"बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४४ (मारकभेदाध्यायः)" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ९:
 
बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना |
 
नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ||१||
 
 
तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज |
 
मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ||२||
 
 
तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् |
 
तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ||३||
 
 
ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः |
 
तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ||४||
 
 
अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् |
 
विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ||५||
 
 
अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः |
 
क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ||६||
 
 
केवलानां च पापानां दशासु निधनं क्वचित् |
 
अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ||७||
 
 
सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु |
 
हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ||८||
 
 
मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः |
 
अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ||९||
 
 
अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणं |
 
त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ||१०||
 
 
द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् |
 
चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ||११||
 
 
उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम |
 
जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ||१२||
 
 
जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् |
 
म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ||१३||
 
 
केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः |
 
ततः परं नृणामायुर्गणयेद् द्विजसत्तम ||१४||
 
 
अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् |
 
अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ||१५||
 
 
मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् |
 
दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ||१६||
 
 
द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः |
 
विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ||१७||
 
 
आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज |
 
मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ||१८||
 
 
षष्ठाधिपदशायां च नृणां निधनसम्भवः |
 
षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ||१९||
 
 
मारका बहवः खेटा यदि वीर्यसमन्विताः |
 
तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ||२०||
 
 
उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः |
 
तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ||२१||
 
 
रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये |
 
मारकेशान्मदे वाऽपि मारकेशेन संयुतः ||२२||
 
 
मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि |
 
मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ||२३||
 
 
षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् |
 
शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ||२४||
 
 
लग्नात् तृतीयभावे तु बलिना रविणा युते |
 
राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ||२५||
 
 
त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः |
 
कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ||२६||
 
 
तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज |
 
विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ||२७||
 
 
गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् |
 
तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ||२८||
 
 
कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् |
 
तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ||२९||
 
 
ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम |
 
तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ||३०||
 
 
तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः |
 
बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ||३१||
 
 
तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् |
 
पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ||३२||
 
 
तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः |
 
अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ||३३||
 
 
चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् |
 
स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ||३४||
 
 
लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः |
 
सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ||३५||
 
 
शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ |
 
पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ||३६||
 
 
अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते |
 
तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ||३७||
 
 
अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः |
 
परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ||३८||
 
 
व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् |
 
शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ||३९||
 
 
कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ |
 
मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ||४०||
 
 
रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः |
 
देवलोकात् समायातो विज्ञेयो द्विजसत्तम ||४१||
 
 
शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः |
 
बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ||४२||
 
 
गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् |
 
देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ||४३||
 
 
अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः |
 
यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ||४४||
 
 
तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् |
 
तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ||४५||
 
 
अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज |
 
दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ||४६||
 
 
 
-