"न्यायकुसुमाञ्जलिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४०:
 
[कु.2.202] (71)ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्। किं परमेश्वरकल्पनयेति चेत्- (72)अत्रोच्यते-
:::: प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात्।
::: (73)तदन्यस्मिन्ननाश्वासान्न विधान्तरसम्भवः॥1॥
 
[कु.2.203] तथा हि...प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत्। यदि च तावन्मात्राधीना भवेत्, अप्रमाऽपि प्रमैव भवेत्। अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात्।
पङ्क्तिः ३५४:
[कु.2.258] परतन्त्रपुरुष (110)परम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत्- एतदपि नास्ति; सर्गप्रलयसम्भवात्। अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयतया युगपद्वृत्तिनिरोधानुपपत्तेः, वर्णादिव्यवस्थानुपपत्तेः, समयानुपलब्धौ(नुपपत्तौ)शाब्दव्यवहारविलोपप्रसङ्गात्, घटा(टपटा)दिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेवमिति चेत्-
 
[कु.2.259] उच्यते-
:::: वर्षादिवद् भवोपाधिः वृत्तिरोधः सुषुप्तिवत्।
:::: उद्भिद्वृश्चिकवद्वर्णाः मायावत्समयादयः॥2॥
::तत्पूर्वकत्वमात्रे सिद्धसाधनात्(नम्), अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वात्; वर्षादिदिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः। राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत्; तदभाव एव व्यावृत्तेः। तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालोपाधिनिबन्धन(धिप्रयुक्त)त्वात्तस्य, तदभाव एव व्यावृत्तौ को दोषः। न च तदनुत्पन्नमनश्वरं वा; अवयवित्वात्।
 
[कु.2.260] वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः। न हि-`अनियतविपाकसमयानि कर्माणी'ति तदानीं कृत्स्नान्येव भोगा(111)विमुखानि। न ह्यचेतयतः कश्चिदभोगो नाम; विरोधात्। कस्तर्हि तदानीं शरीरस्योपयोगः? तं प्रति न कश्चित्। तर्हि किमर्थमनुवर्तते? उत्तरभोगार्थम्; चक्षुरादिवत्। प्राणिति किमर्थं? श्वासप्रश्वाससन्तानेनाऽऽयुषोऽवस्थाभेदार्थम्; तेन भो(भेदे भो)गविशेषसिद्धेः।
Line ३६३ ⟶ ३६४:
 
[कु.2.262] वृश्चिकतण्डुलीय(113)कादिवत् वर्णादिव्यवस्थाऽप्युपपद्यते। यथा हि वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य, गोमयादाद्यः; तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य, तण्डुलकणादाद्यः; वन्हिपूर्वकत्वेऽपि वन्हेः, अरणेराद्यः; एवं क्षीरदधिघृततैलकदली(114)काण्डादयः तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषाम्, प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव। स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम्। गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना। न गतम्; योनिजेष्वेव व्यवस्थापनात्। मानसास्त्वन्यथापीति। गोमयवृश्चिकादिवदिदानीमपि किं[पि तथा किं] न स्यादिति चेन्न- कालविशेषनियतत्वात्कार्यविशेषाणाम्। न हि वर्षासु गोमयाच्छालूक इति हेमन्तेऽपि स्या(पि किं न स्या)त्।
 
 
[कु.2.263] समयोऽप्येकेनैव, मायाविनेव, व्युत्पाद्यव्युत्पादकभावावस्थितनानाकार्याधिष्ठानात् व्यवहारत एव सुकरः। यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकम्, `इदमानये'ति प्रयुङ्क्ते। स च दारुपुत्रकस्तथा करोति। तदा चेतनव्यवहारादिव (115)तद्धर्शी बालो व्युत्पाद्यते तथा- इहापि स्यात्। क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम्।
पङ्क्तिः ३७३:
[कु.2.266] तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः (119)क्व वर्तन्ताम्, कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवद्वेति।
 
