"पिङ्गलछन्दःसूत्रम्" इत्यस्य संस्करणे भेदः

{{header | title = छन्दः | author = | translator = | section = | previous = | next = ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २१:
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्।।
त्रिविरामं दशवर्षं षण्मात्रमुवाच पिङ्गलः सूत्रम्।
छन्दोवर्ग पदार्थ प्रत्ययहेतोश्च शास्त्रादौ।शास्त्रादौ॥ । १.१ ।
 
----
 
धीश्रीस्त्रीम् । २.१ ।
Line ५१ ⟶ ५३:
ग्लौ । २.१४ ।
 
अष्टौ वसव इति।इति॥ । २.१५ ।
 
----
 
छन्दः । ३.१ ।
 
गायत्री । ३.२ ।
 
दैव्येकम् । ३.३ ।
 
आसुरी पञ्चदश । ३.४ ।
 
प्राजापत्याष्टौ । ३.५ ।
 
यजुषां षट् । ३.६ ।
 
साम्नां द्विः । ३.७ ।
 
ऋचां त्रिः । ३.८ ।
 
द्वौ द्वौ साम्नां वर्धेत । ३.९ ।
 
त्रींस्त्रीनृचाम् । ३.१० ।
 
चतुरश्चतुरः प्राजापत्यायाः । ३.११ ।
 
एकैकं शेषे । ३.१२ ।
 
जह्यादासुरी । ३.१३ ।
 
तान्युष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यः । ३.१४ ।
 
तिस्रस्तिस्रस्सनाम्न्य एकैका ब्राह्म्यः। ३.१५ ।
 
प्राग्यजुषामार्ष्य इति।। । ३.१६ ।
 
----
 
पादः । ४.१ ।
 
इयादिपूरणः । ४.२ ।
 
गायत्र्या वसवः । ४.३ ।
 
जगत्या आदित्याः । ४.४ ।
 
विराजो दिशः । ४.५ ।
 
त्रिष्टुभो रुद्राः । ४.६ ।
 
एकद्वित्रिचतुष्पादुक्तपादम् । ४.७ ।
 
आद्यं चतुष्पादृतुभिः । ४.८ ।
 
क्वचित् त्रिपादृषिभिः । ४.९ ।
 
सा पादनिचृत् । ४.१० ।
 
षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ४.११ ।
 
द्वौ नवकौ षट्कश्च नागी।४.१२
 
विपरीता वाराही । ४.१३ ।
 
षट्कसप्तकाष्टकैर्वर्धमाना । ४.१४ ।
 
विपरीता प्रतिष्ठा । ४.१५ ।
 
तृतीयं द्विपाज्जागतगायत्राभ्याम् । ४.१६ ।
 
त्रिपात्त्रैष्टुभैः । ४.१७ ।
 
उष्णिग्गायत्रौ जागतश्च । ४.१८ ।
 
ककुम्मध्ये चेदन्त्यः । ४.१९ ।
 
पुरउष्णिक् पुरः ।। । ४.२० ।
 
----
 
परोष्णिक् परः । ५.१ ।
 
चतुष्पादृषिभिः । ५.२ ।
 
अनुष्टुप् गायत्रैः । ५.३ ।
 
त्रिपात्क्वचिज्जागताभ्यां च । ५.४ ।
 
मध्येऽन्ते च । ५.५ ।
 
बृहती जागतस्त्रयश्च गायत्राः । ५.६ ।
 
पथ्या पूर्वश्चेत्तृतीयः । ५.७ ।
 
न्यङ्कुसारिणी द्वितीयः । ५.८ ।
 
स्कन्धोग्रीवी क्रौष्टुकेः । ५.९ ।
 
रोबृहती यास्कस्य । ५.१० ।
 
उपरिष्टाद्बृहत्यन्ते । ५.११ ।
 
पुरस्ताद्बृहती पुरः । ५.१२ ।
 
क्वचिन्नवकाश्चत्वारः । ५.१३ ।
 
वैराजौ गायत्रौ च । ५.१४ ।
 
त्रिभिर्जागतैर्महाबृहती । ५.१५ ।
 
सतोबृहती ताण्डिनः । ५.१६ ।
 
पंक्तिर्जागतौ गायत्रौ च । ५.१७ ।
 
पूर्वौ चेदयुजौ सतः पंक्तिः । ५.१८ ।
 
विपरीतौ च॥ । ५.१९ ।
 
----
 
आस्तारपंक्तिः परतः । ६.१ ।
 
प्रस्तारपंक्तिः पुरतः । ६.२ ।
 
विष्टारपंक्तिरन्तः । ६.३ ।
 
संस्तारपंक्तिर्बहिः । ६.४ ।
 
अक्षरपंक्तिः पञ्चकाश्चत्वारः । ६.५ ।
 
द्वावप्यल्पशः । ६.६ ।
 
पदपंक्तिः पञ्च । ६.७ ।
 
चतुष्क षट्कौ त्रयश्च । ६.८ ।
 
पथ्या पञ्चभिर्गायत्रैः । ६.९ ।
 
जगती षड्भिः । ६.१० ।
 
एकेन त्रिष्टुप् ज्योतिष्मती । ६.११ ।
 
तथा जगती । ६.१२ ।
 
