"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य श्रीविष्णुपुराणम्-चतुर्थांशः/अध्यायः १४ पृष्ठं विष्णुपुराणम्/चतुर्थांशः/अध्यायः १४ प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः १:
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ४,१४.१ ॥
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ४,१४.२ ॥
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ४,१४.३ ॥
इत्येते शैनेयाः ॥ ४,१४.४ ॥
अनमित्रस्यान्वये वृष्णिः तस्मात्श्चफल्कः तत्प्रभावः काथेन एव ॥ ४,१४.५ ॥
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ४,१४.६ ॥
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ४,१४.७ ॥
तथोपमद्गः ॥ ४,१४.८ ॥
उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ४,१४.९ ॥
देववानुपदेवश्चाक्रूरपुत्रौ ॥ ४,१४.१० ॥
पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ४,१४.११ ॥
कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ ४,१४.१२ ॥
कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ ४,१४.१३ ॥
अनोरानकदुन्दभिः ततश्चा भिजितभिजितः पुनर्वसुः ॥ ४,१४.१४ ॥
तस्याप्याहुकः आहुकी च कन्या ॥ ४,१४.१५ ॥
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ ४,१४.१६ ॥
देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ ४,१४.१७ ॥
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ ४,१४.१८ ॥
ताश्च सर्वा वसुदेव उपयेमे ॥ ४,१४.१९ ॥
उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ ४,१४.२० ॥
कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ ४,१४.२१ ॥
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ ४,१४.२२ ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ ४,१४.२३ ॥
तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ ४,१४.२४ ॥
देवगर्भस्यापि शुरः ॥ ४,१४.२५ ॥
शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ ४,१४.२६ ॥
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ ४,१४.२७ ॥
वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ ४,१४.२८ ॥
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ ४,१४.२९ ॥
तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ४,१४.३० ॥
पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ४,१४.३१ ॥
शुरस्य कुन्तिर्नाम सखाभवत् ॥ ४,१४.३२ ॥
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ४,१४.३३ ॥
तां च पाण्डुरुवाह ॥ ४,१४.३४ ॥
तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ४,१४.३५ ॥
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ४,१४.३६ ॥
तस्याश्च सपत्नी माद्री नामाभूत् ॥ ४,१४.३७ ॥
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ४,१४.३८ ॥
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ४,१४.३९ ॥
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४,१४.४० ॥
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४,१४.४१ ॥
तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४,१४.४२ ॥
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४,१४.४३ ॥
श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४,१४.४४ ॥
तस्यां च शिशुपालमुत्पादयामास ॥ ४,१४.४५ ॥
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४,१४.४६ ॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४,१४.४७ ॥
पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ ४,१४.४८ ॥
बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४,१४.४९ ॥
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ४,१४.५० ॥
शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ४,१४.५१ ॥
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ४,१४.५२ ॥
भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ४,१४.५३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (१४)
 
</span></poem>
 
<poem>
अनमित्रस्यानूजः शिनिर्नामाभवत् । तस्यापि सत्यकः, सत्यकात् सात्यकि र्युयुधाननामा, ततोऽप्य सङ्गःततूपुत्रश्व तूणिः, तूणोर्युगन्धर इति शैनेयाः ।। ४-१४-१ ।।