"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/हाविष्मतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। - जैब्रा. [https://sa.wikisource.org/s/ehj ३.२९]
 
यस्ते मदो वरेण्य इति गायत्री भवति। मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति .........हाविष्मतं भवति। हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्तां द्वितीयेऽहनि ।हविष्मानराध्नोन्नवमेऽहनि हविष्कृत्। अयं हविष्मानित्येव जातमहर्जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषमाशास्ते साम हि सत्याशीः - तांब्रा [https://sa.wikisource.org/s/tvz ११.१०]
}}