"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७८" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">एकोनचत्वारिंशी।
<poem><span style="font-size: 14pt; line-height: 200%">एकोनचत्वारिंशी।
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ।। ३९ ।।
स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वाया॑मयन्ति ।। ३९ ।।
उ० यदश्वाय । यत् अश्वाय संज्ञप्यमानाय वासः उपस्तृणन्ति सर्वत आच्छादयन्ति । यच अधीवासम् उपर्याच्छादनयोग्यं वास उपस्तृणन्ति । यानि च हिरण्यानि उपस्तुणन्ति अस्मै अश्वाय । यच्च संदानं संदीयतेऽनेनेति संदानं शिरोबन्धनम् अर्वन्तम् अर्वते इति विभक्तिव्यत्ययः। अश्वायेति सामानाधिकरण्यात् । यच्च पड्डीशं पादवासः | एतानि प्रियाणि देवेषु आयामयन्ति गमयन्ति ॥ ३९ ॥
उ० यदश्वाय । यत् अश्वाय संज्ञप्यमानाय वासः उपस्तृणन्ति सर्वत आच्छादयन्ति । यच्च अधीवासम् उपर्याच्छादनयोग्यं वास उपस्तृणन्ति । यानि च हिरण्यानि उपस्तृणन्ति अस्मै अश्वाय । यच्च संदानं संदीयतेऽनेनेति संदानं शिरोबन्धनम् अर्वन्तम् अर्वते इति विभक्तिव्यत्ययः। अश्वायेति सामानाधिकरण्यात् । यच्च पड्वीशं पादवासः एतानि प्रियाणि देवेषु आयामयन्ति गमयन्ति ॥ ३९ ॥
म० प्रिया प्रियाणि एतानि वस्तूनि देवेषु आयामयन्ति आगमयन्ति । ऋविजोऽश्वस्यैतानि देवेष्वेव प्रापयन्तीत्यर्थः । कानीत्यत आह । अश्वाय यत् अधीवासमाच्छादकं वासो वस्त्रमुपस्तृणन्ति 'स्तृञ् आच्छादने' त्यादिकः । तथा या यानि हिरण्यानि सौवर्णशकलानि अस्मै अश्वाय उपस्तृणन्ति । तथा अर्वन्तम् षष्ठ्यर्थे द्वितीया । अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड़ीशं पादबन्धनम् । एतानि देवेषु प्रापयन्ति। कीदृशानि । प्रिया प्रियाणि देवानामिष्टानि ॥ ३९ ॥
म० प्रिया प्रियाणि एतानि वस्तूनि देवेषु आयामयन्ति आगमयन्ति । ऋत्विजोऽश्वस्यैतानि देवेष्वेव प्रापयन्तीत्यर्थः । कानीत्यत आह । अश्वाय यत् अधीवासमाच्छादकं वासो वस्त्रमुपस्तृणन्ति 'स्तृञ् आच्छादने' क्र्यादिकः । तथा या यानि हिरण्यानि सौवर्णशकलानि अस्मै अश्वाय उपस्तृणन्ति । तथा अर्वन्तम् षष्ठ्यर्थे द्वितीया । अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड्वीशं पादबन्धनम् । एतानि देवेषु प्रापयन्ति। कीदृशानि । प्रिया प्रियाणि देवानामिष्टानि ॥ ३९ ॥


चत्वारिंशी।
चत्वारिंशी।
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।। ४० ।।
स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ।। ४० ।।
उ० यत्ते सादे । हे अश्व, यत् ते तव सादे । सीदन्त्यश्ववारा अस्मिन्निति सादोऽश्वपृष्ठम् तस्मिन्सादे अवस्थितोऽश्ववारः महसा महत्वेनान्वितः सन् । कथंभूतस्य । शूकृतस्य शब्दानुकरणमेतत् । शूत्कारं कुर्वतः । अनन्तरम् पाया वा कशया वा तुतोद । 'तुद व्यथने' । तुदति व्यथयति सूचा इव ता तानि यथा स्रुचा हविषः हविरिति विभक्तिव्यत्ययः । अध्वरेषु यज्ञेषु जुह्नति एवं सर्वाणि ते तव ब्रह्मणा त्रयीलक्षणेन सूदयामि क्षारयामि । आहुतित्वेन कल्पयामीत्यर्थः ॥ ४० ॥
