"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५४" इत्यस्य संस्करणे भेदः

{{header | title = ../ | author = वेदव्यासः | translator = | section = अध्या... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:१७, २५ जून् २०१२ इत्यस्य संस्करणं

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)
अध्यायः ३
वेदव्यासः


नमामि गोविन्दपदारविन्दं सदेन्दिरावन्दितमुत्तमाढयम् ।
जगज्जानानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम्।।1।।
एकदा मुनयः सर्वे ज्वज्ज्वलनसन्निभाः।
हिमवद्वासिने वेदवेदाङगपरिनिष्ठिताः ।।2।।
त्रिकालकज्ञा महात्मानो नानापुण्याश्रमाश्रयाः ।
महेन्द्रद्रिरता ये च ये च विन्घ्यनिवासिनः ।।3।।
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः।
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः।।4।।
धर्म्मारमयरता ये च दण्डकारण्यवासिनः।
जग्वूमार्गरता ये च ये च सत्यनिवासिनः ।।5।।
एते चान्ये च बहबः सशिष्या मुनयोऽमलाः ।
नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः ।।6।।
तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः ।
आसनेषु विचित्रेषु वृस्यादिषु यथाकृतम् ।।7।।
शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः ।
कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन्।।8।।
कथान्ते ततस्तेषां मुनीनां भाविवातात्मनाम्।
आजगाम महातेजाः सुतस्तत्र महाद्दुतिः ।।9।।
व्यासशिष्यः पुराणाज्ञो रोमहर्षणासंज्ञकः ।
तान्प्रणाम्य यथायोग्यं शौनकाद्दा महर्षयः ।
व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणाम् ।
तं पप्रच्छुर्महाभागाः शौनकाद्दास्तपोधनाः।। 11।।
पौराणिक !महाबुद्दे! रोमहर्षण!सुव्रत!।
त्वत्तः श्रुता महापुण्याः पौराणिक्यः कथाः पुरा।।12।।
साम्प्रतं च प्रवृताः स्म कथायां सक्षणा हरेः ।
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।।13।।
पुनः पुराणमाचक्ष्व हरिवार्तासमन्वितमम ।
हरेरन्या कथा सूत श्मशानसद्दृशी स्मृता ।।14।।
हरिस्तीरिथस्वरुपेणा स्वयं तिष्ठति तच्छुतम् ।
तीर्थानां पुमयदातृणां नामानि क्ल कीर्तय ।।15।।
कुत एतत्समुत्पन्नं केन वा पिरपाल्यते ।
कस्मिन्विलयमभ्येति जगदेतच्चराचरम् ।।16।।
क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः ।
नद्दश्र का पराः पुण्याः नृणां पापहराः शुभाः ।।17।।
एतत्सर्वं महाभाग कथयस्व यथाक्रमम् ।।18।।
साधु साधु महाभागाः साधु पृष्टं तपोधनाः ।
तं प्रणाम्य प्रवक्ष्यामि पुराणं पद्दसंज्ञकम्।।19।।
पाराशय परमपुरुषं विश्वववेदैकयोनि ।
विद्दाधारं विपुलमतिदं वेदवेदान्तवेद्दम्।।20।।
शश्वच्छान्तं स्वमतिविषयं शुद्धतेजो विशालं ।
वेदव्यासं विततयशसं सर्वदाऽहं नमामि ।।21।।
तत्राऽऽदौ सृष्टिखण्डं स्याद् भूमिखण्डं ततः परम्।
तृतीयं स्वर्गखण्डं च चतुर्थं ब्रह्माण्डकम् ।।22।।
पातालं पञ्चमं खण्डं षष्ठमुत्तरमेव च ।
क्रियाखण्डं सप्तमं स्यादित्येवं खण्डसप्तकम् ।।23।।
यस्मात्सर्वप्रयत्नेन पाद्मं श्रृणुत मन्मुखात् ।
तत्रा दिखण्डं वक्ष्यामि पुण्यं पापविनाशनम्।।
श्रृण्वन्तु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ।।24।।
।। ब्रह्माण्ड की उत्पत्ति।।
आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः ।
ज्ञायते तेन भगवान्परमात्मा सनातनः ।।1।।
नित्यं निरञ्जनं शान्तं निरमलं नित्य निर्मलम्।
आनन्दसागरं स्वच्छं यत्काङक्षन्ति मुमुक्षवः ।।3।।
सर्वज्ञं ज्ञानरुपत्वादनन्तमजमवव्यम् ।
श्वविनाशि सदास्वच्छमच्युतं व्यापकं महत् ।।4।।
सर्गकाले तु सम्प्राप्ते ज्ञात्वा तज्ज्ञानरुपकम् ।
आत्मलीनं विकारं च तत्सषटुमुपचक्रमे ।।5।।
तसामात्प्रधानमुद्भूतं ततशाचाऽपि महानभूत् ।
सात्त्वि को राजसश्चैव तामश्च त्रिधा महान्।।6।।
प्रधानेनावृतो ह्येव त्वचावीजमिवावृतम् ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।।7।।
त्रिविधोऽयमहङकारो महत्तत्वादजायत ।
यथाप्रधानेन महान्महता स तथवृतः ।।8।।
भूतादिस्तु विकुर्वाणाः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ।।9।।
शब्दमात्रं तथाकाशं भूतादिः सममावृणोत् ।
शब्दमात्रं तथाऽऽकाशं स्पर्शमात्रं ससर्ज ह।।10।।
बलवानभवद्वयुस्तस्य स्पर्शो गुणो मतः ।

आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ।।11।।
ततोबायुर्विकुर्वाणो रुपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्दते वायोस्तद्रूपगुणमुच्यते ।।12।।
स्पर्शमात्रस्तु वै वायूरुपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ।।13।।
सम्भवन्ति ततोऽम्भांसि रसमात्राणि तानि तु ।
