"पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">पिण्डानां मांसपिण्डानां मध्ये प्रजुहोमि प्रज्ञानानुरोधेन जुहोमि अग्नौ ॥ ४२ ॥
<poem><span style="font-size: 14pt; line-height: 200%">पिण्डानां मांसपिण्डानां मध्ये प्रजुहोमि प्रज्ञानानुरोधेन जुहोमि अग्नौ ॥ ४२ ॥
म० अश्वस्य विशस्ता विशसनकर्ता एकः ऋतुः । कोहशस्याश्वस्यत्वष्टः दीप्तस्य । ऋतूपलक्षितः कालात्मा प्रजापतिरेवाश्वस्य शस्तेत्यर्थः । शसेस्तृच् । तथा यन्तारा यन्तारौ नियमनकतीरौ द्वा द्वौ द्यावापृथिव्यभिमानिदेवौ भवतः । तयोरेव सर्वेषां नियन्तृवादिति भावः । तथ ऋतुः अत्र 'ऋत्यकः' । (पा०६।१ । १२८ ) इति ह्रखप्रकृतिभावी । एवमश्वस्य विशसितृयन्तुनुक्खाध्वर्युः खकर्माह । हे अश्व, ते तव गात्राणां पिण्डानां गात्रसंबन्धिनां मांसपिण्डानां या यानि अङ्गानि अहं कृणोमि हन्मि छिनद्मि । 'कृञ् बन्धे' स्वादिः । ऋतुथा ऋतौ | ऋतूपलक्षिते वसन्तादियज्ञकाले ता ता तानि तान्यङ्गानि अग्नौ प्रजुहोमि प्रकर्षण हुतानि करोमि ॥ ४२ ॥
म० अश्वस्य विशस्ता विशसनकर्ता एकः ऋतुः । कीदृशस्याश्वस्यत्वष्टुः दीप्तस्य । ऋतूपलक्षितः कालात्मा प्रजापतिरेवाश्वस्य शस्तेत्यर्थः । शसेस्तृच् । तथा यन्तारा यन्तारौ नियमनकर्तारौ द्वा द्वौ द्यावापृथिव्यभिमानिदेवौ भवतः । तयोरेव सर्वेषां नियन्तृत्वादिति भावः । तथ ऋतुः अत्र 'ऋत्यकः' । (पा० ६।१ । १२८ ) इति ह्रस्वप्रकृतिभावौ । एवमश्वस्य विशसितृयन्तॄनुक्त्वाध्वर्युः स्वकर्माह । हे अश्व, ते तव गात्राणां पिण्डानां गात्रसंबन्धिनां मांसपिण्डानां या यानि अङ्गानि अहं कृणोमि हन्मि छिनद्मि । 'कृञ् बन्धे' स्वादिः । ऋतुथा ऋतौ ऋतूपलक्षिते वसन्तादियज्ञकाले ता ता तानि तान्यङ्गानि अग्नौ प्रजुहोमि प्रकर्षेण हुतानि करोमि ॥ ४२ ॥


त्रिचत्वारिंशी।
त्रिचत्वारिंशी।
मा त्वा॑ तपत्प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व आ ति॑ष्ठिपत्ते ।
मा त्वा॑ तपत्प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व आ ति॑ष्ठिपत्ते ।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।। ४३ ।।
मा ते॑ गृ॒ध्नुर॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ।। ४३ ।।
उ० मा त्वा तपत् । मा त्वां तपत् । त्वाशब्देनात्र विज्ञानात्मोच्यते । सुखदुःखयोर्भोक्ता प्रिय आत्मा प्राण उक्तः । स हि श्रुतौ प्रियमित्येतदुपासीतेत्युक्तः । देवानाम् पियन्तम् देवलोकगमनप्रवृत्तं सन्तम् । मा च स्वधितिः शस्त्रं तन्वः शरीरस्य अतिष्ठिपत् अस्थापयत् एकादशमवदानभूतम् ते तव । माच ते तव गृधः मांसग्रहणे गर्धालुर्लुब्धः। अविशस्ता विशसने अकुशलः अतिहाय अतिक्रम्य । छिद्रा छिद्राणि गात्राणि असिना मिथूकः मिथ्या अकार्षीत् ॥ ४३ ॥
