"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ऽस्तु । गावः यज्ञसाधनभूता रश्मयः नोऽस्माकं माध्वीः मधुमत्यो रसवत्यो भवन्तु । 'रसो वै मधु' (७ । ५। १ । ४) इति श्रुतेः । वातादीनि रसवन्त्यस्माकं भोग्यानि भवन्तीति सर्वोऽर्थः ॥ २९॥
<poem><span style="font-size: 14pt; line-height: 200%">ऽस्तु । गावः यज्ञसाधनभूता रश्मयः नोऽस्माकं माध्वीः मधुमत्यो रसवत्यो भवन्तु । 'रसो वै मधु' (७ । ५। १ । ४) इति श्रुतेः । वातादीनि रसवन्त्यस्माकं भोग्यानि भवन्तीति सर्वोऽर्थः ॥ २९॥


त्रिंशी।
त्रिंशी।
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभि ता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः ।
अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभि ता॑प्सी॒न्माऽग्निर्वै॑श्वान॒रः ।
अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टि॑: सचताम् ।। ३० ।।
अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टि॑: सचताम् ।। ३० ।।
उ० उपदधाति । अपां गम्भन् । त्रिभिः पङ्क्तित्रिष्टुब्गायत्रीभिः । द्वे कूर्मदेवत्ये । कूर्मश्च प्रजापतिरादित्यो वा । उत्तरा द्यावापृथिवीया । अपां गम्भन् अपां गम्भीरे प्रदेश सीद उपविश । 'एष वा अपांगम्भन यत्रैष एतत्तपति' इति श्रुतिः । तत्र चोपतिष्ठन्तं सन्तं मा त्वां सूर्यः अभिताप्सीत् अभितापयेत् । मा च अग्निर्वैश्वानरः । त्वं च अच्छिन्नपत्राः प्रजाः अनुवीक्षस्व । प्रजा इष्टका उच्यन्ते । अच्छिन्नपत्रा इति व्याख्यातं श्रुत्या । अरिष्टा अनार्ता अस्माकमिति । अनवखण्डिता योगक्षेमा इष्टका दर्शनेन कुर्वित्यर्थः । अनु त्वा दिव्या वृष्टिः सचताम् । अनुसेवतां त्वां दिव्या दिविभवा वृष्टिः । दिव्या वृष्टिरिति प्रियवचनम् ॥३०॥

म० 'अरत्निमात्रेऽषाढां दक्षिणेगायकासूपरिष्टाच्च पुरुषमभिमुखमपां गम्भन्निति तिसृभिः' । (का० १७ । ४ । २८ । ५) अषाढादक्षिणदेशे हस्तमात्रे पद्यालोकद्वयमन्तराले मुक्त्वा तृतीये पद्यालोके पूर्वमेव स्थापितास्ववकासु शेवालेषु पुरुषसंमुखऋक्त्रयेण कूर्ममुपदधातीति सूत्रार्थः । स्वराट्पङ्क्तिः दशाक्षरचतुष्पादा कूर्मदेवत्या तृतीयो द्वादशाक्षरः । कूर्मः प्रजापतिरादित्यो वा । तृतीया द्यावापृथ्वीया । हे कूर्म, अपां जलानां गम्भन् गम्भनि गम्भीरे स्थाने रविमण्डले त्वं सीद उपविश । 'एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति' (७ । ५। १।८) इति श्रुतेः । तत्रोपविष्टं त्वा त्वां सूर्यो माभिताप्सीत् अभितो मा संतापयतु । वैश्वानरः सर्वत्रहितोऽग्निश्च मा संतापयतु । त्वं चात्र स्थितः सन् प्रजा इष्टकारूपा अनुवीक्षस्व निरन्तरं पश्य । कीदृशीः प्रजाः । अच्छिन्नपत्राः अच्छिन्नान्यनवखण्डितानि पत्राणि अवयवा यासां ताः । अखण्डिता इष्टकाः कुर्वित्यर्थः । 'इमा वै सर्वाः प्रजा या इमा इष्टकास्था अरिष्टा अनार्ता अनुवीक्षस्व' (७।५। ८) इति श्रुतेः । किंच दिव्या दिवि भवा वृष्टिः त्वा त्वामनु सचतां सेवतामुदकेन नित्यं सिक्तो भवेत्यर्थः ॥ ३० ॥
उ० उपदधाति । अपां गम्भन् । त्रिभिः पतित्रिष्टुब्गायत्रीभिः । द्वे कूर्मदेवत्ये । कूर्मश्च प्रजापतिरादित्यो वा । उत्तरा द्यावापृथिवीया । अपां गम्भन अपां गम्भीरे प्रदेश सीद उपविश । 'एष वा अपांगम्भन यत्रैष एतत्तपति' इति श्रुतिः । तत्र चोपतिष्ठन्तं सन्तं मा त्वां सूर्यः अभिताप्सीत् अभितापयेत् । मा च अग्निर्वैश्वानरः । त्वं च अच्छिन्नपत्राः प्रजाः अनुवीक्षस्व । प्रजा इष्टका उच्यन्ते । अच्छिअपना इति व्याख्यातं श्रुत्या । अरिष्टा अनार्ता अस्माकमिति । अनवखण्डिता योगक्षेमा इष्टका दर्शनेन कुर्वित्यर्थः । अनु त्वा दिव्या वृष्टिः सचताम् । अनुसेवतां त्वां दिव्या दिविभवा वृष्टिः । दिव्या दृष्टिरिति प्रियवचनम् ॥३०॥

