"न्यायकुसुमाञ्जलिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७५०:
 
== चतुर्थस्तबकः ==
 
:::::: ॥श्रीः॥
:::::: ॥श्रीमते श्रीनिवासपरब्रह्मणे नमः॥
:::::: न्यायकुसुमाञ्जलौ चतुर्थस्तबकः
 
: ननु सदपीश्वरज्ञानं न प्रमाणम्, तल्लक्षणायोगात्; अनधिगतार्थगन्तुस्तथाभावात्। अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गात्। न च नित्यस्य सर्वविषस्यचानधिगतार्थता, व्याघातात्- अत्रोच्यते-
::: अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृक्।
::: यथार्थानुभवोमानमनपेक्षतयेष्यते॥1॥
 
[कु.4.502] नह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात्। न चोत्पद्यमानापि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात्। नापि पूर्वाविशिष्टतामात्रेणाप्रामाण्यम्; उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात्। तदनपेक्षत्वेन तु तस्य प्रमाण्ये तदुत्तरस्यापि तथैव स्यात्, अविशेषात्। छिन्ने कुठारादीनामिव, परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पादानुत्पादाभ्यां विशेषात्।
 
[कु.4.503] तत्् फलं प्रमैव न भवति गृहीतमात्रगोचरत्वात् स्मृतिवदिति चेन्न- यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात्। अनधिगतार्थत्व(213)निषेधे सिद्धसाधनात्, साध्यसमत्वाच्च। व्यवहारनिषेधे तन्निमित्तविरहोपाधिकत्वात्, बाधितत्वाच्च। नचानधिगतार्थत्वमेव तन्निमित्तम्, विपर्ययेपि प्रमाव्यवहारप्रसङ्गात्। नापि यथार्थत्वविशिष्टमेतदेव; धारावहनबुद्ध्यव्याप्तेः।
 
[कु.4.504] न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थ(र्थगन्तृ)त्वमुपपादनीयम्; क्षणोपाधीनामनाकलनात्। नचाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टताप्रकाशत इति कल्पनीयम्; स्वरूपेण तज्जननेऽनागतादिविशिष्टतानुभवविरोधात्; तज्ज्ञानेन तु तज्जनने सूर्यगत्यादीनामज्ञाने तद्विशिष्टतानुत्पादात्। नचैतस्यां प्रमाणमस्ति। नन्वनुपकार्यानुपकारकयोर्विशेषणविशेष्यभावे कथमतिप्रसङ्गो वारणीयः? व्यवच्छित्तिप्रत्यायनेन; व्यवच्छित्तौ स्वभावेन। अन्यथा तत्रा(वा)व्यनवस्थानादिति।
 
[कु.4.505] ज्ञाततैवोपाधिरिति चेन्न- निराकरिष्यमाणत्वात्। तत्सद्भावेपि वा स्मृतेरपि तथैव प्रामाण्यप्रसङ्गात्। जनकागोचरत्वेप्युत्तरोत्तरस्मृतौ पूर्वपूर्वस्मरणजनितज्ञाततावभासनात्।
 
[कु.4.506] अस्तु वा प्रत्यक्षे यथातथा। गृहीतविस्मृतार्थश्रुतौ का वार्ता? अप्रमैवासाविति चेत्- गतमिदानीं वेदप्रामाण्यप्रत्याशया। नह्यनादौ संसारे,`स्वर्गकामो यजेते'ति वाक्यार्थः केनचिन्नावगतः; सन्देहेऽपि प्रामाण्यसन्देहात्। न च तत्रापि कालकलाविशेषाः परिस्फुरन्ति। न चैकजन्मावच्छेदपरिभाषयेदं लक्षणम्, तत्राप्यनुभूतविस्मृतवेदार्थं प्रत्यप्रामाण्यप्रसङ्गात्।
 
