"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४८:
अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । परमे । विऽओमन् ॥४१
 
गौरीः गरणशीला. माध्यमिका वाक् ।। सुलोपाभावश्छान्दसः । "मिमाय शब्दयति । किं कुर्वती । "[https://sites.google.com/site/vedastudy/sarita-sahaja/salila सलिलानि] वृष्ट्युदकानि “तक्षती सम्यक्संपादयित्री। “एकपदी एकपादोपेता एकाधिष्ठाना मेघे वर्तमाना गमनसाधनेन वायुना एकपदी वा “द्विपदी मेघान्तरिक्षाख्यद्व्यधिष्ठाना । आदित्यो वा द्वितीयः । तथा "सा “चतुष्पदी पादचतुष्टयोपेता दिक्चतुष्टयाधिष्ठाना । अथ “अष्टापदी विदिगपेक्षया अष्टपादोपेता अष्टाधिष्ठाना "नवपदी उपरिदिगपेक्षया सूर्येण वा नवदिगधिष्ठाना “बभूवुषी एवंभूता। भवेश्छान्दसः क्वसुः । ततो ङीपि वसोः संप्रसारणम् ।। किमनया परिगणनया । "सहस्राक्षरा । अपरिमितवचनोऽयम् । अपरिमितव्याप्तियुक्ता बहुव्यापनशीलोदकवतीत्यर्थः । कुत्रेति तदुच्यते । "परमे “व्योमन उदकाश्रयत्वेनोत्कृष्टेऽन्तरिक्षे। केचिदेवमाहुः । गौरीर्गरणशीला शब्दब्रह्मात्मिका वाक् मिमाय माति ।। प्रसिद्धार्थे धातुः । प्रतिष्ठितानि घटादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन निष्पादयन्ती एकपदी अव्याकृतत्वेन एकप्रतिष्ठाना एकरूपा वा आत्मना द्विपदी सुप्तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन अष्टापदी आमन्त्रितसहिताष्टभेदेन अष्टपदी नवपदी बभूवुषी साव्ययैरुक्तैरष्टभिः नवपदी । अथवा सनाभिकेषु उरकण्ठादिषु नवसु पदेषु भवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे सहस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकारा भवतीत्यर्थः । अयं मन्त्रः आचार्येणैवं व्याख्यातः - गौरीर्मिमाय सलिलानि तक्षती कुर्वत्येकपदी मध्यमेन द्विपदी मध्यमेन चादित्येन च चतुष्पदी दिग्भिरष्टापदी दिग्भिश्चावान्तरदिग्भिश्च नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च सहस्राक्षरा बहूदका परमे व्यवने ' ( निरु. ११. ४० ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्