"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७५" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">इत्युक्तेः । अयमनुक्तबिगुपलक्षकः । एते यज्ञेन वक्षणाः पृणध्वमिति संवन्धः ॥ २८ ॥
<poem><span style="font-size: 14pt; line-height: 200%">इत्युक्तेः । अयमनुक्तर्त्विगुपलक्षकः । एते यज्ञेन वक्षणाः पृणध्वमिति संबन्धः ॥ २८ ॥


एकोनत्रिंशी।
एकोनत्रिंशी।
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
ये चार्व॑ते॒ पच॑नᳪ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।। २९ ।।
ये चार्व॑ते॒ पच॑नᳪ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।। २९ ।।
उ० यूपवस्का उत यूपं ये वृश्चन्ति त एवमुच्यन्ते । उत अपिच ये यूपवाहाः यूपं ये वहन्ति । चपालं ये अश्वयूपाय तक्षति ये जनाः अश्वबन्धनयूपाय चषालं यूपाग्रभागं तक्षति । तक्षन्तीति प्राप्ते छान्दसमेकवचनम् । साधुसंपादयन्ते । ये च अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं काष्ठादि संभरन्ति । उतो अपिच तेषां जनानां संबन्धिनी अभिगूर्तिः 'गुरी उद्यमने' । आगूरणमभिगूर्तिः स्त्रकाले सर्व करणीयमिति बुद्धिः इन्वतु व्याप्नोतु ॥ २९ ॥
उ० यूपव्रस्का उत यूपं ये वृश्चन्ति त एवमुच्यन्ते । उत अपिच ये यूपवाहाः यूपं ये वहन्ति । चषालं ये अश्वयूपाय तक्षति ये जनाः अश्वबन्धनयूपाय चषालं यूपाग्रभागं तक्षति । तक्षन्तीति प्राप्ते छान्दसमेकवचनम् । साधुसंपादयन्ते । ये च अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं काष्ठादि संभरन्ति । उतो अपिच तेषां जनानां संबन्धिनी अभिगूर्तिः 'गुरी उद्यमने' । आगूरणमभिगूर्तिः स्वकाले सर्वं करणीयमिति बुद्धिः इन्वतु व्याप्नोतु ॥ २९ ॥
म०. तेषाम्रलिजामभिगूर्तिः अभिगोरणमभिगूर्तिख्यमः नोऽस्मानिन्वतु प्रीणातु व्याप्नोतु वा । अस्माकं यज्ञं सम्यक् साधयलित्यर्थः । 'इवि व्याप्तिप्रीणनयोः' लोट् शपि 'इदितो नुम् धातोः' (पा० ७ । १ । ५८ ) इति नुमागमः। तेषां केषाम् । ये यूपत्रस्काः यूपाय वृश्चन्ति तरं छिन्दन्ति ते यूपवस्काः । उतापि च ये यूपवाहाः यूपं वहन्ति ते यूपवाहाः । कर्मण्यण् । छिन्नस्य यूपस्य वोढारः । ये च अश्वयूपाय अश्वबन्धनयूपार्थं चषालं तक्षति यूपाग्रभागे स्थाप्यं काष्ठं तक्षन्ति वचनव्यत्ययः । 'चषालो यूपकटकः' इत्यमरः । 'तक्षु तनूकरणे' साधु संपादयन्तीत्यर्थः । उतो अपिच ये नराः अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति संहरन्ति आनयन्ति तेषामुद्यमो. ऽस्मान्प्रीणालित्यर्थः ॥ २९ ॥
म०. तेषामृत्विजामभिगूर्तिः अभिगोरणमभिगूर्तिरुद्यमः नोऽस्मानिन्वतु प्रीणातु व्याप्नोतु वा । अस्माकं यज्ञं सम्यक् साधयत्वित्यर्थः । 'इवि व्याप्तिप्रीणनयोः' लोट् शपि 'इदितो नुम् धातोः' (पा० ७ । १ । ५८ ) इति नुमागमः। तेषां केषाम् । ये यूपव्रस्काः यूपाय वृश्चन्ति तरं छिन्दन्ति ते यूपव्रस्काः । उतापि च ये यूपवाहाः यूपं वहन्ति ते यूपवाहाः । कर्मण्यण् । छिन्नस्य यूपस्य वोढारः । ये च अश्वयूपाय अश्वबन्धनयूपार्थं चषालं तक्षति यूपाग्रभागे स्थाप्यं काष्ठं तक्षन्ति वचनव्यत्ययः । 'चषालो यूपकटकः' इत्यमरः । 'तक्षु तनूकरणे' साधु संपादयन्तीत्यर्थः । उतो अपिच ये नराः अर्वते अश्वाय पचनं पच्यतेऽनेनेति पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति संहरन्ति आनयन्ति तेषामुद्यमोऽस्मान्प्रीणात्वित्यर्थः ॥ २९ ॥