[कु.2.267] (120)अपि च-
::::जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः।
::::ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम्॥3॥
::पूर्वं हि मानस्यः प्रजाः समभवन्; ततोऽपत्यैकप्रयोजनमैथुनसम्भवाः; ततः कामा(ला?)वर्जनीयसन्निधिजन्मानः; इदानीं देशकालाद्यवस्थया पशुधर्मादेव भूयिष्ठाः। पूर्वं चरुप्रभृतिषु संस्काराः (121) समाधायिषत; ततः क्षेत्रप्रभृतिषु; ततो गर्भादितः; इदानीं तु जातेषु लौकिक(लोक)व्यवहारमाश्रित्य। पूर्वं सहस्रशाखो वेदोऽध्यगायि; ततो व्यस्तः; ततः षडङ्ग एकः;i इदानीं तु क्वचिदेका शाखेति। (122)पूर्वं ऋतवृत्तयो ब्राह्मणाः प्राद्योतिषत; ततोऽमृतवृत्तयः; (123)ततो मृतवृत्तयः; सम्प्रति प्रमृतसत्यानृतकुसीदपाशुपाल्यश्ववृत्ति(124)वृत्तियो भूयांसः। पूर्वं दुःखन ब्राह्मणैरतिथयोऽलभ्यन्त; ततः क्षत्रियातिथयोऽपि संवृत्ताः; ततो (125)वैश्याऽऽवेशिनोऽपि; सम्प्रति शूद्रान्नभोजिनोऽपि। (126)पूर्वममृतभुजः; ततो विघसभुजः; ततोऽन्नभुजः; सम्प्रत्यघभुज एव। पूर्वं चतुष्पाद्धर्म (127)आसीत्; ततस्तनूयमाने तपसि त्रिपात्; ततो म्लायति ज्ञाने द्विपात्; सम्प्रति जीर्यति यज्ञे दानैकपात्। सोऽपि पादो (128)दुरागतादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिकण्टकशतजर्जरः प्रत्यहमपचीयमानवीर्यतया इतस्ततः स्खलन्निवोपलम्भते।
 
[कु.2.268] `इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते' इति चेन्न- स्मृत्यनुष्ठानानुमितानां शाखानामुच्छेददर्शनात्। स्वातन्त्र्येण स्मृतीनामाचारस्य च प्रामाण्यानभ्युपगमात्। मन्वादीनामतीन्द्रियार्थदर्शने प्रमाणाभावात्। आचारात् स्मृतिः, स्मृतेश्चाचार इत्यनादिताभ्युपगमे अन्धपरम्पराप्रसङ्गात्।
Line ३९६ ⟶ ३९७:
 
[कु.2.277] न चायमुच्छेदो ज्ञानक्रमेण; येन श्लाघ्यः स्यात्। अपि तु प्रमादमदमानाऽऽलस्यनास्तिक्यपरिपाकक्रमेण। (138)ततश्चोच्छेदान्तरं पुनः प्रवाहः, तदनन्तरं च पुनरुच्छेद इति सारस्वतमिव स्रोतः; अन्यथा कृतहानप्रसङ्गात्। (139)तथा च भाविप्रवाहवद् भवन्नप्ययमुच्छेदपूर्वक इत्यनुमीयते। स्मरति च भगवान्व्यासो गीतासु भगवद्वचनम्-
:::`यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
:::अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥
:::परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
:::धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥' गी. (4.7.8) इति।
 
[कु.2.278] कः पुनरयं महाजनपरिग्रहः? (140)हेतुदर्शनशून्यैर्गहणधारणार्थानुष्ठानादिः। स ह्यत्र न स्यात् ऋते निमित्तम्।
Line ४२२ ⟶ ४२३:
[कु.2.287] एतेन ब्रह्माण्डान्तरसञ्चारिवर्णव्यवस्थया सम्प्रदायप्रवर्तनमपास्तम्- सञ्चारशक्तेरभावात्। वर्षान्तरसञ्चरणमेव हि दुष्करम्। कुतो लोकान्तरसञ्चारः? कुतस्तरां च ब्रह्माण्डान्तरगमनम्?। `अणिमादिसम्पत्तेरेवमपि स्या'दिति चेन्न- (151)अत्रापि प्रमाणाभावात्। सम्भावनामात्रेण समाश्वासानुपपत्तेः। (152)अथ महाजनपरिग्रहान्यथानुपपत्तिरेवात्र प्रमाणमिति चेन्न- (153)एवम्भूतैककल्पनयैवोपपत्तौ भूयः कल्पनाया गौरवप्रसङ्गात्। विदेहनिर्माणश्क्तेरणिमादिविभूतेश्चावश्याभ्युपगन्तव्यत्वात्। अस्त्वेक एवेति चेत्- न तर्हीश्वरमन्तरेणान्यत्र समाश्वास इति।
 
[कु.2.288]
::: कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन्।
::: हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत्क्रीडति॥
:: :तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवम्।
::: विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्त्येष्वपि*॥4॥
 
:::::॥ इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥
 
== तृतीयस्तबकः ==
 
== चतुर्थस्तबकः ==
 
== पञ्चमस्तबकः ==
:::॥ इति न्यायकुसुमाञ्जलौ द्वितीयस्तबकः ॥
"https://sa.wikisource.org/wiki/न्यायकुसुमाञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्