"ऋग्वेदः सूक्तं १.३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९२:
यज्ञम् । वष्टु । धियाऽवसुः ॥१०
 
“सरस्वती देवी “वाजेभिः हविर्लक्षणैरन्नैर्निमित्तभूतैः । यद्वा । यजमानेभ्यो दातव्यैरन्नैर्निमित्तभूतैः । “नः अस्मदीयं “यज्ञं “वष्टु कामयताम् । कामयित्वा च निर्वहत्वित्यर्थः । तथा चारण्यककाण्डे श्रुत्यैव व्याख्यातं -- यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह' (ऐ. आ. [https://sa.wikisource.org/s/igc १. १. ४] ) इति । कीदृशी सरस्वती ।“पावका।“[https://www.angelfire.com/indie/vedastudy/pur_index17/pavaka.htm पावका] शोधयित्री “वाजिनीवती अन्नवत्क्रियावती 'धियावसुः कर्मप्राप्यधननिमित्तभूता । वाग्देवतायास्तथाविधं धननिमित्तत्वमारण्यककाण्डे श्रुत्या व्याख्यातं-यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः । ( ऐ. आ. १. १. ४ ) इति । ‘श्येनः सोमः' इत्यादिषु पञ्चत्रिंशत्संख्याकेषु देवताविशेषवाचिषु पदेषु ‘सरमा सरस्वती ' (नि. ५. ५. १८) इति पठितम् । एतामृचं यास्क एवं व्याचष्टे- पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः' (निरु. [https://sa.wikisource.org/s/703 ११.२६] ) इति॥ पवनं पावः शुद्धिः । पावं कायतीति पावका । ‘कै गै रै शब्दे ' । 'आतोऽनुपसर्गे कः' (पा. सू. ३. २, ३) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वेनान्तोदात्तत्वम् । यद्वा । पुनातीत्यर्थे ष्वुलि ‘प्रत्ययस्थात्कारपूर्वस्यात इदाप्यसुपः ' (पा. सू. ७. ३. ४४ ) इति इत्वस्याभावोऽन्तोदात्तत्वं च छान्दसं द्रष्टव्यम् । सरःशब्द सर्तेः असुनन्तत्वादाद्युदात्तः । मतुप्ङीपोः पित्त्वादनुदात्तत्वम् । वाजेभिः । वाजशब्दो वृषादित्वात् (पा. सू. ६. १. २०३ ) आद्युदात्तः । स हि अवृत्कृतत्वात् आकृतिगणः । वाजोऽन्नमास्विति वाजिन्यः क्रियाः । अत इनिठनौ ' ( पा. सू. ५. २. ११५) इति इनिप्रत्ययः । ताः क्रिया यस्याः सन्ति सा सरस्वती वाजिनीवती । ‘छन्दसीरः ' (पा. सू. ८. २. १५) इति मतुपो वत्वम् । मतुप्ङीपोः पित्त्वेनानुदात्तत्वात् इनेः प्रत्ययाद्युदात्तत्वमेव शिष्यते । यज्ञम् ।' यजयाच' (पा. सू. ३. ३. ९० ) इत्यादिना नङ्प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । वष्टु ।' वश कान्तौ । कान्तिरभिलाषः । ‘अदिप्रभृतिभ्यः शपः' (पा. सू. २. ४. ७२ ) इति शपो लुक् । निघातः । धियावसुः । धिया कर्मणा वसु यस्याः सकाशाद्भवति सा धियावसुः । ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तिरुदात्ता । ‘ बहुव्रीहौ प्रकृत्या पूर्वपदम् ' (पा. सू. ६. २. १) इति विभक्तिस्वर एव शिष्यते । छन्दसस्तृतीयाया अलुक् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३" इत्यस्माद् प्रतिप्राप्तम्