"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५३" इत्यस्य संस्करणे भेदः

{{header | title = ../ | author = वेदव्यासः | translator = | section = अध्या... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:१२, २५ जून् २०१२ इत्यस्य संस्करणं

← अध्यायः १ पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)
अध्यायः २
वेदव्यासः
अध्यायः ३ →

पापात्पतति कयोऽयं धर्माच्च श्रुणु मातले।
विशेषं न च पश्यामि पुणयस्यापि महीतले।।1।।
पुनः प्रजायते कायो यथा हि पतनं पुरा।
कथमुत्पद्दते देहस्तन्मे विस्तरतो वद ।।2।।
अथ नाराकिणां पुंसामधर्मादेव केवलात् ।
क्षणमात्रेण भूतेभ्यः शरीरमुपजायते।।3।।
तद्धद्धर्मेण चैकेन देवानामौपपादिकम्।
सद्दः प्रजायते दिव्यं शरीरं भूतसारतः।।4।।
कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम्।
तद्रूप परिणामेन विज्ञेयं हि चतुर्विधम् ।। 5।।
उद्भिज्जाः स्थाबरा ज्ञेयास्तृणगुल्मादिरुपिणः।
कृमिकीट पतङ्गादयाः स्वेदजा नाम देहिनः।।6।।
अणडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते ।
जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः ।। 7।।
तत्र सिक्ताजलेर्भूमिरर्कस्योष्मविपाचिता ।
वायुना धम्यमाना च क्षेत्रतां तु प्रपदयते।।8।।
तत्र चोप्तानि बीजानि संसिक्तान्यम्भसा पुनः ।
उपगम्य मृदुत्वं च मूलभावं व्रजन्ति च ।। 9।।
तन्मूलादङ्कुरोत्पत्तरङ्कुरात्पर्णासम्भवः ।
पर्णान्नालं ततः काण्डं काण्डच्च प्रभवः पुनः ।।10।।
प्रभावोच्च भवेत्क्षीरं क्षीरात्तण्डुल सम्भवः ।
तण्डुलाच्च ततः पक्वा भवन्त्योषधयस्तथा ।। 11।।
यवाद्दाः शालीपर्यन्ताः श्रेष्ठास्सप्तदश स्मृताः ।
ओष्धयः फलासाराढ्या शेषाः क्षुद्राः प्रकीर्तिताः ।। 12।।
एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः ।
शूर्पोलूखल पात्राद्दैः स्थालिकोदक बह्निभिः ।। 13।।
षडविधा हि स्वभेदेन परिणामं व्रजन्ति ताः ।
अन्योन्य रससंयोगादनेकस्वादतां गताः ।। 14।।
भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खादयं च भूपते।

तासां भेदाः षडङ्गाश्च मधुरादयाश्च षडगुणाः।।15।।
तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहेभिः ।
अन्तः स्थूलाशये सर्वप्राणान्स्थापयति क्रमात् ।।16।।
अपक्व भुक्तमाहारं स वायुः कुरुते द्विधा।
सम्प्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम्।। 17।।
अग्नेरुर्ध्व जलं स्थाप्य तदन्नं च जलापरि ।
जलस्याघः स्वयं प्राणः स्थित्वाग्निं धमते शनैः।।18।।
वायुना धम्यमानोऽग्निरत्युष्णं कुरुते जलम् ।
तदन्नमुष्णयोगेन समन्तात्पच्यते पुनः ।।19।।
द्विधा भवति तत्पक्वं पृथक्किट्टपृथग्रसः ।
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्वहिर्व्रजेत ।।20।।
कर्णाक्षि नासिका जिह्वा दन्तोष्ठप्रजनं गुदम्।
मलान्स्रवेदथ स्वेदो विण्मूत्रं द्वादश स्मृतः ।।21।।
ह्रत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समन्ततः ।
तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयते रसम्।।22।।
रसेन तेन ता नाडीः प्राणाः पूरयते पुनः ।
सन्तर्पयन्ति ता नाड्यः पूर्णा देहं समन्ततः ।।23।।
ततः स नाडीमध्यस्थः शारीरेणोष्मणा रसः ।
पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः ।।24।।
त्वग्मांसास्थिमज्जा मेदोरुधिरं च प्रजायते।
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः ।।25।।
स्नायोर्मज्जा तथास्थीनि निवसामज्जास्थि सम्भवा।
मज्जाकारेणा वैकल्यं शुक्रं च प्रसवात्मकम् ।।26।।
इति द्वादशचान्नस्य परिणामाः प्रकीर्तिताः ।
शुक्रं तस्य परीणामः शुक्रा देहस्य सम्मभवः ।।27।।
ऋतुकाले यदा शुक्रं र्निर्दोषं योनिसंस्थितम् ।
तदा तद्वायुसंसष्टं स्त्रीरक्तेनैकतां व्रजेत् ।।28 ।।
विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ।
नित्यं प्रविशते योनिं कर्मभि स्वैर्नियन्त्रितः ।।29।।
शुक्रस्य सहरक्तस्य एकाहात्कललं भवेत् ।
प़ञ्चरात्रेण यलले बुद्बदत्व ततो भवेत् ।।30।।
मांसत्वं मासमात्रेणा पञ्चधा जायते पुनः ।
ग्रीवा शिरश्च स्कन्धश्च पृष्टवंशस्तथोदरम्।।31।।
पाणीपादौ तथा पाश्वौ कटिर्गात्रं तथैव च ।
मासद्वयेन पर्वाणि क्रमशः सम्भवन्ति च ।।32।।
मुखं नासा च कर्णौ च मासैर्जांयन्ति पञ्चभिः ।
दन्तपङक्तिस्तथा जिह्वा जायते तु नखाः पुनः ।।33।।
कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरे पुनः ।
पायुर्मेढ्मुपस्थं च शिश्नश्चाप्युपजायते ।।34 ।।.
