"ऋग्वेदः सूक्तं १०.७१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५:
 
{{सायणभाष्यम्|
बृहस्पते ' इत्येकादशर्चं तृतीयं सूक्तम् आङ्गिरसस्य बृहस्पतेरार्षम् । नवमी जगती शिष्टा दश त्रिष्टुभः । अनेन सूक्तेनर्षिः परमपुरुषार्थसाधनं परब्रह्मज्ञानं स्तुतवान् । अतस्तद्देवत्यमिदम्। उक्तं हि बृहद्देवतायां - सुज्योतिः परमं ब्रह्म यद्योगात्समुपाश्नुते । तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः । ( बृहद्दे. [https://sa.wikisource.org/s/28fi ७. १०९] ) इति । अनुक्रान्तं च --- ‘ बृहस्पते बृहस्पतिर्ज्ञानं तुष्टाव नवमी जगती ' इति । सूक्तविनियोगो गतः । देवसुवाँ हविःषु बृहस्पतिर्वाचस्पतिरित्यस्य प्रथमानुवाक्या । सूत्रितं च ----- ‘ बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1auy ४. ११] ) इति ।
 
 
पङ्क्तिः ५०:
यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निऽहितम् । गुहा । आविः ॥१
 
बृहस्पतिरनेन सूक्तेन विदितवेदार्थान् बालान् दृष्ट्वा स्मयमानः स्वात्मानं संबोध्याह । हे “बृहस्पते अन्तरात्मन् “प्रथमम् उत्पत्त्यनन्तरमितरवागुच्चारणात्प्रागेव “नामधेयं नाम “दधानाः पदार्थेषु निदधाना बालाः “यत् “प्रैरत प्रेरितवन्तः तत् “वाचोऽयं भवति । यत्तत तातेत्यादिकं वाक्यं पूर्वमभिधाय पश्चादन्या वाचो वदिष्यन्ति खलु तस्माद्वाचोऽग्रम् । अस्यां दशायामवस्थितान् बालान् पश्य । तथेदानीम् “एषां “श्रेष्ठं प्रशस्यतमं “यत् यच्च “अरिप्रं पापरहितं वेदार्थज्ञानम् “आसीत् “एषां तज्ज्ञानं “गुहा गुहायां “निहितं गोप्यं “तत् “प्रेणा । मकालोपश्छान्दसः। प्रेम्णाविर्भवति । वेदाभ्यासकाले सरस्वती स्वार्थमेभ्यः प्रकाशयतीत्यर्थः । एवं विस्मये बृहस्पते प्रथमं वाचो अग्रम् । (ऐ. आ. [https://sa.wikisource.org/s/ige १. ३. ६] ) इत्यादिकमारण्यकमनुसंधेयम् ॥
 
 
पङ्क्तिः १४२:
आदघ्नासः । उपऽकक्षासः । ऊं इति । त्वे । ह्रदाःऽइव । स्नात्वाः । ऊं इति । त्वे । ददृश्रे ॥७
 
“अक्षण्वन्तः अक्षिमन्तः । छन्दस्यपि दृश्यते ' इत्यक्षिशब्दादनङ्। ‘ अनो नुट्' इति नुट् । अनेन दृश्यते सर्वमित्यक्षि । यद्वा । तैजसत्वात् अन्येभ्योऽङ्गेभ्यो व्यक्ततरम् । तथा च श्रूयते - ‘ तस्मादेते व्यक्ततरे इव ' इति । तादृशाक्षियुक्ताः “कर्णवन्तः । कर्णो निकृत्तद्वारः। गर्भावस्थायामेव केनापि निर्मितबिल इत्यर्थः । यद्वा शरीरस्य शिरसो वोर्ध्वं गते उच्चैः स्थिते । कर्णविलक्षणाकाशवन्तः । तथा चाम्नायते - ऋच्छन्ती इव खे उदगन्ताम् ' इति । तादृशाः “सखायः । समानं ख्यानं ज्ञानं येषामिति सखायः । तेषु वाक्येषु बाह्येष्विन्द्रियेषु समानज्ञाना इत्यर्थः। ते “[https://bharatkalyan97.blogspot.com/2021/01/manojavitva-siddhi-arun-kumar-upadhyay.html मनोजवेषु] । मनसा गम्यन्ते ज्ञायन्त इति मनोजवाः प्रज्ञाद्याः । तेषु “असमाः अतुल्याः “बभूवुः भवन्ति । तेषु मध्ये केचित् “आदघ्नासः । आस्यशब्दस्य पृषोदरादित्वादाकारादेशः । आस्यदघ्ना आस्यप्रमाणोदका हृदा इवेति मध्यमप्रज्ञानाह। अथ “त्वे एके। सर्वनामत्वाज्जसः शीभावः। “उपकक्षासः । कक्षसमीपप्रमाणोदका हृदा इव । अल्पोदका इत्यर्थः । अनेनाल्पप्रज्ञानाह। तथा “त्वे एके “स्नात्वाः । स्नातेः कृत्यार्थे त्वन्प्रत्ययः (पा. सू. ३.४.१४ )। स च ‘ अर्हे कृत्यतृचश्च' ( पा. सू. ३.३.१६९ ) इत्यर्हार्थे च भवति । स्नानार्हा अक्षोभ्योदकाः “हृदाइव “ददृशे दृश्यन्ते । अनेन महाप्रज्ञानाह। उः पूरणः । ‘ अक्षिमन्तः कर्णवन्तः सखायोऽक्षि चष्टेः ' (निरु. [https://sa.wikisource.org/s/6zg १. ९]) इत्यादिकं निरुक्तमत्र द्रष्टव्यम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७१" इत्यस्माद् प्रतिप्राप्तम्