उ० मा त्वा तपत् । मा त्वां तपत् । त्वाशब्देनात्र विज्ञानात्मोच्यते । सुखदुःखयोर्भोक्ता प्रिय आत्मा प्राण उक्तः । स हि श्रुतौ प्रियमित्येतदुपासीतेत्युक्तः । देवानाम् पियन्तम् देवलोकगमनप्रवृत्तं सन्तम् । मा च स्वधितिः शस्त्रं तन्वः शरीरस्य अतिष्ठिपत् अस्थापयत् एकादशमवदानभूतम् ते तव । माच ते तव गृध्नुः मांसग्रहणे गर्धालुर्लुब्धः। अविशस्ता विशसने अकुशलः अतिहाय अतिक्रम्य । छिद्रा छिद्राणि गात्राणि असिना मिथूकः मिथ्या अकार्षीत् ॥ ४३ ॥
म० हे अश्व, प्रियः वल्लभो भोगायतनवात् तवात्मा देहः खा लां मा तपत् तप्तं दुःखितं मा कापीत् । तव देहवियोगजनिता व्यथा मा भूदिति विज्ञानात्मानं प्रत्युच्यते । किंभूतं लाम् । अपियन्तम् । अप्येतीत्यपियन् तम् देवलोकं गच्छन्तम् । अपिपूर्वादेतेः शतृप्रत्ययः । किंच वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आतिष्ठिपत् मा स्थापयतु । सर्वाणि छित्त्वा देवेभ्यो ददवित्यर्थःतिष्टतेय॑न्तस्य लुङि चङि ‘तिष्ठतेरित्' (पा. ७ । ४ । ५) इतीकारे कृते द्वित्वादि । किंच शमिता ते तव गात्राणि अङ्गानि अतिहाय त्यक्त्वा शास्त्रोक्तक्रमं त्यक्त्वा असिना शासेन मिथु मिथ्या छिद्रा छिद्राणि अयथाच्छिन्नानि मा कः मा कार्षीत् । करोते कि 'मन्त्रे घसह्वर-' (पा० २ । ४ । ८०) इत्यादिना च्लेलुक् गुणे 'हल्या ' (पा० ६ । १ । ६८) इति तिपो लोपे विसर्गः । मिथु इति मिथ्यार्थेऽव्ययम् । संहितायां दीर्घः । कीदृशः शमिता । गृधः गृध्यतीति गृचः लुब्धः केवलं मांसग्रहणेच्छः। अतएषाविशस्ता न विशेषेण शसति हिनस्ति अविशस्ता विश- ।सने अकुशलः । अतएवान्यथा मा छिदत् । सम्यगवदानानि | करोलित्यर्थः ॥ ४३ ॥
म० हे अश्व, प्रियः वल्लभो भोगायतनत्वात् तवात्मा देहः त्वा त्वां मा तपत् तप्तं दुःखितं मा कार्षीत् । तव देहवियोगजनिता व्यथा मा भूदिति विज्ञानात्मानं प्रत्युच्यते । किंभूतं त्वाम् । अपियन्तम् । अप्येतीत्यपियन् तम् देवलोकं गच्छन्तम् । अपिपूर्वादेतेः शतृप्रत्ययः । किंच स्वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आतिष्ठिपत् मा स्थापयतु । सर्वाणि छित्त्वा देवेभ्यो ददत्वित्यर्थःतिष्ठतेर्ण्यन्तस्य लुङि चङि ‘तिष्ठतेरित्' (पा. ७ । ४ । ५) इतीकारे कृते द्वित्वादि । किंच शमिता ते तव गात्राणि अङ्गानि अतिहाय त्यक्त्वा शास्त्रोक्तक्रमं त्यक्त्वा असिना शासेन मिथु मिथ्या छिद्रा छिद्राणि अयथाच्छिन्नानि मा कः मा कार्षीत् । करोतेर्लुङि 'मन्त्रे घसह्वर-' (पा० २ । ४ । ८०) इत्यादिना च्लेर्लुक् गुणे 'हल्ड्याब् ' (पा० ६ । १ । ६८) इति तिपो लोपे विसर्गः । मिथु इति मिथ्यार्थेऽव्ययम् । संहितायां दीर्घः । कीदृशः शमिता । गृध्नुः गृध्यतीति गृध्नुः लुब्धः केवलं मांसग्रहणेच्छुः। अतएवाविशस्ता न विशेषेण शसति हिनस्ति अविशस्ता विशसने अकुशलः । अतएवान्यथा मा छिदत् । सम्यगवदानानि | करोत्वित्यर्थः ॥ ४३ ॥


चतुश्चत्वारिंशी।
चतुश्चत्वारिंशी।
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।। ४४ ।।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ।। ४४ ।।
उ० न वै । न वा उ एतदिति व्याख्यातम् । अन्यच्च | हरीन्द्राश्वौ ते तव । युञ्जा योजनाही वोढारौ प्रतिधुरौ | अभूताम् । पृषती च मरुतां संबन्धिनावश्वौ प्रतिधुराव| भूताम् । तदुक्तमश्वरथयाने 'युञ्जन्त्यस्य काम्या हरी' इति । | एभिर्दिव्यैस्त्वं समानं लोकं संज्ञप्त इत्यभिप्रायः । एनमुप. श्रुत्य स्वयमेव उपास्थात् उपस्थितः वाजी । धुरि रासभस्य अश्विसंबन्धिनः । रासभावश्विनोरित्यादिष्टं प्रयोजनम् ॥४४॥
उ० न वै । न वा उ एतदिति व्याख्यातम् । अन्यच्च | हरीन्द्राश्वौ ते तव । युञ्जा योजनार्हौ वोढारौ प्रतिधुरौ | अभूताम् । पृषती च मरुतां संबन्धिनावश्वौ प्रतिधुरावभूताम् । तदुक्तमश्वरथयाने 'युञ्जन्त्यस्य काम्या हरी' इति । | एभिर्दिव्यैस्त्वं समानं लोकं संज्ञप्त इत्यभिप्रायः । एनमुपश्रुत्य स्वयमेव उपास्थात् उपस्थितः वाजी । धुरि रासभस्य अश्विसंबन्धिनः । रासभावश्विनोरित्यादिष्टं प्रयोजनम् ॥४४॥
म० वै एवार्थे उ अवधारणे । हे अश्व, समेतन्नैव म्रियसे इतराश्ववत् मृतो न भवसि देवलप्राप्तेर्वक्ष्यमाणलात् । अतएव न रिष्यसि हिंस्यसे व्यर्थहिंसाया अभावात् । रिषतेर्य कि परस्मैपदमार्षम् । ननु प्रत्यक्षले मरणमङ्गनाशश्च दृश्यते तर्हि कथमेवमुच्यते तत्राह मुष्ठ गम्यते यत्र ते सुगाः तैः सुगेभिः सुगैः साधुगमनैः पथिभिर्मागैः देवयानरूपैः देवान् इत् एषि देवानेव गच्छसि । अथो युक्ता मदुक्तिः । कथं देवान् प्रति गमनं तत्राह । हे अश्व, ते तव हरी इन्द्राश्वौ युञ्जा युजौ रथे युक्तो अभूतां भविष्यतः । 'आशंसायां भूतवच्च' (पा० ३। ३ । १३२ ) इति भूतकालप्रयोगो भविष्यदर्थे । हरी इन्द्रस्येति यास्कः । तथा पृषती मरुतां वाहनभूते तव युञ्जो अभूताम् । पृषत्यो मरुतामिति च । युतस्ते युञ्जी 'ऋविग्दधृग्-' (पा० ३ । २ । ५९) इत्यादिना क्विन् 'क्विन्प्रत्ययस्य कुः' (पा० ८ । २ । ६२ ) इति कुखम् 'युजेरसमासे' (पा० ७ । १। ७१) इति नुम् ‘सुपां सुलुक्' (पा० ७ । १ । ३९ ) इति विभक्तरालम् । किंच रासभस्याश्विवाहनस्य धुरि अश्विवाहनस्थाने वाजी कश्चिदश्वः उपास्थात् उपस्थास्यति । देवलं प्राप्तस्य तव वहनाय इन्द्रादयो निजवाहनानि प्रेषयिष्यन्तीति भावः । यद्वा तत्तद्देवभावं प्राप्तं वां तानि तानि वाहनानि | वक्ष्यन्तीत्यर्थः ॥ ४४ ॥
