रादिकाय च कुरु । धुलोकप्रकाशिकाः सर्वाः कान्तीः पुत्रांश्चास्मभ्यं देहीत्यर्थः । यद्वा विभक्तिव्यत्ययः । | नोऽस्माकं जनाय जनं पुत्रादिकं ताभिः रुग्भिः रुचे शोभायै कुरु । जगत्प्रसिद्धं पुत्रादिकं देहीत्यर्थः ॥ २२ ॥

त्रयोविंशी।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। २३ ।।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। २३ ।।
उ० या वो देवाः या वः युष्माकं हे देवाः, सूर्ये रुचः दीप्तयः गोषु अश्वेषु या रुचः । हे इन्द्राग्नी, हे बृहस्पते, ताभिः सर्वाभिः रुग्भिः रुचम् नः अस्मभ्यं धत्त ॥ २३ ॥

उ० या वो देवाः या वः युष्माकं हे देवाः, सूर्ये | रुचः दीप्तयः गोषु अश्वेषु या रुचः । हे इन्द्राग्नी, हे बृहस्पते, ताभिः सर्वाभिः रुग्भिः रुचम् नः अस्मभ्यं | धत्त ॥ २३ ॥