"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २४६:
*शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णितमस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।
यथा स्कन्दपुराणे [https://sa.wikisource.org/s/fhb ६.२४७.४१]कथितमस्ति, अश्वत्थवृक्षस्य पत्रेषु हरिः वासं करोति। पुराणेषु पत्रस्य कार्यद्वयोः उल्लेखमस्ति - पितृपालनं एवं विशेषम्। पितृपालनं अर्थात् देहधारणार्थं ये शक्तयः अपेक्षिताः सन्ति, तेषां भरणम्। इतः परि विशेषः आरभ्यते। शूद्रतः ब्राह्मणत्वे क्रमणं, ब्राह्मणतः देवत्वे क्रमणं एतानि विशेषाणि सन्ति।
प्रस्तुत सूक्ते आयसः शब्दस्य त्रिवारं उल्लेखमस्ति। शुक्लयजुर्वेदे [https://sa.wikisource.org/s/1zc3 ५.८] आदिषु उपसदिष्ट्याः संदर्भे कथनमस्ति - या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ प्रथमउपसदिष्ट्यां अग्नेः आयसीतनुर्भवति, द्वितीययां राजसी, तृतीययां हरिण्ययी।
}}
|