"रामायणम्/बालकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १६:
 
'''श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥'''
 
तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
 
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कश्चैक प्रियदर्शनः ॥१-१-३॥
 
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
 
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
 
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैरुक्तः श्रूयताम् नरः ॥१-१-७॥
 
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥
 
बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रुनिबर्हणः ।
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः ॥१-१-९॥
 
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
 
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१-१-११॥
 
धर्मज्ञः सत्यसन्धश्च प्रजानाञ्च हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
 
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
 
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
 
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुः अदीनात्मा विचक्षणः ॥१-१-१५॥
 
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
 
स च सर्व गुणोपेतः कौसल्यानंद वर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
 
विष्णुना सदृशो वीर्ये सोमवत्प्रिय दर्शनः ।
कालाग्नि सदृशः क्रोधे क्षमया पृथिवी समः ॥१-१-१८॥
 
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवं गुण संपन्नं रामं सत्य पराक्रमम् ॥१-१-१९॥
 
ज्येष्टँ श्रेष्ट गुणैर्युक्तं प्रियं दशरथस्सुतम् ।
प्रकृतीनाँ हितैर्युक्तं प्रकृति प्रिय काम्यया ॥१-१-२०॥
 
यौव राज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।
तस्याभिषेक संभारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
 
पूर्वं दत्त वरा देवी वरमेनमयाचत ।
विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
 
स सत्य वचनाद्राजा धर्म पाशेन संयतः ।
विवासयामास सुतँ रामं दशरथः प्रियम् ॥१-१-२३॥
 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥
 
तं व्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनय संपन्नः सुमित्रानंद वर्धनः ॥१-१-२५॥
 
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनु दर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राण समाहिता ॥१-१-२६॥
 
जनकस्य कुले जाता देव मायेव निर्मिता ।
सर्व लक्षण संपन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
 
सीताप्यनुगता रामँ शशिनँ रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
 
शृन्गिबेर पुरे सूतं गङ्गा कूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
 
गुहेन सहितो रामो लक्ष्मणेन च सीतया ।
ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
 
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।
रम्यमावसथङ्कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
 
देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।
चित्रकूटङ्गते रामे पुत्र शोकातुरस्तथा ॥१-१-३२॥
 
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।
गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैर्द्विजैः ॥१-१-३३॥
 
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।
स जगाम वनं वीरो राम पाद प्रसादकः ॥१-१-३४॥
 
गत्वा तु स महात्मानँ रामँ सत्य पराक्रमम् ।
अयाचद्भ्रातरँ रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥
 
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।
रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
 
न चैच्छत् पितुरादेशात् राज्यँ रामो महाबलः ।
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
 
निवर्तयामास ततो भरतं भरताग्रजः ।
स काममनवाप्यैव राम पादावुपस्पृशन् ॥१-१-३८॥
 
नन्दि ग्रामेऽकरोद्राज्यँ रामागमन काङ्क्षया ।
गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥
 
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
 
प्रविश्य तु महारण्यँ रामो राजीव लोचनः ।
विराधँ राक्षसँ हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
 
सुतीक्ष्णञ्चाप्यगस्त्यञ्च अगस्त्य भ्रातरं तथा ।
अगस्त्य वचनाच्चैव जग्राहैन्द्रम् शरासनम् ॥१-१-४२॥
 
खड्गञ्च परम प्रीतः तूणी चाक्षय सायकौ ।
वसतस्तस्य रामस्य वने वन चरैस्सह ॥१-१-४३॥
 
ऋषयोऽभ्यागमन् सर्वे वधायासुर रक्षसाम् ।
स तेषाम्प्रति शुश्राव राक्षसानां तथा वने ॥१-१-४४॥
 
प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ।
ऋषीणामग्नि कल्पानां दंडकारण्य वासीनाम् ॥१-१-४५॥
 
तेन तत्रैव वसता जनस्थान निवासिनी ।
विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥
 
ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।
खरम् त्रिशिरसम् चैव दूषणञ्चैव राक्षसम् ॥१-१-४७॥
 
निजघान रणे रामः तेषाम् चैव पदानुगान् ।
वने तस्मिन्निवसता जनस्थान निवासिनाम् ॥१-१-४८॥
 
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।
ततो ज्ञाति वधँ श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥
 
सहायं वरयामास मारीचं नाम राक्षसम् ।
वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
 
न विरोधो बलवता क्षमो रावण तेन ते ।
अनादृत्य तु तद्वाक्यँ रावणः काल चोदितः ॥१-१-५१॥
 
जगाम सह मारीचः तस्याश्रम पदं तदा ।
तेन मायाविना दूरम् अपवाह्य नृपात्मजौ ॥१-१-५२॥
 
जहार भार्याँ रामस्य गृध्रँ हत्वा जटायुषम् ।
गृध्रञ्च निहतं दृष्ट्वा हृताँ श्रुत्वा च मैथिलीम् ॥१-१-५३॥
 
राघवश्शोक संतप्तो विललापाकुलेन्द्रियः ।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
 
