"ऋग्वेदः सूक्तं १.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५८:
यज्ञम् । नः । यक्षताम् । इमम् ॥८
 
तच्छब्दोऽत्र सर्वनामत्वात् प्रसिद्धार्थवाची । “ता तौ याज्ञिकानां प्रसिद्धौ द्वावग्नी “उप "हृये आह्वयामि । “नः अस्मदीयम् “इमं “यज्ञं "यक्षतां तौ उभौ यजताम् अनुतिष्ठताम् । कीदृशौ । “सुजिह्वौ शोभनजिह्वोपेतौ प्रियवचनौ शोभनज्वालौ वा इत्यर्थः । "होतारा होमनिष्पादकौ “दैव्या दैव्यौ देवसंबन्धनौ । अत एव इमौ अग्नी दैव्यहोतृनामकौ "कवी मेधाविनौ ॥ तो तौ । द्वितीया द्विवचनस्य ‘सुपां सुलुक्' इति आकारः । एकादेश उदात्तेनोदात्तः' इत्युदात्तः। सुजिह्वौ । शोभना जिह्वा ययोस्तौ ।' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पूर्ववत् एकादेशस्वरः । संहितायाम् आवादेशः । वस्य लोपः शाकल्यस्य ' ( पा. सू ८. ३. १९) इति लोपः। होतारा। जुहोतेस्तृन् । द्विवचने ‘ ऋतो ङि ' ( पा. सू. ७. ३. ११०) इति गुणः । अप्तृन् इति उपधादीर्घः । पूर्ववत् आकारः । नित्त्वादाद्युदात्तः । दैव्या । देवानामिमौ । ‘देवाद्यञञौ' (पा. सू. ४. १. ८५. ३) इति यज् । ‘ यस्येति च ' (पा. सू. ६. ४. १४८) इति अकारलोपः । ‘ नित्यादिर्नित्यम्' (पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । पूर्ववत् आकारः । [httpshttp://sapuranastudy.wikisourcebyethost14.orgcom/spur_index24/131fyaksha.htm यक्षतां] यजताम् । लोटि शपि परतः • सिब्बहुलं लेटि' (पा. सू. ३. १. ३४ ) इति बहुलग्रहणात् सिप् । कुत्वचर्त्वषत्वानि ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३" इत्यस्माद् प्रतिप्राप्तम्