"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
 
{{सायणभाष्यम्|
‘परेयिवांसम् ' इति षोडशर्चं चतुर्दशं सूक्तं विवस्वतः पुत्रस्य यमस्यार्षम् ।' अङ्गिरसो नः पितरो नवग्वाः' इति षष्ठ्या अङ्गिरःपित्रथर्वभृगुलक्षणा लिङ्गोक्ता देवताः । ‘ प्रेहि' इत्याद्यास्तिस्रो लिङ्गोक्तदेवताकाः पितृदेवताका वा । ' अति द्रव सारमेयौ ' इत्यादिकस्तृचः सरमापुत्रौ यौ श्वानौ परलोकमार्गमभितः स्थितौ तद्देवताकः । शिष्टा यमदेवत्याः । ‘ यमाय सोमम्' इति त्रयोदश्याद्या अनुष्टुभः । ‘ यमाय मधुमत्तमम्' इत्येषा बृहती। आदितो द्वादश त्रिष्टुभः । तथा चानुक्रान्तं-- ‘परेयिवांसं षोळश यमो यामं षष्ठी लिङ्गोक्तदेवता पराश्च तिस्रः पित्र्या वा तृचः श्वभ्यां परा अनुष्टुभो बृहत्युपान्त्या' इति । गतः सूक्तविनियोगः । महापितृयज्ञे यमयागाख्या याज्या। सूत्रितं च - ‘ इमं यम प्रस्तरमा हि सीदेति द्वे परेयिवांसं प्रवतो महीरनु' (आश्व. श्रौ. [https://sa.wikisource.org/s/1aux २. १९]) इति ॥
 
 
पङ्क्तिः २९७:
 
== ==
{{टिप्पणी|
१०.१४.१
 
आहिताग्नेः दाहसंस्कारम् -- आदीप्ते स्रुवेण यामान्होमाञ्जुहोति परेयिवांसं प्रवतो महीरिति कौसू [https://sa.wikisource.org/s/1asa ८१.३४]
 
इह प्रजाः प्रयच्छन्स संगृहीत्वा प्रयाति च ।
ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ।। बृहद्देवता [https://sa.wikisource.org/s/1cll २.४८] ।।
}}
 
 
 
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्