रसमात्राणि चाम्भांसि रुपमात्रं समावृणोत् ।।14।।
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ।
तस्माज्जाता मही चेयं सर्वभूतगुणाधका ।।15।।
ससंघातोयतस्तस्मात्तस्य गनधो गुणो मतः ।
तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता ।।16।।
तन्मात्राण्यविशेषाणि विशेषाः क्रमशोऽपराः ।
भूततन्मात्रासर्गोऽयमहङकरात्तु तामसात् ।।17।।
कीर्तितस्तुसमासेन मुनिवर्यास्तपोधनाः ।
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश।।18।।
एकादशं मनश्चात्र कीर्तितं तत्वचिन्तकैः ।
ज्ञानेन्द्रियाणिपञ्चाऽत्रपञ्चकर्मन्द्रियाणि च ।।19।।
तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः ।।20।।
शब्दादिज्ञानसिद्धयर्थं बुद्धियुक्तानि पञ्च वै ।
पायूपस्थं हस्तपादौ कीर्तिता वाक्चपंचमी ।।21।।
विसर्गानन्दनादानगत्यक्तिकर्म तत्स्मृतम् ।
आकाशवायुतेजांसि सलिलं पृथिवी तथा ।।22।।
शब्दादिभिगुणैर्विप्राः संयुक्ता उत्तरोत्तरैः ।
नानावीर्याः पृथग्भूतास्ततस्ते संहति विना।।23।।
नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः ।
समेत्यान्योऽन्य संयोगपरस्परमथश्रयात् ।।24।।
एकसङ्घास्सलक्ष्याश्च सम्प्राप्यक्यमशेषतः ।
पुरुषाधिष्ठितत्ववाच्च प्रधानाऽनुग्रहेम च ।।25।।
महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते ।
तत्क्रमेणा विवृद्धं तु जलबुदबुदवत्सदा ।26।।
भूतेभ्योऽण्डं महाप्राज्ञा वृद्धं तदुदकेशयम् ।
प्रकृतं ब्रह्मरुपस्य विष्णोः स्थानमनुत्तमम् ।।27।।
तत्राव्यक्तस्वरुपोऽसौ विष्णुर्विश्वेश्वरः प्रभुः ।
ब्रह्मरुपं समास्थाय स्वयेव व्यवस्थितः ।।28।।
स्वदेजाण्डमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः ।।29।।
साद्रिद्वीपसमुद्राश्च तस्याभून्महदात्मनः ।
तस्मिन्नण्डेऽभवत्सर्वं सदेवासुरमानुषम् ।।30।।
अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम् ।
यत्पद्दं तद्धैममण्डमभूच्छीकेशवेच्छया ।।31।।
रजोगुणाधरो देवः स्वयमेव हरिः परः ।
ब्रह्मरुपं समास्थाय जगत्स्रष्टुं प्रवर्तते ।।32।।
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
नारसिंहदिरुपेणा रुद्ररुपेण सहरेत् ।।33।।
स ब्रह्मरुपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन्।
रामादिरुपं स तु गृह्य पाति बभूव रुद्रो जगदेतदत्तुम् ।।34।।
।। द्वीप-विभाग वर्णन ।।


नदीनां पर्वतानां च नामधेयानि सर्वशः ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ।।1।।
प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः ।
निखिलेन समाचक्ष्व कननानि च सत्तम् ।।2।।
पञ्चेमानि महाप्राज्ञ महाभूतानि सङ्ग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ।।3।।
भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ।।4।।
शब्दः स्पर्शश्च रुपं च रसो गन्धश्र पञ्चमः ।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभः ।।5।।
चत्वारोऽप्सु गुणा विप्रा गन्धस्तत्र न विद्दते ।
शब्दः स्पर्शश्र रुपं च तेजसोऽथ गुणास्त्रयः ।।6।।
शब्दः स्पर्शश्र वायोस्तु आकाशे शब्द एव च ।
एते पञ्च गुणा विप्रा महाभूतेषु पञ्चसु ।।7।।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठताः ।
अन्योन्यं नातिवर्तन्ते साम्यं भवति वै तदा ।।8।।
यदा तु विषमीभावमाविशान्ति परसापरम् ।
तदादेहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ।। 9।।
आनुपूर्व्या त्रिनिश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाण्यपरिमेयाणि तदेषां रुपमैश्वरम् ।।10।।
यत्र यत्र हि दृश्यन्ते धावन्ति पाञ्चभौतिकाः ।
तेषांमनुष्यास्तर्केणा प्रमाणानि प्रचक्षते ।।11।।
अचिन्त्याः खलु ये भावास्तान्न तर्केण साधयेत्।
सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः ।।12।।
परिमणडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः ।
नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः ।।13।।
पुरैश्चविधिधाकारैरम्यैर्जनपदैस्तथा ।
वृक्षैः पुष्पफलोपेतैः सम्पन्नो धनधान्यवान् ।।14।।
लवणेन समुद्रेण समन्तात्परिवारितः ।
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।।15।।
एवं सुदर्शनो द्वीपो दृश्यते चक्रमण्डलः ।
द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान्।।16।।
सवौषधीः समादाय सर्वतः परिवारितः ।
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते ।।17।।
।।भारतवर्ष के पर्वत और नदी ।।
यदिदं भारतं वर्ष पुण्यं पुण्यविधायकम् ।
तत्सर्वं न समाचक्ष्व त्वं हि नो बुद्दिमान्मतः ।।1।।
अत्र वः कीर्तयिष्यामि वर्ष भारतमुत्तमम् ।
प्रियमित्रस्य देवस्य मनोर्वौवस्वतस्य च ।।2।।