म० 'अरनिमात्रेऽषाढां दक्षिणेगायकासूपरिष्टाच पुरुषमभिमुखमपां गम्भन्निति तिसृभिः' । (का० १७ । ४ । २८ । ५) अषाढादक्षिणदेशे हस्तमात्रे पद्यालोकद्वयमन्तराले मुक्खा तृतीये पद्यालोके पूर्वमेव स्थापिताखवकासु शेवालेषु पुरुषसंमुखऋक्त्रयेण कूर्ममुपदधातीति सूत्रार्थः । खराट्पतिः दशाक्षरचतुष्पादा कूर्मदेवत्या तृतीयो द्वादशाक्षरः । कूर्मः प्रजापतिरादित्यो वा । तृतीया द्यावापृथ्वीया । हे कूर्म, अपां जलानां गम्भन् गम्भनि गम्भीरे स्थाने रविमण्डले खं सीद उपविश । 'एतद्धापां गम्भिष्ठं यत्रैष एतत्तपति' (७ । ५। १।८) इति श्रुतेः । तत्रोपविष्टं ला खां सूर्यो माभिताप्सीत् अभितो मा संतापयतु । वैश्वानरः सर्वत्रहितोऽग्निश्च मा संतापयतु । वं चात्र स्थितः सन् प्रजा इष्टकारूपा अनुवीक्षख निरन्तरं पश्य । कीदृशीः प्रजाः । अच्छिन्नपत्राः अच्छिन्नान्यनवखण्डितानि पत्राणि अवयवा यासां ताः । अखण्डिता इष्टकाः कुर्वित्यर्थः । 'इमा वै सर्वाः प्रजा या इमा इष्टकास्था अरिष्टा अनातो अनुवीक्षख' (७।५। ८) इति श्रुतेः । किंच दिव्या दिवि भवा वृष्टिः वा वामनु सचतां सेवतामुदकेन नित्यं सिक्तो भवेत्यर्थः ॥ ३० ॥


एकत्रिंशी।
एकत्रिंशी।
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् ।
त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् ।
पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ।। ३१ ।।
पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ।। ३१ ।।
उ० एजयति । त्रीन्समुद्रान् । यस्त्रीन्समुद्रान् लोकान् समसृपत् । समसृप इति पुरुषव्यत्ययः । संसृप्तोसि । स्वर्गान् स्वर्गहेतून् । यश्च त्वम् अपांपतिः वृषभश्च वर्षिता भर्ता इष्टकानां तं त्वां ब्रवीमि । पुरीषं वसानः पशूनाच्छादयन् । सुकृतस्य शोभनकृतस्याग्नेर्लोके स्थाने स्थित्वा तत्र गच्छ यत्र पूर्वे कूर्मा अन्येष्वग्निषूपहिताः सन्तः परेताः परागताः ॥ ३१ ॥

म० 'घट्टयति मध्यमयेति' (का० १७ । ५। २) तिसृणां मध्यमया त्रीन् समुद्रानिति ऋचा हस्तस्थमेव कूर्मं कम्पयतीति सूत्रार्थः । कूर्मदेवत्या त्रिष्टुप् । हे कूर्म, यो भवान् त्रीन्समुद्रान् लोकान्समसृपत्सम्यक्प्राप्तो भवति । 'सृप्लृ गतौ' 'पुषादि-' (पा० ३ । १ । ५९) इत्यादिना च्लेरङ् । समुद्द्रवन्ति स्वकारणात्समुद्भवन्तीति समुद्रा लोकास्तान् । कीदृशान् । स्वर्गान् भोगसाधनभूतान् । कीदृशो भवान् । अपां पतिः जलेशः इष्टकानां वृषभः वर्षिता । किंच यत्र यस्मिन्स्थाने पूर्वे पुरातनाः कूर्माः अन्येष्वग्निषूपहिताः परेताः परागताः सुकृतस्य शोभनकृतस्याग्नेस्तत्र तस्मिन् लोके स्थाने त्वं गच्छ । किं कुर्वन् । पुरीषं हुतान्पशून् वसानः आच्छादयन् ॥ ३१ ॥
उ० एजयति । त्रीन्समुद्रान् । यस्त्रीन्समुद्रान् लोकान् समसृपत् । समसृप इति पुरुषव्यत्ययः । संसृप्तोसि । स्वर्गान् स्वर्गहेतून् । यश्च त्वम् अपांपतिः वृषभश्च वर्षिता भर्ता इष्टकानां तं त्वां ब्रवीमि । पुरीषं वसानः पशूनाच्छादयन् । सुकृतस्य शोभनकृतस्याग्नेलोंके स्थाने स्थित्वा तत्र गच्छ यत्र पूर्वे कूर्मा अन्येष्वग्निषूपहिताः सन्तः परेताः परागताः ॥ ३१ ॥