त्रिंशी।
त्रिंशी।
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।
अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ।। ३० ।।
अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ।। ३० ।।
उ० उप प्र । उपप्रागात् उपैतु सुमत् 'सुमत्स्वयमित्यर्थे' इति यास्कः । मे मम अधायि निहितम् यत् मन्म मननम् । किं तदिति चेत् । देवानाम् आशाः शंसनानि साधुसाध्वयं पशुरागच्छेदित्येवमादीनि । उप आगतः वीतपृष्ठः साधुपोषणेन प्राप्तपश्वानागः। कामितपृष्ठो वा । अश्वपृष्ठं हि सर्व एवारोढुं कामयन्ति । यत एवमतो ब्रवीमि । अन्वेनं विप्रा ऋषयो मदन्ति । अनुमदन्ति अनुमोदन्ति एनमश्वं विप्रा ऋषयश्च । स्वयं च देवानां पुष्टे पोषणाय । चकृम कृतवन्तः। सुबन्धुं शोभनबन्धनं शोभनार्थवादं वा ।। ३० ॥
उ० उप प्र । उपप्रागात् उपैतु सुमत् 'सुमत्स्वयमित्यर्थे' इति यास्कः । मे मम अधायि निहितम् यत् मन्म मननम् । किं तदिति चेत् । देवानाम् आशाः शंसनानि साधुसाध्वयं पशुरागच्छेदित्येवमादीनि । उप आगतः वीतपृष्ठः साधुपोषणेन प्राप्तपश्चाद्भागः। कामितपृष्ठो वा । अश्वपृष्ठं हि सर्व एवारोढुं कामयन्ति । यत एवमतो ब्रवीमि । अन्वेनं विप्रा ऋषयो मदन्ति । अनुमदन्ति अनुमोदन्ति एनमश्वं विप्रा ऋषयश्च । स्वयं च देवानां पुष्टे पोषणाय । चकृम कृतवन्तः। सुबन्धुं शोभनबन्धनं शोभनार्थवादं वा ।। ३० ॥
म० मन्म मननीयं फलं सुमत् स्वयमुपप्रागात् उपगच्छतु । सुमदित्यव्ययं स्वयमित्यर्थे । 'सुमत् खयमित्यर्थे' (निरु० | ६ । २२ ) इति यास्कोक्तेः । तन्मन्म फलं मे मया अधायि | धृतमित्यर्थः । किंच अयं वीतं पुष्टं पृष्ठं यस्य । यद्वा वीतं कामितं पृष्ठं यस्य अश्वपृष्टमारोहणाय सर्वे कामयन्ते स वीतपृ| ठोऽश्वो देवानामाशाः मनोरथान् पूरयितुमिति शेषः । उप| गच्छतु उपसर्गेण क्रियावृत्तिः । किंच देवानां पुष्टे पोषणं पुष्टम् भावे निष्टा । निमित्ते सप्तमी । देवपुष्टिनिमित्तं यमश्वं वयं | सुबन्धुं चकृम कृतवन्तः । संहितायां दीर्घः । शोभनो बन्धुबन्धनं यस्य तम् यमश्वं बद्धवन्तः । एनमश्वं विप्रा मेधाविनः ऋषयो मन्त्रदर्शिन ऋविजोऽनुमदन्ति अनुमोदन्तां तुष्यन्तु ॥ ३० ॥
म० मन्म मननीयं फलं सुमत् स्वयमुपप्रागात् उपगच्छतु । सुमदित्यव्ययं स्वयमित्यर्थे । 'सुमत् स्वयमित्यर्थे' (निरु० | ६ । २२ ) इति यास्कोक्तेः । तन्मन्म फलं मे मया अधायि | धृतमित्यर्थः । किंच अयं वीतं पुष्टं पृष्ठं यस्य । यद्वा वीतं कामितं पृष्ठं यस्य अश्वपृष्ठमारोहणाय सर्वे कामयन्ते स वीतपृष्ठोऽश्वो देवानामाशाः मनोरथान् पूरयितुमिति शेषः । उपगच्छतु उपसर्गेण क्रियावृत्तिः । किंच देवानां पुष्टे पोषणं पुष्टम् भावे निष्ठा । निमित्ते सप्तमी । देवपुष्टिनिमित्तं यमश्वं वयं सुबन्धुं चकृम कृतवन्तः । संहितायां दीर्घः । शोभनो बन्धुर्बन्धनं यस्य तम् यमश्वं बद्धवन्तः । एनमश्वं विप्रा मेधाविनः ऋषयो मन्त्रदर्शिन ऋविजोऽनुमदन्ति अनुमोदन्तां तुष्यन्तु ॥ ३० ॥