[कु.4.507] कथं तर्हि स्मृतेर्व्यवच्छेदः? अननुभवत्वेनैव। यथार्थोह्यनुभवः प्रमेति प्रामाणिकाः पश्य(ठ)न्ति; `तत्वज्ञाना(214)'दिति सूत्रणात्; `अव्यभिचारि ज्ञान'मिति च। ननु स्मृतिः प्रमैव किं न स्यात् यथार्थज्ञानत्वात् प्रत्यक्षाद्यनुभूतिवदिति चेन्न, सिद्धे व्यवहारे निमित्तानुसरणात्। न च स्वेच्छाकल्पितेन निमित्तेन लोकव्यवहारनियमनम्; अव्यवस्थया लोकव्यवहारविप्लवप्रसङ्गात्। न च स्मृतिहेतौ प्रमाणाभियुक्तानां (प्रामाणव्यवहाराभियुक्तानां) महर्षीणां प्रमाणव्यवहारोऽस्ति; पृथगनुपदेशात्। उक्तेष्वनन्तर्भावादनुपदेश इति चेन्न- प्रत्यक्षस्यासाक्षात्कारिफलत्वानुपपत्तेः। लिङ्गशब्दादेश्च सत्तामात्रेण प्रतीत्यसाधनत्वादिति।
 
[कु.4.508] एवं व्यवस्थिते तर्क्यतेऽपि यत्- इयमनुभवैकविषया सती तन्मुखनिरीक्षणेन तद्यथार्थत्वायथार्थत्वे अनुविधीयमाना तत्प्रामाण्यमव्य(न)वस्थाप्य न यथार्थतया व्यवहर्तुं शक्यत (215) इति व्यवहारेऽपि पूर्वानुभव एव प्रमितिः, अनपेक्षत्वात्; न तु स्मृतिः, नित्यं तदपेक्षणात्। असमीचीने ह्यनुभवे स्मृतिरपि तथैव। नन्वेवमनुमानमप्यप्रमाणमापद्येत, मूलप्रत्यक्षानुविधानात्। न- विषयभेदात्। आगमस्तर्हि न प्रमाणम्, तद्विषयमानान्तरानुविधानात्। न- प्रमातृभेदात्। धारावाहिकबुद्धयस्तर्हि न प्रमाणम् आद्यप्रमाणानुविधानात्। न, कारणविशुद्धिमात्रापेक्षया प्रथमवदुत्तरासामपि पूर्वमुखनिरीक्षणाभावात्। कारणबलायातं काकतालीयं पौर्वापर्यमिति।
 
[कु.4.509] यदि हि (यदि तर्हि) स्मृतिर्न प्रमितिः, पूर्वानुभवे किं प्रमाणम्? स्मृत्यन्यथानुपपत्तिरिति चेन्न- तया कारणमात्रसिद्धेः। न तु तेनानुभवेनैव भवितव्यमिति नियामकमस्ति। अननुभूतेपि तर्हि स्मरणं स्यादिति चेत्- किं न स्यात्। नह्यत्र प्रमाणमस्ति। पूर्वानुभवाकारो(भवो)ल्लेखस्स्मृतेर्दृश्यते; सोऽन्यथा न स्यादिति चेत्- तत् किं बौद्धवत् विषयाकारान्यथानुपपत्त्या विषयसिद्धिस्त्वयापीष्यते? तथाभूतं ज्ञानमेव वा तत्सिद्धिः? आद्ये तद्वदेवानैकान्तिकत्वम्। न हि यदाकारं ज्ञानम्, तत्पूर्वकत्वं तस्येति नियमः; अनागतज्ञाने विभ्रमे च व्यभिचारात्। द्वितीये च (तु) स्मृतिप्रामाण्यमवर्जनीयम्। मा भूत् पूर्वानुभवसिद्धिः; किं नश्छिन्नमिति चेत्- न तर्हि स्मृत्यनुभवयोः कार्यकारणभावसिद्धिरिति।
न, तदप्रामाण्येऽपि पूर्वापरावस्थावदात्मप्रत्यभिज्ञानप्रामाण्यादेव तदुपपत्तेः। योऽहमन्वभवममुमर्थम्, सोऽहं स्मरामीति मानसप्रत्यक्षमस्तीति।
 
[कु.4.510] न च गृहीतग्राहित्वमीश्वरज्ञानस्य; तदीयज्ञानान्तरागोचरत्वाद् विश्वस्य। न च तदेव ज्ञानं कालभेदेनाप्रमाणम्; अनपेक्षत्वस्यापरावृत्तेः। तथापि वाऽप्रामाण्ये अतिप्रसङ्गादिति।
 
