"आपिशलशिक्षा/पञ्चमोध्यायः" इत्यस्य संस्करणे भेदः

5.0 ( बाह्यप्रयत्नप्रकरणम् ) 5.1 अथ बाह्यः । 5.2 वर्गाण... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
5.0
 
( बाह्यप्रयत्नप्रकरणम् ) । १ ।
5.1
 
अथ बाह्यः । २
5.2
 
वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयजिह्वामूलीयोपध्मानीया यमौ च । ३ ।
5.2
 
प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः । ४
5.3
 
वर्गयमानां प्रथमेऽल्पप्राणा इतरे सर्वे महाप्राणाः । ५
5.4
 
वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च
तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः । ६
 
5.5
वर्गयमानां तृतीया अन्तस्थाश्चल्पप्राणा इतरे सर्वे महाप्राणाः । ७
 
5.6
यथा तृतीयास्तथा पञ्चमाः । ८
 
5.7
आनुनासिक्यमेषामधिको गुणः । ९
 
5.8
कादयो मावसानाः स्पर्शाः । १०
 
5.9
यादयोऽन्तस्थाः । ११
 
5.10
शादय ऊष्माणः । १२
 
5.11
सस्थानेन द्वितीयाः । १३
 
5.12
हकारेण चतुर्थाः । १४
 
5.13
एष बाह्य प्रयत्नः । १५
</poem>
[[वर्गः:आपिशलशिक्षा]]
"https://sa.wikisource.org/wiki/आपिशलशिक्षा/पञ्चमोध्यायः" इत्यस्माद् प्रतिप्राप्तम्