पुरस्ताज्ज्योतिः प्रथमेन । ६.१३ ।
 
मध्येज्योतिर्मध्यमेन । ६.१४ ।
 
उपरिष्टाज्ज्योतिरन्त्येन । ६.१५ ।
 
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ६.१६ ।
 
षट्के ककुद्मती । ६.१७ ।
 
त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ६.१८ ।
 
विपरीता यवमध्या । ६.१९ ।
 
ऊनाधिकेनैकेन निचृद्भुरिजौ । ६.२० ।
 
द्वाभ्यां विराट् स्वराजौ । ६.२१ ।
 
आदितः सन्दिग्धे॥ । ६.२२ ।
 
----
 
देवतादितश्च । ७.१ ।
 
अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ७.२ ।
 
स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ७.३ ।
 
सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ७.४ ।
 
आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ७.५ ।
 
श्यामान्यतिच्छन्दांसि । ७.६ ।
 
रोचनाभाः कृतयः । ७.७ ।
 
अनुक्तानां कामतो वर्णा इति।। । ७.८ ।
 
----
 
चतुः शतमुत्कृतिः । ८.१ ।
 
चतुरश्चतुरस्त्यजेदुत्कृतेः । ८.२ ।
 
तान्यभिसंव्याप्रेभ्यः कृतिः । ८.३ ।
 
प्रकृत्याचोपसर्गवर्जितः । ८.४ ।
 
धृत्यष्टिशक्वरी जगत्यः । ८.५ ।
 
पृथक्पृथक्पूर्वत एतान्येवैषाम् । ८.६ ।
 
द्वितीयं द्वितीयमतितः । ८.७ ।
 
अथ लौकिकम् । ८.८ ।
 
आत्रैष्टुभाच्च यदार्षम् । ८.९ ।
 
पादश्चतुर्भागः । ८.१० ।
 
यथावृत्तसमाप्तिर्वा । ८.११ ।
 
लः समुद्रागणः । ८.१२ ।
गौगन्तमध्यादिर्न्लश्च । ८.१३ ।
 
स्वरा अर्धं चार्यार्धम् । ८.१४ ।
 
अत्रायुङ्नज् । ८.१५ ।
 
षष्ठोज् । ८.१६ ।
 
न्लौ वा । ८.१७ ।
 
न्लौचेत्पदं द्वितीयादि । ८.१८ ।
 
सप्तमः प्रथमादि । ८.१९ ।
 
अन्त्ये पञ्चमः।। । ८.२० ।
 
----
 
षष्ठश्चल् । ९.१ ।
 
त्रिषु गणेषु पादः पथ्याद्ये च । ९.२ ।
 
विपुलान्या । ९.३ ।
 
चपला द्वितीय चतुर्थौ ग्मध्येजौ । ९.४ ।
 
पूर्वे मुखपूर्वा । ९.५ ।
 
जघनपूर्वेतरत्र । ९.६ ।
 
उभयोर्महाचपला । ९.७ ।
 
आद्यर्धसमा गीतिः । ९.८ ।
 
अन्त्येनोपगीतिः । ९.९ ।
 
उत्क्रमेणोद्गीतिः । ९.१० ।
 
अर्धे वसुगण आर्यागीतिः । ९.११ ।
 
वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोन्तेर्ल्गः । ९.१२ ।
 
गौपच्छन्दसिकम् । ९.१३ ।
 
आपातलिका भ्गौग् । ९.१४ ।
 
शेषे परेण युङ्न साकम् । ९.१५ ।
 
षट्चामिश्रायुजि । ९.१६ ।
 
पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ९.१७ ।
 
अयुक्तृतीयेनोदीच्यवृत्तिः । ९.१८ ।
 
आभ्यां युगपत्प्रवृत्तकम् । ९.१९ ।
 
अयुक् चारुहासिनी ॥ । ९.२० ।
 
----
 
युगपरान्तिका । १०.१ ।
 
गन्ता द्विर्वसवो मात्रा समकल् नवमः । १०.२ ।
 
द्वादशश्च वानवासिका । १०.३ ।
 
विश्लोकः पञ्चमाष्टमौ । १०.४ ।
 
चित्रा नवमश्च । १०.५ ।
 
परयुक्तेनोपचित्रा । १०.६ ।
 
एभिः पादाकुलकम् । १०.७ ।
 
गीत्यार्यालः । १०.८ ।
 
शिखा विपर्यस्तार्धा । १०.९ ।
 
लः पूर्वश्चेज्ज्योतिः । १०.१० ।
 
गश्चेत्सौम्या । १०.११ ।
 
चूलिकैकान्नत्रिंशदेकत्रिंशदन्तेग् । १०.१२ ।
 
साग्येननसमा लांग्ल इति।। । १०.१३ ।
 
 
 
 
</poem>
"https://sa.wikisource.org/wiki/पिङ्गलछन्दःसूत्रम्" इत्यस्माद् प्रतिप्राप्तम्