"गरुडपुराणम्/आचारकाण्डः/अध्यायः १९४" इत्यस्य संस्करणे भेदः
Content deleted Content added
आचारकाण्डः using AWB |
No edit summary |
||
पङ्क्तिः ८:
| notes =
}}
श्रीगरुडमहापुराणम् १९४
<poem><span style="font-size: 14pt; line-height: 200%">हरिरुवाच ।
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।
येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ १,१९४.१ ॥
प्रणम्य देवमीशानमजं नित्यमनामयम् ।
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ १,१९४.२ ॥
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् ।
अमोघाप्रतिमं सर्वं सर्वदुः खनिवारणम् ॥ १,१९४.३ ॥
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।
हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ १,१९४.४ ॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।
प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ १,१९४.५ ॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ १,१९४.६ ॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।
दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी ॥ १,१९४.७ ॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।
ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ १,१९४.८ ॥
पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ १,१९४.९ ॥
वराहो रक्षतु जले विषमेषु च वामनः ।
अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥ १,१९४.१० ॥
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ १,१९४.११ ॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।
सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ १,१९४.१२ ॥
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतोदिशम् ॥ १,१९४.१३ ॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु ।
तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १,१९४.१४ ॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।
वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ १,१९४.१५ ॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।
दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १,१९४.१६ ॥
सर्वानरीन्नाशयतु रामः परशुना मम ।
रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ १,१९४.१७ ॥
शत्रीन्हलेन मे हन्याद्रामो यादवनन्दनः ।
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १,१९४.१८ ॥
अन्धकारतमोघोरं पुरुषं कृष्णषिङ्गलम् ।
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १,१९४.१९ ॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ १,१९४.२० ॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ १,१९४.२१ ॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ १,१९४.२२ ॥
सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् ।
यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।
सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ १,१९४.२३ ॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।
ते हि च्छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ १,१९४.२४ ॥
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।
विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ १,१९४.२५ ॥
नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये ।
अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ १,१९४.२६ ॥
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।
जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ १,१९४.२७ ॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।
विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।
स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ १,१९४.२८ ॥
अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते ।
ओं कालाय स्वाहा । ओं कालपुरुषाय स्वाहा । ओं कृष्णाय स्वाहा ।
Line ७८ ⟶ ७६:
तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः ।
वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः ।
सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥ १,१९४.२९ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः
</span></poem>
[[वर्गः:आचारकाण्डः]]
|