"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४२:
आदघ्नासः । उपऽकक्षासः । ऊं इति । त्वे । ह्रदाःऽइव । स्नात्वाः । ऊं इति । त्वे । ददृश्रे ॥७
 
“अक्षण्वन्तः अक्षिमन्तः । छन्दस्यपि दृश्यते ' इत्यक्षिशब्दादनङ्। ‘ अनो नुट्' इति नुट् । अनेन दृश्यते सर्वमित्यक्षि । यद्वा । तैजसत्वात् अन्येभ्योऽङ्गेभ्यो व्यक्ततरम् । तथा च श्रूयते - ‘ तस्मादेते व्यक्ततरे इव ' इति । तादृशाक्षियुक्ताः “कर्णवन्तः । कर्णो निकृत्तद्वारः। गर्भावस्थायामेव केनापि निर्मितबिल इत्यर्थः । यद्वा शरीरस्य शिरसो वोर्ध्वं गते उच्चैः स्थिते । कर्णविलक्षणाकाशवन्तः । तथा चाम्नायते - ऋच्छन्ती इव खे उदगन्ताम् ' इति । तादृशाः “सखायः । समानं ख्यानं ज्ञानं येषामिति सखायः । तेषु वाक्येषु बाह्येष्विन्द्रियेषु समानज्ञाना इत्यर्थः। ते “मनोजवेषु“[https://bharatkalyan97.blogspot.com/2021/01/manojavitva-siddhi-arun-kumar-upadhyay.html मनोजवेषु] । मनसा गम्यन्ते ज्ञायन्त इति मनोजवाः प्रज्ञाद्याः । तेषु “असमाः अतुल्याः “बभूवुः भवन्ति । तेषु मध्ये केचित् “आदघ्नासः । आस्यशब्दस्य पृषोदरादित्वादाकारादेशः । आस्यदघ्ना आस्यप्रमाणोदका हृदा इवेति मध्यमप्रज्ञानाह। अथ “त्वे एके। सर्वनामत्वाज्जसः शीभावः। “उपकक्षासः । कक्षसमीपप्रमाणोदका हृदा इव । अल्पोदका इत्यर्थः । अनेनाल्पप्रज्ञानाह। तथा “त्वे एके “स्नात्वाः । स्नातेः कृत्यार्थे त्वन्प्रत्ययः (पा. सू. ३.४.१४ )। स च ‘ अर्हे कृत्यतृचश्च' ( पा. सू. ३.३.१६९ ) इत्यर्हार्थे च भवति । स्नानार्हा अक्षोभ्योदकाः “हृदाइव “ददृशे दृश्यन्ते । अनेन महाप्रज्ञानाह। उः पूरणः । ‘ अक्षिमन्तः कर्णवन्तः सखायोऽक्षि चष्टेः ' (निरु. १. ९) इत्यादिकं निरुक्तमत्र द्रष्टव्यम् ॥
 
 
पङ्क्तिः १५७:
अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊं इति । त्वे ॥८
 
“सखायः समानख्यानाः “ब्राह्मणाः “हृदा बुद्धिमतां हृदयेन “तष्टेषु निश्चितेषु परिकल्पितेषु “मनसो“[https://bharatkalyan97.blogspot.com/2021/01/manojavitva-siddhi-arun-kumar-upadhyay.html मनसो “जवेषु] गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणाः “यत् यदा “संयजन्ते संगछन्ते । यजिरत्र संगतिकरणवाची । “अत्र अस्मिन् ब्राह्मणसंघे “त्वम् अविज्ञातार्थमेकं पुरुषं “वेद्याभिः वेदितव्याभिः विद्याभिः प्रवृत्तिभिर्वा “वि “जहुः विशेषेण परित्यजन्ति । “अह इति विनिश्चये । “ओहब्रह्माणः । ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येषां ते तथोक्ताः । तादृशास्त एके विद्वांसः “वि “चरन्ति यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते । उः प्रसिद्धौ। ‘ हृदा तष्टेषु मनसां प्रजवेषु' (निरु. १३. १३ ) इत्यादिकं निरुक्तं द्रष्टव्यम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्