"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
ऐतरेय ब्राह्मणम्
 
अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता आग्नावैष्णवम्पुरोळाशं निर्वपन्ति दीक्षणीयमेकादशकपालं सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्त्यग्निर्वै सर्वा देवता विष्णुः सर्वा देवता एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदाग्नावैष्णवम्पुरोळाशं निर्वपन्त्यन्तत एव तद्देवानृध्नुवन्ति तदाहुर्यदेकादशकपालः पुरोळाशो द्वावग्नाविष्णू कैनयोस्तत्र क्ळ्प्तिःक्लृप्तः का विभक्तिरित्यष्टाकपाल आग्नेयोऽष्टाक्षरा वै गायत्री गायत्रमग्नेश्छन्दस्त्रिकपालो वैष्णवस्त्रिर्हीदं विष्णुर्व्यक्रमत सैनयोस्तत्र क्लृप्तिः सा विभक्तिर्घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येतास्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति तद्यद्घृतं तत्स्त्रियै पयो ये तण्डुलास्ते पुंसस्तन्मिथुनम्मि-थुनेनैवैनंपुंसस्तन्मिथुनम्मिथुनेनैवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदारब्धयज्ञो वा एष आरब्धदेवतो यो दर्शपूर्णमासाभ्यां यजत आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मिन्बर्हिषि दीक्षेतैषो एका दीक्षा सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिर्द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवा ऽऽभी राध्नोति य एवं वेद॥1.1॥