"रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
{{रामायणम्/किष्किन्धाकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''

<poem>ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ४.०४१.००१
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ४.०४१.००१
नीलमग्निसुतं चैव हनुमन्तं च वानरम् ४.०४१.००२
पितामहसुतं चैव जाम्बवन्तं महाकपिम् ४.०४१.००२
सुहोत्रं च शरीरं च शरगुल्मं तथैव च ४.०४१.००३
गजं गवाक्षं गवयं सुषेणमृषभं तथा ४.०४१.००३
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ४.०४१.००४
उल्कामुखमसङ्गं च हुताशन सुतावुभौ ४.०४१.००४
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ४.०४१.००५
वेगविक्रमसंपन्नान् संदिदेश विशेषवित् ४.०४१.००५
तेषामग्रेषरं चैव महद्बलमसंगगम् ४.०४१.००६
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ४.०४१.००६
ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः ४.०४१.००७
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ४.०४१.००७
सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ४.०४१.००८
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ४.०४१.००८
ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् ४.०४१.००९
वरदां च महाभागां महोरगनिषेविताम् ४.०४१.००९
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ४.०४१.०१०
अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ४.०४१.०१०
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ४.०४१.०११
तथा बङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ४.०४१.०११
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ४.०४१.०१२
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ४.०४१.०१२
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ४.०४१.०१३
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ४.०४१.०१३
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ४.०४१.०१४
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ४.०४१.०१४
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ४.०४१.०१५
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ४.०४१.०१५
तस्यासीनं नगस्याग्रे मलयस्य महौजसं ४.०४१.०१६
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ४.०४१.०१६
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ४.०४१.०१७
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ४.०४१.०१७
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ४.०४१.०१८
कान्तेव युवतिः कान्तं समुद्रमवगाहते ४.०४१.०१८
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ४.०४१.०१९
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ४.०४१.०१९
ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ४.०४१.०२०
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ४.०४१.०२०
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ४.०४१.०२१
जातरूपमयः श्रीमानवगाढो महार्णवम् ४.०४१.०२१
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ४.०४१.०२२
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ४.०४१.०२२
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ४.०४१.०२३
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ४.०४१.०२३
द्वीपस्तस्यापरे पारे शतयोजनमायतः ४.०४१.०२४
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ४.०४१.०२४
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ४.०४१.०२४
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ४.०४१.०२५
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ४.०४१.०२५
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ४.०४१.०२६
[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारकेति] विख्याता छायामाक्षिप्य भोजिनी ४.०४१.०२६
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ४.०४१.०२७
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ४.०४१.०२७
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ४.०४१.०२८
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ४.०४१.०२८
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ४.०४१.०२९
श्वेतं राजतमेकं च सेवते यं निशाकरः ४.०४१.०२९
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ४.०४१.०३०
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ४.०४१.०३०
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ४.०४१.०३१
अध्वना दुर्विगाहेन योजनानि चतुर्दश ४.०४१.०३१
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ४.०४१.०३२
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ४.०४१.०३२
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ४.०४१.०३३
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ४.०४१.०३३
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ४.०४१.०३४
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ४.०४१.०३४
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ४.०४१.०३५
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ४.०४१.०३५
तत्र भोगवती नाम सर्पाणामालयः पुरी ४.०४१.०३६
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ४.०४१.०३६
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ४.०४१.०३६
सर्पराजो महाघोरो यस्यां वसति वासुकिः ४.०४१.०३७
निर्याय मार्गितव्या च सा च भोगवती पुरी ४.०४१.०३७
तं च देशमतिक्रम्य महानृषभसंस्थितः ४.०४१.०३८
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ४.०४१.०३८
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ४.०४१.०३९
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ४.०४१.०३९
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चनकदाचन ४.०४१.०४०
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ४.०४१.०४०
तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ४.०४१.०४१
शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ४.०४१.०४१
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ४.०४१.०४२
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ४.०४१.०४२
राजधानी यमस्यैषा कष्टेन तमसावृता ४.०४१.०४२
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ४.०४१.०४३
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ४.०४१.०४३
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ४.०४१.०४४
गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ ४.०४१.०४४
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ४.०४१.०४५
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ४.०४१.०४५
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ४.०४१.०४६
कृतापराधो बहुशो मम बन्धुर्भविष्यति ४.०४१.०४६
अमितबलपराक्रमा भवन्तो॑ विपुलगुणेषु कुलेषु च प्रसूताः ४.०४१.०४७
मनुजपतिसुतां यथा लभध्वं॑ तदधिगुणं पुरुषार्थम् आरभध्वम् ४.०४१.०४७

आरभध्वम्

</poem>
पङ्क्तिः २५४:

'''इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''

{{टिप्पणी|
४.४१.२६ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी।।

[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारका उपरि टिप्पणी]