[कु.4.511] स्यादेतत्- अनुपकारकं (216) विषयस्य तदीयमेतदीयं वा न भवितुमर्हति, अविशेषात्। न च तस्येत्यनियतं तत्र प्रमाणम्, अतिप्रसङ्गात्। न च तदभिज्ञान(भिज्ञ)मन्तरेण तदुपकारस्योत्पत्तिः, तथाऽनभ्युपगमात्। अभ्युपगमे वा, कार्यत्वस्यानैकान्तिकत्वात्। अत्रोच्यते-
 
[कु.4.512]
::: स्वभावनियमाभावादुपकारोऽपि दुर्घटः।
::: सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा॥2॥
: विशेषाभावात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः। स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः। अवश्यञ्चैतदनुम(भ्युपग)न्तव्यम्, अतीतादिविषयत्वा(या)नुरोधात्। न हि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम्; असत्वात्। न च तद्धर्मसामान्याधारं किञ्चित् क्रियते इति युक्तम्; तेन तस्यैव विषयत्वप्राप्तेः। तादात्म्याद्विशेषस्यापि सैव ज्ञाततेति चेत्, तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते, तादात्म्यात्? घटाकारेण ज्ञायत एवासौ (रसः) इति चेत्- अथ रसाकारेण किं न ज्ञायते? तेन रूपेण ज्ञातताऽनाधारत्वादिति चेत्- न तर्हि वर्तमानसामान्यज्ञानेऽप्यतीतानागतादिज्ञानम्; तेनाकारेण प्राकट्यानाधारत्वादिति।
 
[कु.4.513] ननु क्रियया कर्मणि किञ्चित् कर्त्तव्यमितिव्याप्तेरस्त्वनुमानम् (2)। न;-
::: (अनैकान्त्या) अनेकान्तादसिद्धेर्वा न च लिङ्गमिह क्रिया।
::: तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके (3)॥3॥
: धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्। न हि शरसंयोगेन गगने किञ्चित् क्रियते; अन्त्यशब्दाभिव्यक्त्या (217) वा (शब्दे?)। स्पन्दाभिप्रायेण, असिद्धेः। व्यापाराभिप्रायेण, शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्। न हि तैः प्रमेये किञ्चित् क्रियते; अपि तु प्रमातर्येव। फलाभिप्रायेणापि तथा। अन्ततस्तेनैवानेकान्तात्, अनवस्थानाच्च। आशुविनाशिधर्माभिप्रायेण, द्वित्वादिभिरनियमात्। आशुकारकाभिप्रायेण, कर्मण्यसिद्धेः। कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम्। कर्तर्याशुकारकत्वस्य कर्मोपकारकत्वेनाव्याप्तेः; शब्दादिव्यापारैरेवानेकान्तात्।
 
[कु.4.514] (3) स्यादेतत्- अनुभवसिद्धमेव प्राकट्यम्। तथा हि ज्ञातोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत्। तदसत्। यथा हि- ` अर्थेनैव विशेषो हि निराकारतयाधियाम्'। तथा- क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम्॥4॥
::: किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि। तथैव गृहाण, घटज्ञानं पटज्ञानमितिवत् ज्ञातो घटो ज्ञास्यते ज्ञायते इति। कथमसम्बद्धयोर्धर्मधर्मिभाव इति चेत्- ध्वस्तो घट इति यथा। एतदपि कथमिति चेत्- नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि। तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र सम्बन्धान्तरेणेति चेत्- प्रकृतेऽप्येवमेव।
 
[कु.4.515] (4) एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम्। विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः। स्वाभाविकफलनिरूपकत्वञ्च तुल्यम्।
 
[कु.4.516] (5) ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथाऽनुपपत्त्या ज्ञातताकल्पनम्। तदप्यसत्-परस्पराश्रयप्रसङ्गात्। ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत्।
 
