"जैमिनीयं ब्राह्मणम्/काण्डम् ३/२०१-२१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
| title = जैमिनीयं ब्राह्मणम्/काण्डम् ३|काण्डम् ३]]
| author =
| translator =
| section = कण्डिका २०१-२१०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/१९१-२००|कण्डिका १९१-२००]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२११-२२०|कण्डिका २११-२२०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">तं ह जिग्युः। तं ह द्वितीयं तं ह तृतीयम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम्। द्विर् वै स्यो ऽयजत। तं त्यम् अजिनन्न् एवेति। तम् उ ह लोकं लोकम् एव दर्शयांचकारेमम् इमम् उ वाव लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु, हन्त यजा एवेति। तं होवाच - याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुर्, उलूखले सोमम् अभिषुषाव। स होवाच - यथैव त्वा कुत्सो न पश्येत्, तथेताद् इति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। तम् उ ह स्वयम् एवोपोत्थाय संवृश्च्योदके प्रचकार॥3.201॥