उ० यत्ते सादे । हे अश्व, यत् ते तव सादे । सीदन्त्यश्ववारा अस्मिन्निति सादोऽश्वपृष्ठम् तस्मिन्सादे अवस्थितोऽश्ववारः महसा महत्वेनान्वितः सन् । कथंभूतस्य । शूकृतस्य शब्दानुकरणमेतत् । शूत्कारं कुर्वतः । अनन्तरम् पार्ष्ण्या वा कशया वा तुतोद । 'तुद व्यथने' । तुदति व्यथयति स्रुचा इव ता तानि यथा स्रुचा हविषः हविरिति विभक्तिव्यत्ययः । अध्वरेषु यज्ञेषु जुह्वति एवं सर्वाणि ते तव ब्रह्मणा त्रयीलक्षणेन सूदयामि क्षारयामि । आहुतित्वेन कल्पयामीत्यर्थः ॥ ४० ॥
म० हे अश्व, अश्ववारः सादे गमने यत्ते तव खां पार्ष्या पादाधोभागेन कशया वा तुतोद पीडितवान् 'तुद व्यथने' लिद । सदनं सादः घञ् । कीदृशस्य तव । महसा बलेन शुकृ. तस्य शूकृतमस्यास्ति शुकृतः तस्य । शब्दानुकरणमेतत् । शूकारं कुर्वतः । अध्वरेषु ता सर्वा तानि सर्वाणि ते तव पार्णिकशाताडनानि ब्रह्मणा मन्त्रेणाहं सूदयामि 'पूद क्षरणे' चुरादिः क्षारयामि । यज्ञे आहुतिलेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । हविषः स्रुचेव हविराज्यादिकं यथा सुचा जुह्वा सूदयामि तद्वत् । एकं तापदं पादपूरणाय ॥ ४० ॥
म० हे अश्व, अश्ववारः सादे गमने यत्ते तव त्वां पार्ष्यार् पादाधोभागेन कशया वा तुतोद पीडितवान् 'तुद व्यथने' लिट् । सदनं सादः घञ् । कीदृशस्य तव । महसा बलेन शूकृतस्य शूकृतमस्यास्ति शूकृतः तस्य । शब्दानुकरणमेतत् । शूकारं कुर्वतः । अध्वरेषु ता सर्वा तानि सर्वाणि ते तव पार्ष्णिकशाताडनानि ब्रह्मणा मन्त्रेणाहं सूदयामि 'षूद क्षरणे' चुरादिः क्षारयामि । यज्ञे आहुतित्वेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । हविषः स्रुचेव हविराज्यादिकं यथा स्रुचा जुह्वा सूदयामि तद्वत् । एकं तापदं पादपूरणाय ॥ ४० ॥


एकचत्वारिंशी।
एकचत्वारिंशी।
चतु॑स्त्रिᳪशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति ।
चतु॑स्त्रिᳪशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति ।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ विश॑स्त ।। ४१ ।।
अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ विश॑स्त ।। ४१ ।।
उ० चतुस्त्रिंशत् । चतुस्त्रिंशत् वंक्रयः । वाजिनः वेजनवतोऽश्वस्य देवबन्धोः देवानां प्रियस्य । देवा बन्धवोऽस्य इति वा भावी देवबन्धुः । देवो ह्यसौ भविष्यति एवंभूतस्याश्वस्य वंक्रीः वंक्रयः उभयपार्श्वस्थास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति एकमकृत्वा सङ्गच्छति यतः अतो ब्रवीमि । अच्छिद्रा गात्रा अच्छिद्राणि अनवखण्डितानि गात्रा गात्राणि वयुना प्रज्ञानेन कृणोत कुरुत हे शमितारः । किंच परुष्परुः पर्वपर्व हृदयाद्यङ्गम् अनुघुप्य इदमिदमिति संशब्द्य विशस्त विशसनं कुरुत । उत्तरार्धस्यैव मन्त्ररूपसंबन्धः॥४१॥
उ० चतुस्त्रिंशत् । चतुस्त्रिंशत् वंक्रयः । वाजिनः वेजनवतोऽश्वस्य देवबन्धोः देवानां प्रियस्य । देवा बन्धवोऽस्य इति वा भावी देवबन्धुः । देवो ह्यसौ भविष्यति एवंभूतस्याश्वस्य वंक्रीः वंक्रयः उभयपार्श्वस्थास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति एकमकृत्वा सङ्गच्छति यतः अतो ब्रवीमि । अच्छिद्रा गात्रा अच्छिद्राणि अनवखण्डितानि गात्रा गात्राणि वयुना प्रज्ञानेन कृणोत कुरुत हे शमितारः । किंच परुष्परुः पर्वपर्व हृदयाद्यङ्गम् अनुघुष्य इदमिदमिति संशब्द्य विशस्त विशसनं कुरुत । उत्तरार्धस्यैव मन्त्ररूपसंबन्धः॥४१॥