पृथोश्र प्राज्ञो वै न्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीषस्य मान्धतुर्नहुषस्य च ।।3।।
तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च ।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथ ।।4।।
कुशिकस्यैव राजर्षोर्गाधश्रैव महात्मनः ।
सोमस्य चैव राजर्षेदिलीपस्य तथैव च ।।5।।
अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव भूताना प्रियं भारतमुत्तमम् ।।6।।
ततो वर्ष प्रवक्ष्यामि यथाश्रुतमहो द्विजाः ।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवानपि ।।7।।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।
तेषां सहस्रशो विप्राः पर्वतास्ते समीपतः ।।8।।
अविज्ञाताः सारवन्तो विपुलाश्रित्रसानवः ।
अन्ये तु ये परिज्ञाता ह्रस्वा ह्रस्वौपजीविनः ।।9।।
आर्यम्लेच्छसधर्माणस्ते मिश्राः पुरुषद्विजाः ।
नदीं पिबन्ति विमता गङ्गां सिन्धुं सरस्वतीम् ।।10।।
गोदावरीं नर्मदां च बहूदां च महानदीम् ।
शतद्रु चन्द्रभागां च यमुनां च महानदीम् ।।11।।
दृषद्वतीं वितस्तां च विपाशां स्वच्छाबालुकाम् ।
नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् ।।12।।
इरावतीं वित्तस्तां च पयोष्णीदेविकामपि ।
वेदस्मृतिं वेदाशिरां त्रिदिवां सिन्धुलाकृमिम् ।।13।।
करीषिणीं चित्रबहां त्रिसेनां चैव निम्नगाम् ।
गोमतींधूतपापां च चन्दनां च महानदींम् ।।14।।
कौशिकीं त्रिदिवां ह्रद्दां नाचितां रोहितारणीम् ।
रहस्यां शतकुम्भां च सरयूं च द्विजोत्तमाः ।।15।।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ।
शरावतीं पयोष्णीं च भीमां भीमरथीमपि ।।16।।
कावेरीं चुलुकां चापि तापीं शतमलामपि ।
नीवारां महितां चापि सुप्रयोगां तथा नदीम् ।।17।।
पवित्रां कृष्णालां सिन्धुं वाजिनीं पुरमालिनीम् ।
पूर्वाभिरामां वीरां च भीमां मालावतीं तथा ।।18।।
पलाशिनीं पापहरां महेन्द्रां पाटलावतीम् ।
करिषिणीमसिक्नीं च कुशचीरीं महानदीम् ।।19।।
मरुतां प्रवरां मेनां हेमां घृतवतीं तथा ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ।।21।।
उपेन्द्रां बहुलां चैव कुचीरामम्बुवाहिनीम् ।
वैनन्दीं पिङ्गलां वेणां तुङ्गवेगां महानदीम् ।।22।।
विदिशां कृष्मवेणां च ताम्रां च कपिलामपि ।
धेनुं सकामां वेदस्वां हविःस्रवां महापथाम् ।।23।।
क्षिपां च पिच्छलां चैव भारद्वाजीं च निम्नगाम् ।
कौर्णिकीं निम्नगां शोणां बाहुदामय चन्द्रमाम् ।।24।।
दुर्गामन्तः शिलां चैव ब्रह्रमेध्यां दृषद्वतीम् ।
परोक्षामथरोहीं च तथा जग्बूनदीमपि ।।25।।
सुनासां तमसां दासीं सामान्यां वरणामसिम् ।
नीलां धृतिकरीं चैव पर्णाशां च महानदीम् ।।26।।
मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वतीम् ।
एताश्चान्याश्च बहुला महानद्दो द्विजर्षभा ।।27।।
सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च सत्तमाः ।।28।।
चित्रोत्पलां चित्ररथामतुलां रोहिणीं तथा ।
मन्दाकिनीं वैतरणीं कोकां चापि महानदीम् ।।29।।
शुक्तिमतीमनङ्गां च तथैव वृषकाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ।।30।।
कुमारीमृषितुल्यां च मारिषां च सरस्वतीम् ।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च सत्तमाः ।।31।।
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः ।
तथा न नद्दः सुप्रकाशाः शतशोऽथ सहस्रशः ।।32।।
इत्येतास्सरितो विप्राः समाख्याता यथास्मृति ।
अतऊद्धर्वं जनपदान्निबोधत वदाम्यहम् ।।33।।
तत्रेमे कुरुपाञ्चलाः शाल्वमात्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च बौधा मालास्तथैव च ।।34।।
मत्स्याः कुशट्टाः सौगन्ध्याः कुत्सपाः काशिकोशलाः ।
चेदिमत्स्यकरुषाश्च भोजाः सिन्धुपुलिन्दकाः ।।35।।
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पञ्चालाः कोशलाश्चैव नैकपृष्ठयुगन्धराः ।।36।।
बोधमद्राः कलिङगाश्च काशयोऽपरकाशयः ।
जठराः कुकुराश्चैव सुदशार्णाः सुसत्तमाः ।।37।।
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ।
गोन्तामल्लकाः पुण्ड्र विदर्भा नृपवाहिकाः ।।38।।
अश्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः ।
अधिराज्य कुशटटाश्च मल्लराष्ट्रश्च केरलाः ।।39।।
अङ्गा बङ्गा कलिङ्गाश्च यकृल्लोमान एव च ।
मल्लाः सुदेष्णाः प्रह्लादा महिषाः शशकास्तथा ।।41।।
बाह्लिकावाटधानाश्च अभीराः कालतोयकाः ।
अपरान्ताः परान्ताश्च पङ्कालाश्चर्मचण्डिकाः ।।42।।
अटवीशेखाराश्चैव मेरुभूताश्च सत्तमाः ।
कुटटापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः ।
अन्धाश्च बहवो विप्रा अन्तर्गिर्यस्तथैव च ।।44।।
बहिगिर्य्योऽङगमलदा मगधामालवार्घटाः ।
