"ऋग्वेदः सूक्तं १.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५३:
त्वाम् । वर्धन्तु । नः । गिरः ॥८
 
हे "शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र “त्वां "[https://sa.wikisource.org/s/131a स्तोमाः] सामगानां स्तोत्राणि "अवीवृधन् वर्धितवन्ति । तथा बह्वृचानाम् “उक्था शस्त्राणि “त्वाम् अवीवृधन् । यस्मात् पूर्वमेवमासीत् तस्मादिदानीमपि "नः अस्माकं "गिरः स्तुतयः “त्वां "वर्धन्तु वर्धयन्तु अतिवृद्धं कुर्वन्तु ।। स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । ' वृधु वृद्धौ । प्यन्तात् लुङि चङि ( पा. सू. ३. १. ४८ ) ' उर्ऋत् ' (पा. सू. ७. ४. ७) इति वृधेरुपधाया ऋकारस्य ऋकारविधानादन्तरङ्गोऽपि गुणो बाध्यते । द्विर्भाव(पा. सू. ६. १. ११) हलादिशेष-(पा. सू. ७, ४. ६०) सन्वद्भाव-(पा. सू. ७. ४. ९३) इत्व(पा. सू. ७. ४, ७९ ) दीर्घत्व-( पा. सू. ७. ४. ९४ ) अडागमाः (पा. सू. ६. ४. ७१ )। उक्था उक्थानि। ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्' (उ. सू. २. १६४) इति वचेः थक्प्रत्ययः । तस्य कित्त्वात् संप्रसारणम् । “ शेश्छन्दसि बहुलम् ' (पा. सू. ६. १. ७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यादामन्त्रितपरस्यापि न पराङ्गवद्भाव इति नानुदात्तत्वम्। वर्धन्तु । अन्तर्भावितण्यर्थात् वृधेः व्यत्ययेन परस्मैपदम् ।।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५" इत्यस्माद् प्रतिप्राप्तम्