"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५०:
नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिऽअक्षम् । तविषम् । बृहन्तम् ॥१३
 
“कवयः मेधाविनः “यज्ञियासः यज्ञार्हा यज्ञसंपादिनो वा "देवाः “अजुर्यं जरावर्जितमहिंस्यं वा “वैश्वानरं विश्वनरहितं सूर्यात्मकम् “अग्निम् “अजनयन् उत्पादितवन्तः । स च देवैरुत्पादितोऽग्निः “नक्षत्रं कृत्तिकादि “प्रत्नं पुराणं “चरिष्णु चरणशीलं “यक्षस्य । यक्षतिः पूजार्थः । ‘प्रयक्षम् (ऋ. सं. [https://sa.wikisource.org/s/13dh २, ५, १] ) इत्यादौ दर्शनात् । यक्षस्य पूज्यस्य देवस्य “अध्यक्षं प्रत्यक्षं स्वामिनं वा “तविषं वृद्धं “बृहन्तं महान्तम् “अमिनत् हिंसितवान् । तेजसाभिभूतवानित्यर्थः ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्