म० 'घट्टयति मध्यमयेति' (का० १७ । ५। २) तिसृणां मध्यमया त्रीन् समुद्रानिति ऋचा हस्तस्थमेव कूर्म कम्पयतीति सूत्रार्थः । कूर्मदेवत्या त्रिष्टुप् । हे कूर्म, यो भवान् त्रीन्समुद्रान् लोकान्सममृएत्सम्यक्प्राप्तो भवति । 'सृप गतौ' 'पुषादि-' (पा० ३ । १ । ५९) इत्यादिना च्लेरङ् । समुद्रवन्ति स्वकारणासमुद्भवन्तीति समुद्रा लोकास्तान् । कीदृशान् । खर्गान् भोगसाधनभूतान् । कीदृशो भवान् । अपां पतिः जलेशः इष्टकानां वृषभः वर्षिता । किंच यत्र यस्मिन्स्थाने पूर्व पुरातनाः कूर्माः अन्येष्वग्निधूपहिताः परेताः परागताः सुकृतस्य शोभनकृतस्याग्नेस्तत्र तस्मिन् लोके स्थाने खं गच्छ । किं कुर्वन् । पुरीषं हुतान्पशून् वसानः आच्छादयन् ॥ ३१ ॥


द्वात्रिंशी।
द्वात्रिंशी।
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। ३२ ।।
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। ३२ ।।
उ० मही द्यौरिति व्याख्यातम् ॥ ३२ ॥
उ० मही द्यौरिति व्याख्यातम् ॥ ३२ ॥

म० महीति व्याख्याता ( ८ । ३२) ॥ ३२ ॥
म० महीति व्याख्याता ( ८ । ३२) ॥ ३२ ॥


त्रयस्त्रिंशी।
त्रयस्त्रिंशी।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३३ ।।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३३ ।।

उ० उलूखलमुसले उपदधाति । विष्णोः कर्माणि । व्याख्यातम् ॥ ३३ ॥
उ० उलूखलमुसले उपदधाति । विष्णोः कर्माणि । व्याख्यातम् ॥ ३३ ॥
म० 'उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे औदुम्बरं प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसंगृहीतमूर्ध्वं वृत्तं दक्षिणमुलूखलाद्विष्णोः कर्माणीति' (का. १७ । ५।३) चतुष्कोणं संकुचितं खातहीनमुदुम्बरतरुजमूर्ध्वमुलूखलम् वृत्तं मुसलम् ते उभे स्वयमातृण्णोत्तरे देशे तन्मध्याद्धस्तमात्रे तृतीये लोके विष्णोरिति मन्त्रेण सहैवोपदधातीति सूत्रार्थः । व्याख्याता (६।४) ॥ ३३ ॥


चतुस्त्रिंशी।
म० 'उलूखलमुसले खयमातृण्णामुत्तरेणारनिमात्रे औदुम्बरं प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसंगृहीतमूर्ध्व वृत्तं दक्षिणमुलूखलाद्विष्णोः कर्माणीति' (का. १७ । ५।३) चतुष्कोणं संकुचितं खातहीनमुदुम्बरतरुजमूर्ध्वमुलूखलम् वृत्तं मुसलम् ते उभे स्वयमातृण्णोत्तरे देशे तन्मध्याद्धस्तमात्रे तृतीये लोके विष्णोरिति मन्त्रेण सहैवोपदधातीति सूत्रार्थः । व्याख्याता (६।४) ॥ ३३ ॥

चतुर्विंशी।
ध्रु॒वाऽसि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दा: ।
ध्रु॒वाऽसि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दा: ।
स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।। ३४ ।।
स गा॑य॒त्र्या त्रि॒ष्टुभा॑ऽनु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।। ३४ ।।