"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">१
शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन
कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन्
ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां
तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप्
चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत्
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति
[https://sa.wikisource.org/s/1zgw उद्वद्भार्गवम्]
पङ्क्तिः १३:
२
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन्
वर्धन्तो अस्य वीर्यं
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना
ते नो धत्त सुवीर्यं
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय
देवानां योनिमासदं
मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः
अनु विप्रा अमादिषुः
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः
स गोभिर्वासयामसि
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः
परि गव्यान्यव्यत
मघोन आ पवस्व नो जहि विश्वा अप द्विषः
इन्दो सखायमा विश
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं
भक्षीमहि प्रजामिषं
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि
सहो नः सोम पृत्सु धाः
३
सोमः पुनानो अर्षति सहस्रधारो अत्यविः
वायोरिन्द्रस्य निष्कृतं
पवमानमवस्यवो विप्रमभि प्र गायत
सुष्वाणं देववीतये
पवन्ते वाजसातये सोमाः सहस्रपाजसः
गृणाना देववीतये
उत नो वाजसातये पवस्व बृहतीरिषः
द्युमदिन्दो सुवीर्यं
अत्या हियाना न हेतृभिरसृग्रं वाजसातये
वि वारमव्यमाशवः
ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं
सुवाना देवास इन्दवः
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः
दधन्विरे गभस्त्योः
जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत्
विश्वा अप द्विषो जहि
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः
योनावृतस्य सीदत
४
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया
इन्द्राय मधुमत्तमाः
अभि विप्रा अनूषत गावो वत्सं न धेनवः
इन्द्रं सोमस्य पीतये
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित्
सोमो गौरी अधि श्रितः
दिवो नाभा विचक्षणोऽव्यो वारे महीयते
सोमो यः सुक्रतुः कविः
यः सोमः कलशेष्वा अन्तः पवित्र आहितः
तमिन्दुः परि षस्वजे
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि
जिन्वन्कोशं मधुश्चुतं
नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां
हिन्वानो मानुषा युजा
आ पवमान धारय रयिं सहस्रवर्चसं
अस्मे इन्दो स्वाभुवं
अभि प्रिया दिवः कविर्विप्रः स धारया सुतः
सोमो हिन्वे परावति
५
उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः
वाणस्य चोदया पविं
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः
यदव्य एषि सानवि
अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः
पवमानं मधुश्चुतं
आ पवस्व मदिन्तम पवित्रं धारया कवे
अर्कस्य योनिमासदं
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः
एन्द्रस्य जठरं विश
६
अया वीती परि स्रव यस्त इन्दो मदेष्वा
अवाहन्नवतीर्नव
पुरः सद्य इत्थाधिये दिवोदासाय शंबरं
अध त्यं तुर्वशं यदुं
परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत्
क्षरा सहस्रिणीरिषः
७
अपघ्नन्पवते मृधोऽप सोमो अराव्णः
गच्छन्निन्द्रस्य निष्कृतं
महो नो राय आ भर पवमान जही मृधः
रास्वेन्दो वीरवद्यशः
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन्
यत्पुनानो मखस्यसे
८
अया पवस्व धारया यया सूर्यमरोचयः
हिन्वानो मानुषीरपः
अयुक्त सूर एतशं पवमानो मनावधि
अन्तरिक्षेण यातवे
उत त्या हरितो रथे सूरो अयुक्त यातवे
इन्दुरिन्द्र इति ब्रुवन्
९
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्
१०
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे
स वृषा वृषभो भुवत्
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः
द्युम्नी श्लोकी स सोम्यः
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः
ववक्ष उग्रो अस्तृतः
११
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय
पुनाहीन्द्राय पातवे
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत
पवमानस्य मरुतः
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे
सुनोता मधुमत्तमं
१२
धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा
शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश
प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः
[https://sa.wikisource.org/s/1zgv उद्वद्भार्गवम्]
पङ्क्तिः १९३:
१३
यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा
कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि
१४
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत्
तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः
उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः
१५
पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः
वायुमा रोह धर्मणा
पवमान नि तोशसे रयिं सोम श्रवाय्यं
इन्दो समुद्रमा विश
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः
नुदस्वादेवयुं जनं
१६
अभी नो वाजसातमं रयिमर्ष शतस्पृहं
इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं
वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः
नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो
परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः
धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः
[https://sa.wikisource.org/s/1zwx गौरीवितम्]
पङ्क्तिः २३२:
१७
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम
शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व
१८
प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियं
अग्ने रथं न वेद्यं
कविमिव प्रशंस्यं यं देवास इति द्विता
नि मर्त्येष्वादधुः
त्वं यविष्ठ दाशुषो न्ऱींपाहि शृणुही गिरः
रक्षा तोकमुत त्मना
१९
एन्द्र नो गधि प्रिय सत्राजिदगोह्य
गिरिर्न विश्वतः पृथुः पतिर्दिवः
अभि हि सत्य सोमपा उभे बभूथ रोदसी
इन्द्रासि सुन्वतो वृधः पतिर्दिवः
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः
२०
पुरां भिन्दुर्युवा कविरमितौजा अजायत
इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः
त्वं वलस्य गोमतोऽपावरद्रिवो बिलं
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः
इन्द्रमीशानमोजसाभि स्तोमैरनूषत
सहस्रं यस्य रातय उत वा सन्ति भूयसीः
|