"नारदपुराणम्- पूर्वार्धः/अध्यायः ३९" इत्यस्य संस्करणे भेदः
Content deleted Content added
नारदपुराणम्- पूर्वार्धः using AWB |
No edit summary |
||
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%">सनक उवाच
भूयः शृणुष्व विप्रेन्द्र माहात्म्यं परमेष्ठिनः
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् 1.39.१
अहो हरिकथालोके पापघ्न पुण्यदायिनी
शृण्वतां वदतां चैव तद्भक्तानां विशेषतः २
हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः
नमस्करोम्यहं तेभ्यो यत्सङ्गान्मुक्तिभाग्नरः ३
हरिभक्तिपरा ये तु हरिनामपरायणाः
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः ४
संसारसागरं तर्तुं य इच्छेन्मुनिपुङ्गव
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ५
दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितोऽपि वा
समुद्धरति गोविन्दो दुस्तराद्भवसागरात् ६
स्वपन् भुञ्जन् व्रजंस्तिष्ठन्नतिष्ठंश्च वदंस्तथा
चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ७
अहो भाग्यमहो भाग्यं विष्णुभक्तिरतात्मनाम्
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ८
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वदतां शृण्वतां चैव सर्वपापप्रणाशनम् ९
आसीत् पुरा महीपालः सोमवंशसमुद्भवः
जयध्वज इति ख्यातो नारायणपरायणः १०
विष्णोर्देवालये नित्यं सम्मार्जनपरायणः
दीपदानरतश्चैव सर्वभूतदयापरः ११
स कदाचिन्महीपालो रेवातीरे मनोरमे
विचित्रकुसुमोपेतं कृतवान्विष्णुमन्दिरम् १२
स तत्र नृपशार्दूलः सदा सम्मार्जने रतः
दीपदानपरश्चैव विशेषेण हरिप्रियः १३
हरिनामपरो नित्यं हरिसंसक्तमानसः
हरिप्रणामनिरतो हरिभक्तजनप्रियः १४
वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः १५
कदाचिदुपविष्टं तं राजानं विष्णुतत्परम्
अपृच्छद्वीतिहोत्रस्तु वेदवेदाङ्गपारगः १६
वीतिहोत्र उवाच
राजन्परमधर्मज्ञ हरिभक्तिपरायण
विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि भरतर्षभ १७
सम्मार्जनपरो नित्यं दीपदानरतस्तथा
तन्मे वद महाभाग किं त्वया विदितं फलम् १८
संपादनेन वर्त्तीनां तैल संपादनेन च
संयुक्तोऽसि सदा भद्र यद्विष्णोर्गृहमार्जने १९
कर्माण्यन्यानि सन्त्येव विष्णोः प्रीतिकराणि च
तथापि किं महाभाग एतयोः सततोद्यतः २०
सर्वात्मना महापुण्यं नरेश विदितं च यत्
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत् २१
पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः
विनयावनतो भूत्वा प्रोवाचेदं कृताञ्जलि २२
जयध्वज उवाच
शृणुष्व विप्रशार्दूल मयैवाचरितं पुरा
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम् २३
आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेऽन्तरे
रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः २४
अयाज्ययाजकश्चैव सदैव ग्रामयाजकः
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी २५
निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः
दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याधितोऽभवत् २६
स कदाचिद्धनार्थं तु पृथिव्यां पर्यटन् द्विजः
ममार नर्मदातीरे श्वासकासप्रपीडितः २७
तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने
कामचारपरा सा तु परित्यक्ता च बन्धुभिः २८
तस्यां जातोऽस्मि चण्डालो दण्डकेतुरिति श्रुतः
महापापरतो नित्यं ब्रह्मद्वेषपरायणः २९
परदारपरद्र व्यलोलुपो जन्तुहिंसकः
गावश्च विप्रा बहवो निहता मृगपक्षिणः ३०
मेरुतुल्यसुवर्णानि बहून्यपहृतानि च
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ३१
पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः
कदाचित्कामसन्तप्तो गन्तुकामो रतिं स्त्रियः ३२
शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह
निशि रामोपभोगार्थं शयितं तत्र कामिना ३३
ब्रह्मन्स्ववस्त्रप्रान्तेन कियद्देशः प्रमार्जितः
यावन्त्यः पांशुकणिकास्तत्र सम्मार्जिता द्विज ३४
तावज्जन्मकृतं पापं तदैव क्षयमागतम्
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ३५
