"रामायणम्/अरण्यकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |

पङ्क्तिः १:
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥'''

प्रविश्य तु महारण्यम् दण्डकारण्यम् आत्मवान् ।

रामो ददर्श दुर्धर्ष तापस आश्रम मण्डलम् ॥३-१-१॥

कुश चीर परिक्षिप्तम् ब्राह्म्या लक्ष्म्या समावृतम् ।
यथा प्रदीप्तम् दुर्दर्शम् गगने सूर्य मण्डलम् ॥३-१-२॥
शरण्यम् सर्व भूतानाम् सु संमृष्ट अजिरम् सदा ।
मृगैः बहुभिः आकीर्णम् पक्षि सन्घैः समावृतम् ॥३-१-३॥
पूजितम् च उपनृत्तम् च नित्यम् अप्सरसाम् गणैः ।
विशालैः अग्नि शरणैः स्रुक् भाण्डैः अजिनैः कुशैः ॥३-१-४॥
समिद्भिः तोय कलशैः फल मूलैः च शोभितम् ।
आरण्यैः च महा वृक्षैः पुण्यैः स्वादु फलैर् वृतम् ॥३-१-५॥
बलि होम अर्चितम् पुण्यम् ब्रह्म घोष निनादितम् ।
पुष्पैः च अन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया ॥३-१-६॥
फलमूल अशनैः दान्तैः चीर कृष्णाजिन अम्बरैः ।
सूर्य वैश्वानर आभैः च पुराणैः मुनिभिर् युतम् ॥३-१-७॥
पुण्यैः च नियत आहारैः शोभितम् परम ऋषिभिः ।
तत् ब्रह्म भवन प्रख्यम् ब्रह्म घोष निनादितम् ॥३-१-८॥
ब्रह्म विद्भिः महा भागैः ब्राह्मणैः उपशोभितम् ।
तत् दृष्ट्वा राघवः श्रीमान् तापस आश्रम मण्डलम् ॥३-१-९॥
अभ्यगच्छत् महातेजा विज्यम् कृत्वा महद् धनुः ।
दिव्य ज्ञान उपपन्नाः ते रामम् दृष्ट्वा महर्षयः ॥३-१-१०॥
अभिजग्मुः तदा प्रीता वैदेहीम् च यशस्विनीम् ।
ते तु सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्मचारिणम् ॥३-१-११॥
लक्ष्मणम् च एव दृष्ट्वा तु वैदेहीम् च यशश्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णान् दृढ व्रताः ॥३-१-१२॥
रूप संहननम् लक्ष्मीम् सौकुमार्यम् सुवेषताम् ।
ददृशुर् विस्मित आकारा रामस्य वन वासिनः ॥३-१-१३॥
वैदेहीम् लक्ष्मणम् रामम् नेत्रैर् अनिमिषैर् इव ।
आश्चर्य भूतान् ददृशुः सर्वे ते वन वासिनः ॥३-१-१४॥
अत्र एनम् हि महाभागाः सर्व भूत हिते रताः ।
अतिथिम् पर्णशालायाम् राघवम् संन्यवेशयन् ॥३-१-१५॥
ततो रामस्य सत्कृत्य विधिना पावक उपमाः ।
आजह्रुः ते महाभागाः सलिलम् धर्मचारिणः ॥३-१-१६॥
मंगलानि प्रयुञ्जाना मुदा परमया युता ।
मूलम् पुष्पम् फलम् सर्वम् आश्रमम् च महात्मनः ॥३-१-१७॥
निवेदयीत्वा धर्मज्ञाः ते तु प्रांजलयोऽब्रुवन् ।
धर्मपालो जनस्य अस्य शरण्यः च महायशाः ॥३-१-१८॥
पूजनीयः च मान्यः च राजा दण्डधरो गुरुः ।
इन्द्रस्य एव चतुर्भागः प्रजा रक्षति राघव ॥३-१-१९॥
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः ।
ते वयम् भवता रक्ष्या भवद् विषय वासिनः ।
नगरस्थो वनस्थो वा त्वम् नः राजा जनेश्वरः ॥३-१-२०॥
न्यस्त दण्डा वयम् राजन् जित क्रोधा जितेन्द्रियाः ।
रक्षणीयाः त्वया शश्वद् गर्भ भूताः तपोधनाः ॥३-१-२१॥
एवम् उक्त्वा फलैर् मूलैः पुष्पैर् अन्यैः च राघवम् ।
वन्यैः च विविध आहारैः स लक्ष्मणम् अपूजयन् ॥३-१-२२॥
तथाऽन्ये तापसाः सिद्धा रामम् वैश्वानर उपमाः ।
न्याय वृत्ता यथा न्यायम् तर्पयामासुर् ईश्वरम् ॥३-१-२३॥

▲'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे प्रथमः सर्गः ॥३-१॥'''