सन्धयो ये च गात्रेशु मासैर्जायन्ति सप्तभिः ।
अङगप्रत्यङ्गसम्पूर्ण शिरः केशसमन्वितम् ।।35 ।।
विभक्तावयवस्पष्टं पुनर्मासेऽष्टमे भवेत् ।
पञ्चात्मकसमायुक्तः परिपक्वः स तिष्ठति।।36।।
मातुराहार वीर्येण षडविधेन रसेन च ।
नाभिसूत्र निबद्धेन वर्द्धते स दिने दिने ।।37।।
ततः स्मृतिं लभेज्जीवः सम्पूर्णेऽस्मिञ्छरीरके ।
सुखं दुःखं विजकनाति निद्रां स्वप्नं पुराकृतम् ।।38।।
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया द्दृष्टान्यनेकधा ।।39।।
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ।
ततः श्रेय करिष्यामि येन गर्भे न सम्भवः ।।40।।
गर्भस्थश्चिन्तयत्येव महं गर्भाद्विनिः सृतः ।
अध्येष्यामि परं ज्ञानं संसार विनिवर्तकम्।।41-42।।
अवश्यं गर्भदुःखेन महता परिपीडितः ।
जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयेत् ।।43।।
यथा गिरिवराक्रान्त-कश्चिददुःखेन तिष्ठति।
तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ।।44।।
पतितः सागरे यद्वद् दुःखमास्ते समाकुलः ।
गर्भोदकेन सिक्ताङगस्तथास्ते व्याकुलात्मकः।।45।।
लोहकुम्भे यथा न्यस्तः पच्यते कश्चिग्निना ।
गर्भकुम्भे तथाक्षिप्तः पच्यते जठराग्निना ।।46।।
सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरन्तरम्।
यददुःखं जायते तस्य तद्गर्भेऽटगुणं भवेत।।47।।
गर्भवासात्परंवासं कष्टं नैवास्ति कुत्रचित् ।
देहिनां दुःखमतुलं सुघोरमपिसङ्कटम् ।।48।।
इत्येतद् गर्भदुःखं हि प्राणिनां परिकीर्तितम् ।
चरस्थिराणां सर्वेषामात्मगर्भानुरुपतः ।।49।।
गर्भात्कोटिगुणा पीडा योनियन्त्रनिपीडनात् ।
संमूर्च्छि तस्य जायते जायमानस्य देहिनः।।50।।
इक्षुवत्पीड्यमानस्य पापमुद्गर पेषणात् ।
गर्भानिष्क्रममाणस्य प्रबलैः सूतिवायुभिः ।।51।।
जायते सुमहद् दुःखं परित्राणं न विन्दति।
यन्त्रेण पीडयमानाः स्युर्निसाराश्च यथेक्षवः ।।52।।
तथा शरीरं योनिस्थं पात्यते यन्त्र पीडनात्।
अस्थिमद्वर्तुलाकारं स्नायुबन्धन वेष्टितम् ।।53।।
रक्तमांस वसालिप्तं विण्मूत्रद्रव्य भाजनम् ।
केशलोम नखाच्छन्नं रोगायतनमुत्तमम् ।।54।।
वदनैक महाद्वारं गवाक्षाष्टक भूषितम् ।
ओष्ठद्वयकपाटं तु दन्तजिह्वागलान्वतम्।।55।।
नाडीस्वेद प्रवाहं च कफपित्तपरिप्लुतम् ।
जराशोकसमाविष्ठं कालक्त्रानले स्थितम् ।।56।।
कामक्रोधसमाक्रान्तं श्वसनैः श्चोपमर्दितम्।
भोगतृष्णातुरं गूढं रागद्वेषवशानुगम् ।।57।।
सर्वाणताङगं प्रत्यंगं जरायुपरिवेष्टतम् ।
सङकटेनाविविक्वतेन योनिमार्गेण निर्गतम्।।58।।
विण्मूत्ररक्तसिक्ताङगं षट्कौशिक समुदगवम् ।
अस्थिपञ्जरसङ्घातं यज्ञमस्मिन्कलेवरे ।।59।।
शतत्रयं षष्टधिकं पञ्च पेशी शतानि च ।
सार्धाभिस्तितृभिश्छन्नं समन्ताद्रोमकोटिभिः ।।60।।
शरीरं स्थूलसूक्ष्माभिर्द्दश्याभिरन्ततः ।।
एताभिर्मासनाडीभिः कोटिभिस्तत्सन्वितम् ।।61।।