तेनापि मम दुष्कर्म निःशेषं क्षयमागतम्
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ३६
जारोऽयमिति मां तां च हतवन्तः प्रसह्य वै
आवां निहत्य ते सर्वे निवृत्ताः पुररक्षकाः ३७
यदा तदैव सम्प्राप्ता विष्णुदूताश्चतुर्भुजाः
किरीटकुण्डलधरा वनमालाविभूषिताः ३८
तैस्तु स्रंपेरितावावां विष्णुदूतैरकल्मषैः
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ३९
दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ४०
दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ
ततश्च भूभिभागेषु देवयोगेषु वै क्रमात् ४१
तेन पुण्यप्रभावेण यदूनां वंशसंभवः
तेनैव मेऽच्युता संपत्तथा राज्यमकण्टकम् ४२
ब्रह्मन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान्
भक्त्या कुर्वन्ति ये सन्तस्तेषां पुण्यं न वेद्म्यहम् ४३
तस्मात्संमार्जने नित्यं दीपदाने च सत्तम
यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः ४४
यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ४५
अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः
भक्तिमद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ४६
इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः
अनन्ततुष्टिमापन्नो हरिपूजापरोऽभवत् ४७
तस्माच्छृणुष्व विप्रेन्द्र देवो नारायणोऽव्ययः
ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ४८
अनित्या बान्धवाः सर्वे विभवो नैव शाश्वतः
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ४९
अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः
कायः सन्निहितापायो धनादीनां किमुच्यते ५०
जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम्
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ५१
सुलभं जाह्नवीस्नानं तथैवातिथिपूजनम्
सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ५२
दुर्लभा तुलसीसेवा दुर्लभः सङ्गमः सताम्
सर्वभूतदया वापि सुलभा यस्य कस्यचित् ५३
सत्सङ्गस्तुलसीसेवा हरिभक्तिश्च दुर्लभा ५४
दुर्लभं प्राप्य मानुष्यं न तथा गमयेद् बुधः
अर्चयेद्धि जगन्नाथं सारमेतद् द्विजोत्तम ५५
तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम्
हरिभक्तिपरो भूयादेतदेव रसायनम् ५६
भ्रातराश्रय गोविन्दं मा विलम्बं कुरु प्रिय
आसन्नमेव नगरं कृतान्तस्य हि दृश्यते ५७
नारायणं जगद्योनिं सर्वकारणकारणम्
समर्चयस्व विप्रेन्द्र यदि मुक्तिमभीप्ससि ५८
सर्वाधारं सर्वयोनिं सर्वान्तर्यामिणं विभुम्
ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ५९
ते वन्द्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः
येऽचयन्ति महाविष्णुं प्रणतार्तिप्रणाशनम् ६०
ये विष्णुभक्ता निष्कामा यजन्ति परमेश्वरम्
त्रिःसप्तकुलसंयुक्तास्ते यान्ति हरिमन्दिरम् ६१
विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने
पानीयं वा फलं वापि स एव भगवत्प्रियः ६२
विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये
ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम् ६३
ये यजन्ति स्पृहाशून्या हरिभक्तान् हरिं तथा
त एव भुवनं सर्वं पुनन्ति स्वाङिघ्रपांशुना ६४
देवपूजापरो यस्य गृहे वसति सर्वदा
तत्रैव सर्वदेवाश्च तिष्ठन्ति श्रीहरिस्तथा ६५
पूज्यमाना च तुलसी यस्य तिष्ठति वेश्मनि
तत्र सर्वाणि श्रेयांसि वर्द्धन्त्यहरहर्द्विज ६६
शालग्रामशिलारूपी यत्र तिष्ठति केशवः
न बाधन्ते ग्रहास्तत्र भूतवेतालकादयः ६७
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम्
यतः सन्निहितस्तत्र भगवान्मधुसूदनः ६८
यद् गृहे नास्ति देवर्षे शालग्रामशिलार्चनम्
श्मशानसदृशं विद्यात्तद् गृहं शुभवर्जितम् ६९
पुराणन्यायमीमांसाधर्मशास्राणि च द्विज
साङ्गा वेदास्तथा सर्वे विष्णो रूपं प्रकीर्तितम् ७०
भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम्
तेऽपि यान्ति परं स्थानं सर्वकर्मनिबर्हणम् ७१
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यंनामैकोनचत्वारिंशोऽध्यायः ३९
</span></poem>
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]
|