सत्वराः प्रबृषेया भार्गवाश्च द्विजर्षभाः ।।45।।
पुण्ड्राभार्गाः किराताश्च सुदेष्मा भासुरास्तथा ।
शका निषादा निषधास्तथैवानर्तनैऋताः ।।46।।
पूर्णलाः पूतिमस्तयाश्च कुन्तलाः कुषकास्तथा ।
तरिग्रहाश्शूरसेना ईजिकाः कल्पकारणाः ।।47।।
तिलभागामसाराश्च मधुमत्ताः ककुन्दकाः ।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ।।48।।
अभीसाराः कुद्रुताश्च सौरिला बाह्लिकास्तथा।
दर्वी च मालवादर्वावातजामरथोरगाः ।।49।।
बलरटटास्तथा विप्राः सुदामानः सुमल्लिकाः ।
बन्धा करीकषाश्चैव कुलिन्दा गन्धिकास्तथा ।।50।।
वना यवोदशाः पार्श्वरोमाणः कुशबिन्दवः।
काच्छा गोपालकच्छाश्च जाङगलाः कुरुवर्णका ।।51।।
किराता बर्बराः सिद्धाः वैदेहास्ताम्रलित्तिकाः ।
ओड्रम्लेच्छाः ससैरिन्द्रा पावतीयाश्च सत्तमाः ।।52।।
अथऽपरे जनपदा दक्षिणा मुनिपुङ्गवाः ।
द्रविडाः केरलाः प्राच्यामूषिकाबालमूविकाः ।।53।।
कर्णाटका माहिषका विकन्धा मूषिकास्तथा ।
झल्लिकाः कुन्तलाश्चैव सौह्रदानलकाननां ।।54।।
कौक्कुटकास्तथा बोलाः कोङ्कणा मणिवालकाः ।
समङ्गाः कनकाश्चैव कुकुराङ्गारमारिषाः ।।55।।
ध्वजिन्युत्सवसङ्केतास्त्रिवर्गा माल्यसेनयः ।
व्यूढकाः कोरकाः प्रोष्टाः सङ्गवेगधरास्तथा ।।56।।
तथैव विन्द्दरुलिकाः पुलिन्दा बल्वलै सह ।
मालवामलराश्चैव तथैवापरवर्तकाः ।।57।।
कुलिन्दाः कालदाश्चैव चण्डकाकुरटास्तथा ।
मृशलास्तनवालाश्च सतीर्थाः पूतिसृञ्जयाः ।।58।।
अनिदायाः शिवाटाश्च तपनाः सूतपास्तथा ।
ऋषिकाश्च विदर्भाश्च स्तङ्गनापरतङ्गकाः ।।59।।
उत्तराश्चपरे म्लेच्छा जना हि मुनिपुङगवा ।
जवनाश्च सकाङ्गोजा दारुणा म्लेच्छजातयः ।।60।।
सकृघहाः कुलटयाश्च हूणाः पारिसिकैः सह ।
तथैव रमणाश्चान्यास्तथा च दशमालिकाः ।।61।।
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
शूराभीराश्च दरदाः काश्मीराः पशुभिः सह ।।62।।
खाण्डीकाश्चतुषाराश्च पद्दागा गिरिगह्वराः ।
आद्देयाः सभिरादाजास्तथैव स्तनपोषकाः ।।63।।
द्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः ।
तोमराहन्यमानाश्च तथैव करभञ्जकाः ।।64।।
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।
उद्देशमात्रेण मया देशाः सङ्कीर्तिता द्विजाः ।।65।।
यथागुणाबलं चापि त्रिवर्गस्य महाफलम् ।66।
।। काल और लोक स्थिति निर्णय ।।
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायूषः सूत बलं चापिं शुभाशुभम् ।।1।।
अनागतमतिक्रान्तं वर्तमानं च सत्तम् ।
आचक्ष्व नो विस्तरेण हरिवर्षं तथैव च ।।2।।
चत्वारि भारते वर्षे युगानि मुनिपुङगवाः ।
कृतं त्रेता द्वापरं च कलिश्च द्विजसत्तमाः ।।3।।
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं द्विजाः ।
तत्पश्चादद्वापरं चाथ ततस्तिष्यः प्रवर्तते ।।4।।
चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः ।
आयुः सङख्या कृतयुगे सङ्ख्याता हि तपोधनाः ।।5।।
तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुः ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति साम्प्रतम्।। 6।।
त्तप्रमाणस्थितिर्ह्रास्तितिष्ये तु मुनिपुङगवाः ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च।।7।।
महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः ।
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ।।8।।
द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाः ।
प्रजायन्ते च जाताश्च मुनियो वै तपोधनाः ।।9।।
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शा वपुष्मन्तो महावीर्य्या धनुर्धराः ।।10।।
वीरा हि युधि जायन्ते क्षत्रियाः शूरसंमताः ।
त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ।।11।।
सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे ।
महोत्साहा वीर्यवन्तः परस्परवधैषिणः ।।12।।
तेजसान्धेन संयुक्ताः क्रोधनाः पुरुषाः किलः ।
लुब्धाश्चानृतकाश्चैव तिष्ये जायन्ति भो द्विजाः ।।13।।
ईर्या मानस्तथा क्रोधो मायाऽसूया तथैव च ।
तिष्ये भवन्ति भूतानां रागोलोभश्च सत्तमाः ।।14।।
संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगे ।
गुणोत्तरं हैमवतं हरिवर्ष ततः परम् ।।15।।
।।पुष्कर तीर्थ माहात्म्य ।।
अनेन तव धर्मज्ञ! प्रश्रयेण दमेन च ।
सत्येन च महाभाग !तुष्टोऽस्मि तव सर्वशः ।।1।।
यस्येदृशस्ते धर्मोऽयं पितरस्तारितास्त्वया ।
तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ ।।2।।
प्रीतिम वर्द्धते तेऽद्द ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि नरश्रेष्ठ!तस्य दाताऽस्मि तेऽनघ ।।3।।
वेदवेदाङ्गतत्त्वज्ञ सर्वलोकाभिपूजित ।
कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम् ।।4।।
यदित्वहमनुग्राह्रस्तव धर्मभृतां वर ।
प्रक्ष्यामि हृत्स्थं सन्देहं तन्मे त्वं वक्तु मर्हसि ।।5।।
अस्ति मे भगन्कश्चित्तीर्थे यो धर्मसंशयः ।
तदहं श्रोतुमिच्छामि पृथक्सङ्कीर्तनं त्वया ।।6।।
प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम!।
किं फलं तस्य विप्रर्षे ! तन्मे ब्रूहि तपोधन ।।7।।
कथयिष्यामि तदहमृषीणां मत्परायणम् ।
तदेकाग्रमनास्तात श्रृणु तीर्थेषु यत्फलम् ।।8।।
यस्य हस्तौ च पादो च मनश्चैव सुसंयुतम् ।
विद्दा तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।।9।।
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियताः शुचिः ।
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते ।।10।।
अकल्किको निराहारोऽलब्धाहारो जितेन्द्रियः ।
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ।।11।।
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।।12।।
ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ।।13।।
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासम्भरविस्तराः ।।14।।
प्राप्यन्ते पार्थिवैरेते समृद्दैर्वा नरैःक्वचित् ।
न निर्धनैर्नगणैरेकात्मभिरसाधनैः ।।15।।
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर! ।
तुल्यो यज्ञफलैः पुण्यैस्तं निवोध महीपते !।।16।।
ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर! ।
तीर्थाभिगमनं पुण्यं यज्ञरपि विशिष्यते ।।17।।
अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।।18।।
अग्निष्टोमादिभिर्यज्ञैरिष्टवा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभगमनेन यत् ।।19।।
नृलोके देवलोकस्य तीर्थ त्रैलोक्यविश्रुतम् ।
पुष्करं तीर्थमासाद्द देवदेवसमो भवेत् ।।20।।
दशकोटिसहस्राणि तीर्थानां वै महीपते !।
सान्निध्यं पुषकरे येषां त्रिसन्ध्यं सूर्यवंशज।।21।।
आदित्या वसवो रुद्राः साध्याश्च समरुदगणाः ।
गन्धर्वाप्सरसश्चैब तत्र सन्निहिताः प्रभो! ।।22।।
यत्र देवास्तपस्त्प्त्वा दैत्या ब्रह्मर्षयस्तथा ।
दिव्ययोगा महाराज पुण्येन महता द्विजाः ।।23।।
मनसाऽप्यभिकामस्य पुष्कराणि मनीषिणः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ।।24।।
अस्मिंस्तीर्थे महाभाग?नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसंमतः ।।25।।
पुष्करेषु महाभाग? देवाः सर्षिपुरोगमाः ।
सिद्धिं परमिकां प्राप्ताः पुण्येन महताऽन्विताः ।।26।।
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।
अश्वमेघादृशगुणं प्रवदन्ति मनीषिणः ।।27।।
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनैति पूजितांल्लोकान्ब्रह्मणः सदने स्थितान्।।28।।
सायं प्रातः स्मरेद्दस्तु पुषकराणि कृताञ्जलिः ।
उपस्पृष्टं भवेत्ते न सर्वतीर्थेषु पार्थिव ।।29।।
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा।
पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ।।30।।
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करो राजंस्तीर्थानामादिरुच्यते ।।31।।
ऊष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ।।32।।
यस्तु वर्षशतं पूर्णमग्नमहोत्रमुपाचरेत् ।
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत्।।33।।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुषकरम् ।
त्रीणि श्रृङगाणि शुभ्राणि त्रीणि प्रस्रवणानि च ।।34।।
पुष्कराण्यादितीर्थानि न विद्द्मस्तत्र कारकम् ।।35।।
उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः ।
समुक्तः सर्वपापेभ्यः सर्वक्रतुफलं लभेत् ।।36।।
।। तीर्थाश्रममाहात्म्यम् ।।
प्रदक्षिणमुपावृतो जम्बूमार्गे समाविशेत् ।
जम्बूमार्गं समाविश्य पितृदेवर्षिपूजितम् ।।1।।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।
तत्रोष्य रजनीः पञ्च षष्ठे कालेऽश्नुवन्नरः ।।2।।
न दुर्गतिमवपाप्नोति सिद्धिंचाऽऽप्नोत्यनुत्तमाम् ।
जम्बूमार्गादुपावृत्तो गच्छेत्त दुलिकाश्रमम् ।।3।।
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ।
अगस्त्याश्रममासाद्द पितृदेवार्चने रतः ।।4।।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ।
शाकवृत्तिः फलैर्वापि कौमारं विन्दते परम् ।।5।।
कन्याश्रमं समासाद्द श्रीपुष्टं लोकपूजितम् ।
धर्मारण्यं हि तत्पुण्यमाद्दं च पार्थवर्षभ ।।6।।
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्र ! मुच्यते ।
अर्चयित्वापि तन्देवान्प्रयतो नियताशनः ।।7।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