एकत्रिंशी।
एकत्रिंशी।
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॒ रश॒ना रज्जु॑रस्य ।
यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॒ रश॒ना रज्जु॑रस्य ।
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३१ ।।
यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये तृण॒ᳪ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३१ ।।
उ० यद्वाजिनः वेजनवतः दाम प्रीवाबन्धनरजुः संदानं सम्यगवच्छेदकं पादबन्धनम् अर्वतः अश्वस्य । याच शीर्षण्या शिरसि बद्धा नियोजनीया रज्जुः अस्याश्वस्य । यद्वा घः पादपूरणे । अस्याश्वस्य प्रभृतं प्रहृतं निक्षिप्तम् आस्से मुखे तृणम् सर्वाणि तानि ते तव हे यजमान । अपि देवेषु अपि प्रजापतये अस्तु । सन्विति प्राप्ते वचनव्यत्ययः ॥ ३१ ॥
उ० यद्वाजिनः वेजनवतः दाम ग्रीवाबन्धनरज्जुः संदानं सम्यगवच्छेदकं पादबन्धनम् अर्वतः अश्वस्य । याच शीर्षण्या शिरसि बद्धा नियोजनीया रज्जुः अस्याश्वस्य । यद्वा घः पादपूरणे । अस्याश्वस्य प्रभृतं प्रहृतं निक्षिप्तम् आस्ये मुखे तृणम् सर्वाणि तानि ते तव हे यजमान । अपि देवेषु अपि प्रजापतये अस्तु । सन्त्विति प्राप्ते वचनव्यत्ययः ॥ ३१ ॥
म० वाजिनो वेगवतोऽर्वतोऽश्वस्य यत् दाम ग्रीवाबद्धा | रजः यच्च संदानं पादबन्धनरज्जुः । या च शीर्षण्या शीर्षे | भवा शीर्षण्या शिरोबद्धास्याश्वस्य रजुः । शिरःशब्दात् 'भवे छन्दसि' (पा० ४ । ४ । ११० ) इति यत् । 'ये च तद्धिते' (पा० ६ । १ । ६१) इति शीर्षन्नादेशः । तित् खरितम् । कटिस्था रशना रज्जुः अस्यान्यापि या रज्जुः । वाथवा अस्याश्वस्य घ प्रसिद्धम् आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं यत् तृणं हे अश्व, ते तव सर्वा सर्वाणि ता तानि देवेषु अस्तु देवोपयोगीनि भवन्तु देवलं प्राप्नुवन्तु वा । अनोपयुक्तानां सर्वेषां देवसमाशास्यते ॥ ३१॥
म० वाजिनो वेगवतोऽर्वतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः यच्च संदानं पादबन्धनरज्जुः । या च शीर्षण्या शीर्षे भवा शीर्षण्या शिरोबद्धास्याश्वस्य रज्जुः । शिरःशब्दात् 'भवे छन्दसि' (पा० ४ । ४ । ११० ) इति यत् । 'ये च तद्धिते' (पा० ६ । १ । ६१) इति शीर्षन्नादेशः । तित् स्वरितम् । कटिस्था रशना रज्जुः अस्यान्यापि या रज्जुः । वाथवा अस्याश्वस्य घ प्रसिद्धम् आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं यत् तृणं हे अश्व, ते तव सर्वा सर्वाणि ता तानि देवेषु अस्तु देवोपयोगीनि भवन्तु देवत्वं प्राप्नुवन्तु वा । अत्रोपयुक्तानां सर्वेषां देवत्वमाशास्यते ॥ ३१॥


द्वात्रिंशी।
द्वात्रिंशी।
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३२ ।।
यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३२ ।।
उ० यदश्वस्य । यत् अश्वस्य ऋविषः अश्वाङ्गभूतस्य क्रव्यस्य मांसस्य 'क्रव्यं विकृन्ताजायत' इति नैरुक्ताः । अङ्गम् । मक्षिका आश अशितवती । यद्वा । स्वरौ स्वधिती रिप्तमस्ति । यच्च स्वरौ पश्वञ्जनकाले स्वधितौ शासे छेदनकाले
उ० यदश्वस्य । यत् अश्वस्य क्रविषः अश्वाङ्गभूतस्य क्रव्यस्य मांसस्य 'क्रव्यं विकृन्ताज्जायत' इति नैरुक्ताः । अङ्गम् । मक्षिका आश अशितवती । यद्वा । स्वरौ स्वधितौ रिप्तमस्ति । यच्च स्वरौ पश्वञ्जनकाले स्वधितौ शासे छेदनकाले


</span></poem>
</span></poem>