[कु.4.517] कुतश्च ज्ञानमतीन्द्रियम्? (1) इन्द्रियेणाऽनुपलभ्यमानत्वादिति चेत्। न। अनुमानोपन्यासे (नपक्षे) साध्याविशिष्टत्वात्। अ(218)नुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियिकोपलम्भाभावं गमयेत्। तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति।
 
[कु.4.518] (2) तथाविधज्ञातताऽनाश्रयत्वादिति चेन्न- आश्रयासिद्धेः। व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न- ज्ञानहेतुनैव तदुपपत्तेः। तस्यात्ममनस्संयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावान्नैवमिति चेन्न- तावन्मात्रस्य व्यवहाराहेतुत्वात्। अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात्। स्मरणान्यथाऽनुपपत्येति चेन्न- तस्याप्यसिद्धेः। अस्ति तावद्व्यवहारनिमित्तं किञ्चिदिति चेत्- किमतः?। न ह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः। तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत्- अस्त्विच्छा प्रत्यक्षसिद्धा; न तु ज्ञानम्। सैव कथं नियताधिकरणे (ण) उत्पद्यतामिति चेन्न- ज्ञानाभ्युपगमेऽपि तुल्यत्वात्। स्वहेतोः कुतश्चिदिति चेत्- तत एवेच्छाऽस्तु, किं ज्ञानकल्पनयेति। स्यादेतत्- प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते; न तु सुषुप्त्यवस्थायामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम्। तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयम्, यस्मिन् सति सुस्वापलक्षणमौदसीन्यमर्थविषयमात्मनो निवर्तते इति चेत्- हन्तैवं सुस्वापनिवृत्तिमनुभवनिद्धां प्रतिजानानेन ज्ञानमेवापरोक्ष्यमिष्यन्ते। अचेतयन्नेव हि सुषुप्त इत्युच्यते; अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति। तथा च कालात्ययापदिष्टो हेतुः।
 
[कु.4.519] एतेन (3) क्षणिकत्वादिति निस्तम्। अपिच किमिदं क्षणिकत्वं नाम? यद्याशुतरविनाशित्वम्, तदाऽनैकान्तिकम्। अथैकक्षणावस्थायित्वम्, तदसिद्धं प्रमाणाभावात्। ननु स्थायि विज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृशमेव गृण्हाति, अन्यादृशं वा, न वा कमपीति। न प्रथमः, तस्य क्षणस्यातीतत्वात्; प्रत्यक्षज्ञानस्य च वर्तमानाभवत्वात्। न चाऽतीतमेव वर्तमानतयोल्लिखति(219), भ्रान्तत्वप्रसङ्गात्। न द्वितीयः, विरम्यव्यापारायोगात्। प्रथमतोऽपि तथाऽभ्युपगमेऽनागतावेक्षणप्रसङ्गात्। न तृतीयः, ज्ञानत्वहानेरिति महाव्रतीयाः। तदसत्। ज्ञानं गृण्हातीत्यस्यैवाऽर्थस्याऽनभ्युपगमात्। अपि तु तदेव ग्रहणमित्यभ्युपगमः। तथा च ज्ञानं प्रथमे यमर्थमालम्ब्य जातम्, द्वितीयेऽपि क्षणे तदालम्बनमेव तन्नवेति प्रश्नार्थः। तत्र तदालम्बनमेव तदिति परमार्थः। नचैवं भ्रान्तत्वम्, विपरीतानवगाहनात्। तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः? तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत्- किमस्मिन्ननुपपन्नम्? न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति।
 
[कु.4.520] सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम्? इत्थं यथोच्यते-न स्वप्रकाशम्, वस्तुत्वादितरवस्तुवत्। न च ज्ञानान्तरग्राह्यम्, ज्ञानयौगपद्यनिषेधेन समानकालस्य तस्याभावात्। ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः। ग्राह्यकाले च ग्राहकस्यानागतत्वात्- इति चेत्- नन्वेवं ज्ञातताऽपि न प्रत्यक्षा स्यात्, क्षणिकत्वात्। कथम्? इत्थम्- न स्वप्रकाशा। वस्तुत्वात्, न जनकग्राह्या, अनागतत्वात्। विरम्यव्यापारायोगाच्च। न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् (221)। न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वात्- इति। क्षणिकत्वमेव तस्याः कुत इति चेत्- त्वदुक्तयुक्तेरेव। तथाहि- यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयन्ते अन्यं वा, न वा कमपीति। तत्र न प्रथमः, तस्य तदानीमसत्त्वात्। न द्वितीयः, अप्रतिसङ्क्रमात्। एकक्षणावगाहिनि च ज्ञाने तदन्यक्षणाश्रयज्ञातताफलत्वेन भ्रान्तत्वप्रसङ्गात्, रजतावगाहिनि पुरोवर्तिवृत्ति(222)ज्ञातताफल इव। न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात्। न तृतीयः, निःस्वभावताप्रसङ्गात्। न ह्यसौ तदानीं तदीयाऽन्यदीया वेति।
 