प्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ।।8।।
हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वैः ।
महाकालमतो गच्छेन्नियतो नियताशनः ।।9।।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।
ततो गच्छेत् धर्मज्ञ स्थानं तीर्थमुमापते ।।10।।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ।
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।।11।।
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ।
समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम।।12।।
नर्मदां तु समासाद्द नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितृन्देवानग्निष्टोमफलं लभेत् ।।13।।

।।नर्मदा माहात्म्य वर्णन ।।
वसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् ।
नमैदेति च विख्यातं पापपर्वतदारणम् ।।1।।
भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद।
नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम् ।।2।।
कथमेषा महापुण्या नदी सर्वत्र विश्रुता ।
नर्मदा नाम विख्याता तन्मम ब्रूहि नारद ।।3।।
नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
तारयेत्सर्वभूतानि स्थावराणि चराणि च ।।4।।
नर्मदायास्तु महात्म्यं वसिष्ठक्तं मया श्रुतम् ।
तदतद्धि महाराज! सर्व हि कथयामि ते ।।5।।
पुण्या कनखले गङ्गाकुरुक्षेत्रे सरस्वती ।
ग्रमे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्म्मदा ।।6।।
त्रिभिः सारस्वतं तोयं सप्तहेन यामुनम् ।
सद्दः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ।।7।।
कलिङ्गदेशे पश्चर्द्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषुलोकेषु रमणीया मनोरमा ।।8।।
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा महाराज सिद्धिं च परमां गताः ।।9।।
तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ।।10।।
जनेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि ।
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ।।11।।
पर्वतस्य समन्तात्तु रुद्रकोटिः प्रतिष्ठिता ।
स्नानं यः कुरुते तत्र गन्धमाल्यानुलेपनम।।12।।
प्रीता तस्य भवेत्सर्वा रुद्रकोटिर्न संशयः ।
पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः ।।13।।
तत्र स्नात्वा शूचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।
पितृकार्य तु कुर्वीत विधिदृष्टेन कर्मणा ।।14।।

।।वर्णाश्रम का सामान्य धर्म ।।
कर्मयोगः कथं सूत! येन चाराधितो हरिः ।
प्रसीदति महाभाग! वद नो वदतांवर ! ।।1।।
येनासौ भगनवानीशः समाराध्यो मुमुक्षुभिः ।
तद्वदाखिललोकानां रक्षणं धर्मसङगतम् ।।2।।
तं कर्मयोगं वद नः सूतमूर्तिमयस्तु यः।
इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः ।।3।।
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ।
ऋषिभिरग्निसङकाशैर्व्यासस्तानाह तच्छृणु ।।4।।
श्रृणुध्वमृषयः सर्वेवक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम्।।5।।
आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम् ।
ऋषिणां श्रृण्वतां पूर्वं मनुराह प्रजापतिः ।।6।।
समाहितधियो यूय श्रुणुध्वं गदतो मम ।।7।।
कृतोपनयनो वेदानधीयीत द्विजोत्तमः ।
गर्भाष्टमेऽष्टमेवाऽब्दे स्वसूत्रोक्तविधानतः ।।8।।
दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ।।9।।
कार्पासमुपवीतार्थं निमितं ब्रह्मणा पुरा ।
ब्रह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा ।।10।।
सदोपवीती चैव स्यात्सदाबद्धशिखो द्विजः ।
अन्यथा यत्कृतं कर्म तद्भवत्ययथाकृतम् ।।11।।
वसीताविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लं तान्तवमुत्तमम् ।।12।।
उत्तरं तु समाम्नातं वासः कृष्णाजिनं शुभम्।
अभावे गावयमपि रौरवं वा विधीयते ।।13।।
उदधृत्य दक्षिणांबाहुं सव्यबाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ।।14।।
सव्यवाहुं समुदधृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि योजयेत् ।।15।।
अग्न्यवारे गवां गोष्ठे होमे तर्त्य तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ।।16।।
देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवाम्बुभिः ।
अभिवादनशीलःः स्यान्नित्यं बृद्धेषु धर्मतः ।।17।।
असावहं भोनामेति सम्यक्प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्धयर्थ तन्द्रादिपरिवर्जितः ।।18।।
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ।
यो नवेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्दः स विदुषा यथा शूद्रस्तथैव सः ।।20।।