मार्गमाणो वने सीताँ राक्षसँ सन्ददर्श ह ।
कबन्धं नाम रूपेण विकृतं घोर दर्शनम् ॥१-१-५५॥
 
तन्निहत्य महाबाहुः ददाह स्वर्गतश्च सः ।
स चास्य कथयामास शबरीं धर्म चारिणीम् ॥१-१-५६॥
 
श्रमणां धर्म निपुणाम् अभिगच्छेति राघव ।
सोऽभ्य गच्छन्महातेजाः शबरीँ शत्रु सूदनः ॥१-१-५७॥
 
शबर्या पूजितस्सम्यक् रामो दशरथात्मजः ।
पम्पा तीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
 
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वम् शँसद्रामो महाबलः ॥१-१-५९॥
 
आदितस्तद्यथा वृत्तँ सीतायाश्च विशेषतः ।
सुग्रीवश्चापि तत्सर्वँ श्रुत्वा रामस्य वानरः ॥१-१-६०॥
 
चकार सख्यँ रामेण प्रीतश्चैवाग्नि साक्षिकम् ।
ततो वानर राजेन वैरानुकथनम्प्रति ॥१-१-६१॥
 
रामायावेदितँ सर्वं प्रणयात् दुःखितेन च ।
प्रतिज्ञातञ्च रामेण तदा वालि वधम्प्रति ॥१-१-६२॥
 
वालिनश्च बलं तत्र कथयामास वानरः ।
सुग्रीवश्शंकितश्चासीत् नित्यं वीर्येण राघवे ॥१-१-६३॥
 
राघवः प्रत्ययार्थन्तु दुन्दुभेः कायमुत्तमम् ।
दर्शयामास सुग्रीवः महापर्वत सन्निभम् ॥१-१-६४॥
 
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।
पादाङ्गुष्ठेन चिक्षेप संपूर्णं दश योजनम् ॥१-१-६५॥
 
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।
गिरिँ रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
 
ततः प्रीत मनास्तेन विश्वस्तस्स महाकपिः ।
किष्किन्धाम् राम सहितो जगाम च गुहां तदा ॥१-१-६७॥
 
ततोऽगर्जद्धरिवरः सुग्रीवो हेम पिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
 
अनुमान्य तदा ताराँ सुग्रीवेण समागतः ।
निजघान च तत्रैनँ शरेणैकेन राघवः ॥१-१-६९॥
 
ततस्सुग्रीव वचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
 
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
 
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शत योजन विस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
 
तत्र लङ्काँ समासाद्य पुरीँ रावण पालिताम् ।
ददर्श सीतां ध्यायन्तीम् अशोक वनिकां गताम् ॥१-१-७३॥
 
निवेदयित्वाभिज्ञानं प्रवृत्तिञ्च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
 
पंच सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षञ्च निष्पिष्य ग्रहणँ समुपागमत् ॥१-१-७५॥
 
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
 
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
 
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
 
ततस्सुग्रीव सहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्य सन्निभैः ॥१-१-७९॥
 
दर्शयामास चात्मानँ समुद्रस्सरिताम्पतिः ।
समुद्र वचनाच्चैव नलँ सेतुमकारयत् ॥१-१-८०॥
 
तेन गत्वा पुरीँल्लङ्काँ हत्वा रावणमाहवे ।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
 
तामुवाच ततो रामः परुषं जन संसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनँ सती ॥१-१-८२॥
 
ततोऽग्नि वचनात्सीतां ज्ञात्वा विगत कल्मषाम् ।
कर्मणा तेन महता त्रैलोक्यँ स चराचरम् ॥१-१-८३॥
 
स देव ऋषि गणं तुष्टँ राघवस्य महात्मनः ॥
बभौ रामस्संप्रहृष्टः पूजितस्सर्व देवतैः ॥१-१-८४॥
 
अभ्यषिच्य च लङ्कायाँ राक्षसेन्द्रं विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
 
देवताभ्यो वराम्प्राप्य समुत्थाप्य च वानरान् ।
अयोध्याम्प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
 
भरद्वाजाश्रमङ्गत्वा रामस्सत्यपराक्रमः ।
भरतस्यान्तिकँ रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
 
पुनराख्यायिकां जल्पन् सुग्रीव सहितस्तदा ।
पुष्पकंस्तत् समारूह्य नन्दिग्रामँ ययौ तदा ॥१-१-८८॥
 
नन्दिग्रामे जटाँ हित्वा भ्रातृभिस्सहितोऽनघः ।
रामस्सीतामनुप्राप्य राज्यम्पुनरवाप्तवान् ॥१-१-८९॥
 
प्रहृष्टो मुदितो लोकः तुष्टः पुष्टस्सुधार्मिकः ।
निरामयो ह्यरोगश्च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥
 
न पुत्र मरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
 
न चाग्निजं भयं किञ्चित् नाप्सु मज्जन्ति जन्तवः ।
न वातजं भयं किञ्चित् नापि ज्वर कृतं तथा ॥१-१-९२॥
 