म० खधितिः पशुच्छेदनसाधनोऽसिः अश्वस्य चतुस्त्रिंशत् वंक्रीः चतुस्त्रिंशत्संख्याकान्युभयपास्थिीनि समेति सम्यगागच्छति छेदनाय । कीदृशस्याश्वस्य । वाजिनः वजति गच्छतीति वाजी तस्य । वेगवत इत्यर्थः । देवबन्धोः देवानां बन्धुः प्रियस्तस्य, देवा बन्धवो यस्येति वा भावी निर्देशः । अश्वस्य चतुस्त्रिंशद्वंक्रयः अजादीनां षडिशतिः । अतो हे ऋविजः, वयुना वयुनेन ज्ञानेनाश्वस्य गात्रा गात्राणि अच्छिद्रा अच्छिद्राणि छिद्रहीनानि यूयं कृणोत कुरुत । स्वधितिना छिन्नानि सच्छिद्राणि वर्तन्ते तान्यच्छिद्राणि कुरुत । किंच परुः परः 'प्रन्थिन। पर्वपरुषी' इत्यमरः । 'नित्यवीप्सयोः' इति (पा० ८ । १ । ४) द्वित्वम् । प्रतिपर्व प्रत्यवयवम् अनुघुष्य इदमिति नाम्ना संशब्द्य यूयं विशस्त विशसनं छेदं कुरुत । 'शसु हिंसायाम्' छान्दसः शपो लुक् । कृणोत ‘क करणे' स्वादिः 'तप्तनव्-' (पा० ७ । १ । ४५) इति मध्यमबहुव. चनस्य तवादेशः ततो गुणः । अनुघुष्य, 'घुषिर् विशब्दे' क्लो ल्यप् ॥ ४१ ॥
म० स्वधितिः पशुच्छेदनसाधनोऽसिः अश्वस्य चतुस्त्रिंशत् वंक्रीः चतुस्त्रिंशत्संख्याकान्युभयपार्श्वास्थीनि समेति सम्यगागच्छति छेदनाय । कीदृशस्याश्वस्य । वाजिनः वजति गच्छतीति वाजी तस्य । वेगवत इत्यर्थः । देवबन्धोः देवानां बन्धुः प्रियस्तस्य, देवा बन्धवो यस्येति वा भावी निर्देशः । अश्वस्य चतुस्त्रिंशद्वंक्रयः अजादीनां षड्विंशतिः । अतो हे ऋत्विजः, वयुना वयुनेन ज्ञानेनाश्वस्य गात्रा गात्राणि अच्छिद्रा अच्छिद्राणि छिद्रहीनानि यूयं कृणोत कुरुत । स्वधितिना छिन्नानि सच्छिद्राणि वर्तन्ते तान्यच्छिद्राणि कुरुत । किंच परुः परुः 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । 'नित्यवीप्सयोः' इति (पा० ८ । १ । ४) द्वित्वम् । प्रतिपर्व प्रत्यवयवम् अनुघुष्य इदमिति नाम्ना संशब्द्य यूयं विशस्त विशसनं छेदं कुरुत । 'शसु हिंसायाम्' छान्दसः शपो लुक् । कृणोत ‘कॄ करणे' स्वादिः 'तप्तनब्-' (पा० ७ । १ । ४५) इति मध्यमबहुवचनस्य तबादेशः ततो गुणः । अनुघुष्य, 'घुषिर् विशब्दे' क्त्वो ल्यप् ॥ ४१ ॥


द्विचत्वारिंशी।
द्विचत्वारिंशी।
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ता-ता॒ पिण्डा॑नां॒ प्र जु॑होम्यग्नौ ।। ४२ ।।
या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ता-ता॒ पिण्डा॑नां॒ प्र जु॑होम्यग्नौ ।। ४२ ।।
उ० एकस्त्वष्टुः । एकः अश्वस्य विशस्ता विशसिता संव. त्सरः । तदुक्तम् 'संवत्सरस्य तेजसेति' । त्वष्टुः आदित्यादुरपनस्याश्वस्य । तदुक्तम् 'सूरादश्वं वसवो निरतष्टत' इति । द्वा यन्तारा द्वौ नियन्तारौ अहोरात्रौ द्यावापृथिव्यौ वा भवतः । तथा ऋतुः द्वितीयो मासानां नियन्तेति शेषः । एवमश्वस्य विशसितॄन् उक्त्वा अथेदानी स्वकीयं कर्माध्वर्युराह । या ते यानि तव हे अश्व गात्राणामङ्गानाम् ऋतुथा ऋतावृतौ काले काले बन्धनानि कृणोमि करोमि ता ता तानि तानि
उ० एकस्त्वष्टुः । एकः अश्वस्य विशस्ता विशसिता संवत्सरः । तदुक्तम् 'संवत्सरस्य तेजसेति' । त्वष्टुः आदित्यादुत्पन्नस्याश्वस्य । तदुक्तम् 'सूरादश्वं वसवो निरतष्टत' इति । द्वा यन्तारा द्वौ नियन्तारौ अहोरात्रौ द्यावापृथिव्यौ वा भवतः । तथा ऋतुः द्वितीयो मासानां नियन्तेति शेषः । एवमश्वस्य विशसितॄन् उक्त्वा अथेदानीं स्वकीयं कर्माध्वर्युराह । या ते यानि तव हे अश्व गात्राणामङ्गानाम् ऋतुथा ऋतावृतौ काले काले बन्धनानि कृणोमि करोमि ता ता तानि तानि


</span></poem>
</span></poem>