"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३६:
अयम् “अग्निः “शिमीवद्भिः हविष्प्रदानादिकर्मवद्भिः “अर्कैः अर्चनसाधनैर्मन्त्रैः “अस्तावि स्तुतोऽस्माभिर्यजमानैः । शिमीति कर्मनाम, ‘ शिमी शक्तिः ' ( नि. २. १. २४ ) इति तन्नामसु पाठात् । कीदृशोऽयम् । “साम्राज्याय साम्राज्यस्येति कर्मणि षष्ठीस्थाने चतुर्थी । सम्यक् राजमानत्वं “प्रतरं प्रकृष्टतरमत्यर्थं “दधानः ।।' अमु च च्छन्दसि ' इति अमुप्रत्ययः ।। किंच इममग्निम् “अमी “च पुरोवर्तमाना ऋत्विजः पुत्रादयो वा "ये "वयं “च पूर्वं स्तोतृत्वेन प्रसिद्धा वयमपि “अति अत्यर्थं “निष्टतन्युः शब्दयन्तु ।। निष्पूर्वः स्तनतिः शब्दकर्मा ।। इतः परमपि अस्मत्पुत्रपौत्रादयो वयं च अग्निं स्तुम इत्यर्थः । तत्र दृष्टान्तः । “मिहं “न “सूरः । मिहं मेहनशीलं मेघं यथा सूरः सूर्यो वृष्ट्यर्थं शब्दयति तद्वत् ॥ लिङि छान्दसो विकरणस्य श्लुः । ‘ अभिनिसः स्तनः शब्दसंज्ञायाम् (पा. सू. ८. ३. ८६ ) इति षत्वम् ॥ ॥ ९ ॥
}}
 
== ==
{{टिप्पणी|
१.१४१.१० त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि ।
 
सोमस्येन्वका । विततानि परस्ताद्वयन्तोऽवस्तात् । - तैब्रा [https://sa.wikisource.org/s/nkx १.५.१.१] । अनुमानमस्ति यत् ये वितताः सन्ति, ते प्राणाः सन्ति। यः तेषां प्राणानां वयनं करिष्यति, तत् वाक्, अग्निः अस्ति। कथासरित्सागरे [https://sa.wikisource.org/s/zhl १८.२.२३५] कथा अस्ति यत् इन्द्रः स्वपुत्रजयन्त्याय स्वर्णरत्नेभिः शिशुक्रीडामृगस्य निर्माणं करोति एवं अस्मिन् जीवनस्य संचारं करोति। परवर्तीकाले मेघनादः अस्य हरणं कृत्वा लंकायां आनयति।
}}
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४१" इत्यस्माद् प्रतिप्राप्तम्