[कु.4.521] अतीतेनापि तेनैव क्षणेनोपलक्षिताऽनुवर्तते इति चेत्- एवं तर्हि वर्तमानार्थता प्रकाशस्य (223) न स्यात्। अन्यथा ज्ञानस्यापि तथानुवृत्तेः को दोषः? नहि वर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता नाम। अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात्।
 
[कु.4.522] अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति।
 
[कु.4.523] ननु (4) ज्ञानमैन्द्रियकं चेत्, विषयसञ्चारो न स्यात्,सञ्जातसम्बन्धत्वात्। न च जिज्ञासानियमान्नियमः, तस्याः संशयपूर्वकत्वात्, तस्य च धर्मिज्ञानपूर्वकत्वात्, धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाप्यनवस्थानादिति- तन्न- ज्ञाततापक्षेऽपि तुल्यत्वात्। तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापातात्; जिज्ञासानियमस्य च तद्वदनुपपत्तेः। नचेन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्- आत्मप्राकट्याव्यापनात्। स्वभावत एव काचिदसावजिज्ञासिताऽपि ज्ञायते, न तु सर्वेति चेत्- तुल्यम्। प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्- तुल्यमेतत्।
 
[कु.4.524] ननु (5) ज्ञानं न सविकल्पकग्राह्यम्, तस्य निर्विकल्पकपूर्वकत्वाद्; निर्विकल्पकगृगीतस्य तावत्कालानवस्थानात्; तस्य तेनैव विनाशात्। नापि केवलनिर्विकल्पकवेद्यम्, तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात्। न च समवायाभाववन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम्- तयोर्विशेषणांशस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः; प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीतविशेषणायाश्च बुद्धेर्विशेष्यानुपसङ्क्रमात्कथमेवं स्यात्? न; उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात्। ततस्तत्पुरस्सरं प्रथमत एव तज्जातीयस्य ज्ञानान्तरस्य विकल्पनात्। इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः। व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते (224)। अन्यथाऽनुमानादिविकल्पानामनुत्पादप्रसङ्गः; तद्गतस्य विशेषणस्याग्रहणादन्यगतस्य चानुपयोगात्किं लिङ्गग्रहणसहकारि स्यादिति। एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति।
 
[कु.4.525] स्यादेतत्- (6) विषयनिरूप्यं हि ज्ञानमिष्यते। न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति। न चागृहीतस्य विशेषणत्वम्। न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वम्, व्याघातादिति- न, बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वज्ञानोपनीतस्यैव मनसा वेदनात्। अन्यथाऽतीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात्। इयांस्तु विशेषः- तस्मिन् सति तद््बलादेव; असति तु तज्जनितवासनाबलात्। न चैवं सति स्मरणमेतत्; अगृहीतज्ञानगोचरत्वात्। न च विषयांशे तत्तथा स्यादिति युक्तम्- अवच्छेदकतया प्रागवस्थावदवभासनात्। न च प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम्; विरोधात्। अथ ग्रहणस्मरणयोः कियती सामग्री? अधिकोऽर्थसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य। अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम्? कारणान्तरनिरपेक्षेण संस्काराधिक(225)सन्निकर्षवतेन्द्रियेण जनितत्वात्। अथ कस्सन्निकर्षः? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति। मनसो निरपेक्षस्य बहिर्व्यापारेऽन्धबधिराद्यभावप्रसङ्ग इति चेत्- ज्ञानावच्छेदकं प्रति नायं दोषः। न च ज्ञानापेक्षया बहिरित्यस्ति। नापि तद्विषयापेक्षया निरपेक्षत्वम्, तस्यैव ज्ञानस्यापेक्षणात्।
 