प्रस्वेदमशुचिं ताभिरन्तरस्थं च ते नहि।
द्वात्रिंशद्द शनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ।।62।।
पित्तस्य कुडमं ज्ञेयं कफस्यार्धाढकं तथा ।
वसायाश्च पलत्रिशत्तदर्धं कललस्य वा ।।63।।
वातार्बृदपलं ज्ञेयं पलानि दशमेदसः ।
पलत्रयं महारक्तं मज्जारक्ताशचतुर्गणाः ।।64।।
शुक्रर्धं कुडवं ज्ञेयं तदर्धं देहिनाः बलम् ।
मांसस्य चैकं पिण्डेन पलसाहस्रमुच्यते ।।65।।
रक्तं पलशतं ज्ञेयं विण्मूत्रं चा प्रमाणतः ।
इति देह गृहे राजन्वासः स्यान्नित्यमात्मनः।।66।।
असुद्धं च विसुद्धस्य कर्मबन्ध विनिर्मितम् ।
शुक्रंशोणित संयोगाद्देहः सञ्जायते क्वचित ।।67।।
नित्यं विण्मूत्रसंयुक्तरतेनायमशुचिः स्मृतः ।
यथा वै विष्ठया पूर्णः सान्तर्बहिर्घटः ।।68।।
शौचेन शोध्यमानोऽपि देहोऽयमशुचिस्ततः ।
ह्यद्दान्यप्यन्नपानानि यं प्राप्य सुरभीणि च।।69।।
देहानुगो मलः पूतिस्तदाधारः कथं शुचिः ।
देहः संशोध्यमानोऽपि पञ्चगव्य कुशाम्बुभिः ।। 72।।
वृष्यमाण इवाङगारो निर्मलत्वं न गच्छति ।
स्रोतांसि यस्य सततं प्रवहन्ति गिरेरिव ।।73।।
कफमूत्राद्दमशुचिः संदेहः शध्यते कथम् ।
सर्वाशुचि निधानस्य शरीरस्. न विद्दते ।। 74।।
शुचिरेक प्रदेशोऽपि शुचिर्नस्यादृतेऽपि वा ।
दिवा वा यदि वा रात्रौमृत्तोयः शोध्यते करः ।।75।।
तथापि शुचिभाङ् न स्यान्न विरज्यन्ति ते नराः ।
कायोऽयमग्रयधूपाद्दै र्यत्नेन्पि सुसंस्कृतः ।।76।।
न जहाति स्वभावं हि श्वपुच्छमिव नामितम्।
तथा जात्यैव कृष्णोर्णा न शुक्लोर्णा तु जायते ।।77।।
संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ।
जिघ्रन्नपि स्वदुरगन्धं पश्यन्नपि मलं स्वकम् ।।78।।
न बिरज्यतिलोकोऽयं पीडयन्नपि नासिकाम् ।
अहो मोहस्यमाहात्मयं येन व्यामोहितं जगत्।।79।।
जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते ।
स्वदेहस्य विगन्धेन विरज्यते नयो नरः ।।80।।
विरागकारणं तस्य किमन्यदुपदिश्यते ।
सर्वमेव जगत् पूतं देहमेवाशुचिः परम् ।।81।।
यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ।
गन्धलेपापनोदाय शौचं देहस्य कीर्तितम् ।।82।।
द्वयस्यापामात्पश्चाद्भावशुद्दया बिशुद्धयति ।
गङगातोयेन सर्वेणा मृद्भारैर्गात्रलेपनैः ।।83।।
मर्त्यो दुर्गन्धदेहोऽसौ भावदुष्टो न शुध्यति ।
र्तीर्थस्नानैस्तपोभिश्र दुष्टात्मा न च शुध्यति ।।84।।
स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति ।
अन्तर्भाव प्रदुष्टस्य विशतोऽपि हुताशनम् ।।85।।
न स्वर्गो नापवर्गश्र देहनिर्दहनं परम् ।
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ।।86।।
अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ।
मनसा भिद्दते वृत्तिरभिन्नेष्वपि वस्तुषु ।।87।।
अन्यथैव सती पुत्रं चिन्तयेदन्यथा पतिम् ।
यथा यथा स्वभावस्य महाभाग उदाहृतम्।।88।।
परिष्वक्तोऽपि यद्भार्यां भावहीनां न कारयेत् ।