म० वै एवार्थे उ अवधारणे । हे अश्व, त्वमेतन्नैव म्रियसे इतराश्ववत् मृतो न भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात् । अतएव न रिष्यसि हिंस्यसे व्यर्थहिंसाया अभावात् । रिषतेर्यकि परस्मैपदमार्षम् । ननु प्रत्यक्षत्वे मरणमङ्गनाशश्च दृश्यते तर्हि कथमेवमुच्यते तत्राह सुष्ठु गम्यते यत्र ते सुगाः तैः सुगेभिः सुगैः साधुगमनैः पथिभिर्मार्गैः देवयानरूपैः देवान् इत् एषि देवानेव गच्छसि । अथो युक्ता मदुक्तिः । कथं देवान् प्रति गमनं तत्राह । हे अश्व, ते तव हरी इन्द्राश्वौ युञ्जा युञ्जौ रथे युक्तौ अभूतां भविष्यतः । 'आशंसायां भूतवच्च' (पा० ३। ३ । १३२ ) इति भूतकालप्रयोगो भविष्यदर्थे । हरी इन्द्रस्येति यास्कः । तथा पृषती मरुतां वाहनभूते तव युञ्जौ अभूताम् । पृषत्यो मरुतामिति च । युङ्क्तस्ते युञ्जौ 'ऋत्विग्दधृग्-' (पा० ३ । २ । ५९) इत्यादिना क्विन् 'क्विन्प्रत्ययस्य कुः' (पा० ८ । २ । ६२ ) इति कुत्वम् 'युजेरसमासे' (पा० ७ । १। ७१) इति नुम् ‘सुपां सुलुक्' (पा० ७ । १ । ३९ ) इति विभक्तेरात्वम् । किंच रासभस्याश्विवाहनस्य धुरि अश्विवाहनस्थाने वाजी कश्चिदश्वः उपास्थात् उपस्थास्यति । देवत्वं प्राप्तस्य तव वहनाय इन्द्रादयो निजवाहनानि प्रेषयिष्यन्तीति भावः । यद्वा तत्तद्देवभावं प्राप्तं त्वां तानि तानि वाहनानि वक्ष्यन्तीत्यर्थः ॥ ४४ ॥


पञ्चचत्वारिंशी। ।
पञ्चचत्वारिंशी। ।
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पु॒ᳪसः पु॒त्राँ२ उ॒त वि॑श्वा॒पुष॑ᳪ र॒यिम् ।
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पु॒ᳪसः पु॒त्राँ२ उ॒त वि॑श्वा॒पुष॑ᳪ र॒यिम् ।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताᳪ ह॒विष्मा॑न् ।। ४५ ।।
अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताᳪ ह॒विष्मा॑न् ।। ४५ ।।
उ० इदानीं याचा । सुगव्यं नः। शोभनगव्यं नोऽस्माकं वाजी कृणोतु करोतु । स्वयं शोभनाश्वं च करोतु पुंसः पुत्रान्करोतु । दुहितरः पुत्राश्च पुत्रशब्देनोच्यन्ते इत्यतो विशेषणं पुंस इति । उत अपिच विश्वापुषम् सर्वस्य पोषक
उ० इदानीं याञ्चा । सुगव्यं नः। शोभनगव्यं नोऽस्माकं वाजी कृणोतु करोतु । स्वश्व्यं शोभनाश्वं च करोतु पुंसः पुत्रान्करोतु । दुहितरः पुत्राश्च पुत्रशब्देनोच्यन्ते इत्यतो विशेषणं पुंस इति । उत अपिच विश्वापुषम् सर्वस्य पोषकं