व्यत्यस्तपाणिना कार्यं पादसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्पष्टव्यो दक्षिणे न तु दक्षिणः ।।21।।
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा ।
अवाप्य प्रयतो ज्ञानं तं पूर्वमभिवादयेत् ।।22।।
नादकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा ।
एवं विधानि चाऽयानि नदेवार्थेषु कर्मसु ।।23।।
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ।।24।।
उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीतितः ।
मातुलः श्वशुरश्चैव मातामहपितामहौ ।।25।।
वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।
माता मातामहो गुर्वी पितुर्मातुश्च सोदराः ।।26।।
श्वश्रू पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ।
ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।।27।।
तेषामाद्दास्त्रयः श्रेष्ठास्तेषां माता सूपूजिता ।
यो भावयति या सूते येन विद्दोपदिश्यते ।।28।।
ज्येष्ठो भ्राता च भर्ता च पञ्चेते गुरुवः स्मृताः ।
आत्मनः सर्वयत्ने प्राणात्यागेन वा पुनः ।।29।।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ।
अभिवाद्दश्व पूज्यश्च शिरसा नम्य एव च ।।30।।
ब्राह्मणाक्षत्रियाद्दैश्च श्रीकामैः सादरं सदा ।
नाभिवाद्दाश्च विप्रेण क्षत्रियाद्दाः कथंचन् ।।31।।
ज्ञानकर्मगुणोपेता यद्दप्येते बहुश्रुताः ।
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ।।32।।
सवर्णेन सवर्णानां कार्यमेवाभिवादनम् ।
गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः ।।33।।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।
विद्दाकर्मवयोबन्धुर्वित्तं भवति पञ्चमम् ।।34।।
मान्यस्थानानि पञ्चाहुः भूयांसि बलवन्ति च ।।35।।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।
पन्था देयो ब्रह्मणाय स्त्रियै राज्ञे विचक्षुषे ।।36।।
वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च ।
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ।।37।।
निवेद्द गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ।
भवत्पूर्वंचरेद्भैक्ष्यमुपवीती द्विजोत्तमः ।।38।।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।।39।।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।
सजातीयगृहेष्वेव सार्ववणिकमेव वा ।।40 ।।
भक्ष्यस्याचरणं प्रोक्तं पतितादिविवर्जितम् ।
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।।41।।
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम् ।
गुरोः कुलेन भिक्षेत न ज्ञातिकुलबन्धुषु ।।42।।
भैक्ष्येणा वर्त्तितो वृत्तिरुपवास समास्मृता ।
पूज्येदशनं नित्यं सदाच्चैनमकुत्सयन् ।।43।।
दृष्टवा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ।
अनारोग्यमनायुष्यमस्वर्ग्य चातिभोजनम् ।।।44।।
अपूर्ण्य लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।
प्राङ् मुखोन्ननि भुञ्जीत सूर्याभिमुखमेव वा ।।45।।
नाद्दादुदङ् मुखो नित्यं विधिरेष सनातनः ।
प्राक्ष्याल्यः पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।।
शुद्ध देशे समासीनो भुक्तत्वा च द्विरुपस्पृशेत् ।।46।।
।।निषिद्ध कर्म कथन ।।
भुक्तत्वा पीत्व च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठवलोमकौ स्पृष्टवा वासो विपरिधाय च ।।1।।
रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे ।
ष्ठीवित्वाऽध्ययनारभ्भे कासश्वसागमे तथा ।।2।।
चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः ।
सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्पुनः ।।3।।
चाण़्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे ।
उच्छिष्टं पुरुषं दृष्टवा भोज्यं चापि तथाविधम्।।4।।
आचामेदश्रुपाते वालोहितस्य तथैव च ।
भोजने सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।।5।।
आगतो वाऽऽचमेत्सुप्त्वा सकृत्सकृदथान्यतः ।
अग्नेर्गवामथालम्भे स्पृष्टवा प्रयतमेव वा ।।6।।
स्त्रीणामथात्मनः स्पर्शे नीलीं वा परिधाय च।
उपस्पृशेज्जलं वार्ततृणं वा भूमिमेव च ।।7।।
केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च ।
अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः ।।8।।
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ् मुखः ।
शिरः प्रावृत्य कण्ठं वा मुक्तकेशशिखोऽपि वा ।।9।।
अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत् ।
सोपानत्को जलस्थो वा नोष्णीषी चाचमेद् बुधः।।10।।
न चैव वर्ष धाराभिर्नतिष्ठन्नुदधृतोदकैः ।
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।।11।।
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।