नाद्दाद्विविधमन्नादयं रस्यानि सुरभीणि च ।।89।।
अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् ।
चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ।।90।।
भावतः शुचि शुद्धात्मा स्वर्ग मोक्षं च विदन्ति ।
ज्ञानमात्रम्भसा पुँसः सवैराग्यमृदा पुनः ।।91।।
संसारे क्लिश्यते तेन नरो लोभवशानुगः ।
गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च ।।92।।
तददुःखकथनार्थाय स्वर्गमोक्ष प्रसाधकम्।
येन तस्मिञ्छिवे ज्ञाते धर्मकामार्थसाधने ।।93।।
न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम् ।
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।।94।।
इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृती ।
दन्तजन्ममहद् दुःखं लौल्येन वायुना तथा
बालरोगैश्र विविधैः पीडा बालग्रेहैरपि ।
तृडवुभुक्षा परीताङ्गःक्वचित्तिष्ठति गच्छति ।।95।।
विण्मूत्र भक्षणादयं च मोहाद्बालः समाचरेत् ।
कौमारः कर्णवेधेन मातापित्रोश्र ताडनैः ।।96।।
अक्षराध्ययनादयैश्र दुःखं गुर्वादि शासनात् ।
प्रमत्तन्द्रियवृत्तेश्र कामराग प्रपीडिनः ।।97।।
रोगार्दितस्य सततं कुतः सौख्यं हि यौवने ।
ईर्ष्यया सुमहददुखं मोहाददुःखं प्रजायते ।।98।।
तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम्।
व्यवायाश्रितदेहस्य ये पुंसः शक्रबिन्दवः ।। 100।।
गर्भवासे महददुखं जन्मदुःखं तथा नृणाम् ।
सुबाल्यदुःख चाज्ञानं कौमारे गुरुशासनम् ।।101।।
यौवने कामरागाभ्यां दुःखं चैवेष्यया पुनः ।
कृषिवाणिज्य सेवाद्दै र्गोरक्षादिक कर्मभिः ।।102।।
वृद्धभावे च जरया व्याधिभिश्र प्रपीडनात् ।
मरणे च महददुखं प्रर्थनायां ततोऽधिकम्।।103।।
राजाग्नि जलदाघात चौरशत्रुभयं महत्।
अर्थस्यर्जन रक्षायां भयं नाशे व्यये पुनः।।104।।
कार्पण्यं मत्सरो दम्भो धनाधिक्ये भयं महत्।
अकार्ये सम्प्रधृत्तिश्र दुःखानि धनिनां सदा ।।105।।
भृत्यवृत्तिः कुसीदं च दासत्वं परतन्त्रता ।
इष्टनिष्टाभियोगश्र संयोगाश्च सहस्रशः ।।106।।
दुर्भिक्षं दुर्भगत्वं च मूर्खत्व च दरिद्रता ।
अधरोत्तरभागश्च नारकं राजविक्रमम् ।।107।।
अन्योनयाभिभवं दुःखंमन्योन्यतो भयं महत् ।
अन्योन्याच्च प्रकोपश्च राज्ञो दुःखं महीभृताम् ।।108।।
अनित्यतात्र भावानां कृतकाम्यस्य देहिनः ।
अन्योनय मर्मभेदाच्च अन्योनयकरपीडनात् ।।109।।
लुब्धाश्च पापभेदेन अन्योन्यस्य च भक्षणाम् ।
इत्यवमादिभिर्दुःखैर्यस्माद् भीतं चराचरम् ।।110।।
क्रोधेन च जयां देवीं योगज्ञां शप्तवान्प्रभुः ।
कामक्रोधौ स्थितौ यत्र तत्र दोषास्तदात्मकाः।।111।।
दुःखैराकुलितं ज्ञात्वा निर्विदं परमं व्रजेत्।
निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसम्भवः ।।112।।
ज्ञानेन तत्परं ज्ञानं शिवंमुक्तिमवाप्नुयात् ।
समस्तदुःखनिर्मुक्तः स्वस्थात्मा स सुखो तदा
सर्वज्ञः परिपूर्णाश्च मुक्तः इत्यभिधीयते ।।113।।