[कु.4.526] अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम्? प्रत्यक्षमेव। यदसूत्रयत्- `ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' (न्याय.5-1-31) इति।
 
[कु.4.527] ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात्। नापि प्रमाणम्, अकारकत्वात्। अत एव च न तदश्रयः प्रमातेति- उच्यते-
::: मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता।
::: तदयोगव्यवच्छेदः प्रमाण्यं गौतमे मते॥5॥
: समीचीनो ह्यनुभवः प्रमेति व्यवस्तथितम्। तथाच अनित्यत्वेन विशेषणमनर्थकम्, नित्यानुभवसिद्धौ तद्व्यवच्छेदभ्यानिष्टत्वात्; असिद्धौ च व्यवच्छेद्याभावात्। न चेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात्। न तत् प्रमाकरणमिति त्विष्यत एव,प्रमया सम्बन्धाभावात्। तदाश्रयस्य तु प्रमातृत्वमेतदेव यत् तत्समवायः। कारकत्वे सतीति तु विशेषणं पूर्ववन्निरर्थकमनुसन्धेयम्। यद्येवम्, `आप्तप्रामाण्याद्' (न्याय.2-2-37) इति सूत्रविरोधः। तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेत्- न- निमित्तसमावेशेन व्यवहारसमावेशाविरोधात्। प्रमासमवायो हि प्रमातृव्यवहारनिमित्तम्; प्रमया त्वयायोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तम्। तदुभयञ्चेश्वरे। अत्रापि कार्ययेति विशेषणं पूर्ववदनर्थकमूहनीयम्।
 
[कु.4.528] स्यादेतत्- प्रमीयतेऽनेनेति प्रमाणम्, प्रमिणोतीति प्रमाता इति कारकशब्दत्वमनयोः। तथाच कथमकारकमर्थ इति चेत्- न- एतस्य व्युत्पत्तिमात्रनिमित्तत्वात्। प्रवृत्तिनिमित्तं तु यथोपदर्शितमेव; व्यवस्थापनात्। अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्; सर्वत्र स्वातन्त्र्याभावात्। करणव्यवहारस्त्वन्यत्र यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति। एवन्तर्हि पञ्चमप्रमाणाभ्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्गशब्दकरणत्वात्- न- साक्षात्कारिप्रमावत्तया प्रत्यक्षान्तर्भावात्; इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात्।
 
[कु.4.529] स्यादेतत्- तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात्। यदा खल्वेतदस्मदादिविभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थोऽप्यालम्बनमभ्युपेयम्। तथाच तदपि विपर्ययः, विपरीतार्थालम्बनत्वात्। तदनवगाहने वा अस्मदादेर्विभ्रमान् अविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्वमिति न- विभ्रमस्याप्रामाण्येऽपि तद्विषयस्य तत्त्वमुल्लिखतोऽभ्रान्तत्वात्। अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः; प्रमाणाभावात्। तथाप्यारोपितार्थवच्छिन्नज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्- न- यद् यत्र नास्ति तत्र तस्यावगतिरिति भ्रान्त्यर्थत्वात्। एतदालम्बनस्त चैवमुल्लखतः सर्वत्र यथार्थत्वात्। नहि न तद्रजतम्, नाऽपि तत्रासत्, नाऽपि तन्नावगतमिति।
[कु.4.530]
::: साक्षात्(226)कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ।
::: भूतार्थानुभवे निविष्टनिखिलप्रस्ता(227)रिवस्तुक्रमः॥
::: लेशादृष्टिनिमित्त(228)दुष्टिविगमप्रभ्रष्टशङ्कातुषः।
::: शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः॥6॥
:::::: ॥ इति न्यायकुसुमाञ्जलौ चतुर्थस्तबकः ॥4॥
 
== पञ्चमस्तबकः ==
"https://sa.wikisource.org/wiki/न्यायकुसुमाञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्