न चापि क्षुद्भयन्तत्र न तस्कर भयन्तथा ।
नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥
 
नित्यम्प्रमुदितास्सर्वे यथा कृतयुगे तथा ।
अश्वमेध शतैरिष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥
 
गवां कोट्ययुतं दत्त्वा विद्वभ्यो विधि पूर्वकम् ।
असंख्येयं धनं दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥
 
राज वँशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यञ्च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
 
दश वर्ष सहस्राणि दश वर्ष शतानि च ।
रामो राज्यमुपासित्वा ब्रह्म लोकम्प्रयास्यति ॥१-१-९७॥
 
इदम्पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्राम चरितँ सर्व पापैः प्रमुच्यते ॥१-१-९८॥
 
एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
स पुत्र पौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
 
पठन् द्विजो वागृषभत्वमीयात् ।
स्यात् क्षत्रियो भूमि पतित्वमीयात् ॥
वणिक् जनः पण्य फलत्वमीयात् ।
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
 
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥
 
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
Line ३७९ ⟶ ७५:
 
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥ १-१-२०॥
 
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥ १-१-२१॥
 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् ॥ १-१-२२॥
 
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥ १-१-२३॥
 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।
सीताप्यनुगता रामं शशिनं रोहिणी यथा ॥ १-१-२४॥
 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।
शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् ॥ १-१-२५॥
 
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः ।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ॥ १-१-२६॥
 
रम्यमावसथं कृत्वा रममाणा वने त्रयः ।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् ॥ १-१-२७॥
 
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।
राजा दशरथः स्वर्गं जगाम विलपन्सुतम् ॥ १-१-२८॥
 
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
स जगाम वनं वीरो रामपादप्रसादकः ॥ १-१-२९॥
 
पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥ १-१-३०॥
 
स काममनवाप्यैव रामपादावुपस्पृशन् ।
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ॥ १-१-३१॥
 
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह ॥ १-१-३२॥
 
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ।
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा ॥ १-१-३३॥
 
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ।
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ॥ १-१-३४॥
 
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ॥ १-१-३५॥
 
तेन तत्रैव वसता जनस्थाननिवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥ १-१-३६॥
 
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ॥ १-१-३७॥
 
निजघान रणे रामस्तेषां चैव पदानुगान् ।
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश ॥ १-१-३८॥
 
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ।
सहायं वरयामास मारीचं नाम राक्षसं ॥ १-१-३९॥
 
वार्यमाणः सुबहुशो मारीचेन स रावणः ।
न विरोधो बलवता क्षमो रावण तेन ते ॥ १-१-४०॥
 
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।
जगाम सहमरीचस्तस्याश्रमपदं तदा ॥ १-१-४१॥
 
तेन मायाविना दूरमपवाह्य नृपात्मजौ ।
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥ १-१-४२॥
 
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।
राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः ॥ १-१-४३॥
 
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ॥ १-१-४४॥
 
कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ।
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ॥ १-१-४५॥
 
स चास्य कथयामास शबरीं धर्मचारिणीम् ।
श्रमणीं धर्मनिपुणामभिगच्छेति राघव ।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥ १-१-४६॥
 
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ।
पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥ १-१-४७॥
 
हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥ १-१-४८॥
 
ततो वानरराजेन वैरानुकथनं प्रति ।
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
वालिनश्च बलं तत्र कथयामास वानरः ॥ १-१-४९॥
 
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ।
सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥ १-१-५०॥
 
राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ॥ १-१-५१॥
 
बिभेद च पुनः सालान्सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन्प्रत्ययं तदा ॥ १-१-५२॥
 
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः ।
किष्किन्धां रामसहितो जगाम च गुहां तदा ॥ १-१-५३॥
 
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥ १-१-५४॥
 
ततः सुग्रीववचनाद्धत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥ १-१-५५॥
 
स च सर्वान्समानीय वानरान्वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥ १-१-५६॥
 
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली ।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥ १-१-५७॥
 
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ १-१-५८॥
 
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ १-१-५९॥
 
पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि ।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ १-१-६०॥
 
अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया ॥ १-१-६१॥
 
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥ १-१-६२॥
 
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥ १-१-६३॥
 
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसंनिभैः ॥ १-१-६४॥
 
दर्शयामास चात्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ १-१-६५॥
 
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।
अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ १-१-६६॥
 
कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ १-१-६७॥
 
तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ १-१-६८॥
 
देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् ।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥ १-१-६९॥
 
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।
रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ १-१-७०॥
 
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।
निरायमो अरोगश्च दुर्भिक्षभयवर्जितः ॥ १-१-७१॥
 
न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् ।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ १-१-७२॥
 
न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः ।
न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा ॥ १-१-७३॥
 
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ॥ १-१-७४॥
 
राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति ॥ १-१-७५॥
 
दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ १-१-७६॥
 
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ १-१-७७॥
 
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥ १-१-७८॥
 
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात् ॥ ७९॥
</poem>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१" इत्यस्माद् प्रतिप्राप्तम्