न जल्पन्नहसन्प्रेक्षञ्छचानस्तल्प एव च ।।12।।
नाविक्षिताभिः फेनाद्दैरुपेताभिरथापि वा ।
शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिरथापि वा ।।13।।
न चैवाङ्गुलिभिः शब्दं न कुर्यान्नन्यमानसः ।
न वर्णरसदुष्टाभिर्नचैव प्रदरोदकैः ।।14।।
न पाणिक्षुभिताभिर्वा न बहिर्गन्ध एव वा ।
हृदगाभिः पूज्यते विप्रः कण्ठयाभिः क्षत्रियः शुचिः ।।15।।
प्रासिताभिस्तथा वैश्यः स्त्रीशूर्दौ स्पर्शतोऽन्ततः ।
अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।।16।।
त्रिःप्राश्नीयाद्ददम्भस्तु प्रीतास्तेनास्य देवताः ।
ब्रह्माविष्णुर्महेशश्च भवन्तीत्यनुशुश्रुम् ।।17।।
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टचोर्लोचनयोः प्रीयेते शशिभास्करौ ।।18।।
नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम् ।
कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ ।।19।।
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेकऋ प्रीतः स पुरुषो भवत्।।20।।
नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोऽङ्गेलगन्ति याः ।
दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ।।21।।
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिपांसुसमा ज्ञेया न तैरस्पृश्यता भवेत् ।।22।।
मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूले चेक्षुदण्डे न दोष प्राह वै मनुः ।।23।।
प्रचरश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तदद्रव्यमाचभ्याभ्युक्षयेत्तु तत ।।24।।
तैजसं वे समादाय यद्दुच्छिष्टो भवेदद्विजः ।
भूमौ निक्षिप्य तदद्रव्यमाचम्याभ्युक्षयेत्ततत् ।।25।।
यद्ददद्रव्यं समादाय भवेदुच्छेषणान्वितः ।
अनिधायैव तदद्रव्यं भूमौ त्वशुचितामियात् ।।26।।
वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह ।
अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि ।।27-28।।
अह्नि कुर्योच्छकृन्मूत्रं रात्रौ चेद्दज्ञिणामुखः ।
अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्टतृणेन वा ।।29।।
प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् ।
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।।30।।
अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत् ।
न गोमये न काष्ठेवा महावृक्षेऽथ शाद्वले ।।31।।
न तिष्ठन्नच निर्वासा न च पर्वतमण्डले ।
न जीर्णदेवायतने वल्मीके न कदाचन् ।।32।।
न ससत्त्वेषु गर्तेषु न गच्छन्न समाचरेत् ।
तुषाङगारकपालेषु राजमार्गे तथैव च ।।33।।
न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे ।
नोद्दानेऽपां समीपे नोषरे नगराशये ।।34।।
न सोपानत्पादुको वा छत्री वानान्तरिक्षके ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।।35।।
।। गृहस्थ धर्म कथन् ।।
वेदं वेदौ तथा वेदान्वेदाङगानि तथा द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः।।1।।
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।
तीर्णव्रतोऽथ युक्तात्मा शक्तो वा स्नातुमर्हति ।।2।।
वैष्णवीं धारयेद्दष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितीयं सोदकं च कमण्डलुम् ।।3।।
छसं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले धार्ये कृत्तकेशनखः शुचिः ।।4।।
अन्यत्र काञ्चनाद्विप्रो न रक्तां विभृयात्स्रजम् ।
शुक्लाम्बरधरो नित्य सुगन्धः प्रियदर्शनः ।।5।।
न जीर्णमलवद्वासा भवेद्वै विभवे सति ।
न रक्तामुल्बणं चान्यधृतं वासो न कुण्डलम् ।।6।।
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत् ।
उपवीतमलङकारं दर्भान्कृष्णाजिनं तथा ।।7।।
नापसव्यं परीदध्याद्वासोन विकृतं वसेत् ।
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ।।8।।
रुपलक्षणासंयुक्तान्योनिदोषविवर्जितान् ।
असपिण़्डां च वै मातुरसमानार्षगोत्रजाम् ।।9।।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ।
ऋतुकालाभिगामी स्याद्दावत्पुत्रोऽभिजायते ।।10।।
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु ।
षष्ठयष्टमीं पञ्चदशींद्वादशीं च चतुर्दशीम् ।।11।।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ।
आदधीत् विवाहाग्निं जुहुयाज्जातवेदसम् ।।12।।
एतानि स्नातको नित्यं पावनानि च चतुर्दशीम् ।
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रतः ।।13।।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ।
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ।।14।।
कुर्याद् गृहानि कार्याणि सन्धयोपासनमेव च ।
सख्यं सदाधिकैः कुर्यादुपेयादीश्वरं सदा ।।15।।