"ऋग्वेदः सूक्तं १०.१०९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
वीळुऽहराः । तपः । उग्रः । मयःभूः । आपः। देवीः । प्रथमाजाः । ऋतेनं ॥ १ ॥
 
अत्रेतिहासमाचक्षते जुहूरिति वाङ्नाम सा ब्रह्मणो जाया च बृहस्पतेर्वाचस्पतित्वाद्बृहस्पतेर्जुहूर्नामभार्या बभूव कदाचिदस्य किल्बिषमस्या दौर्भाग्यरूपेणासांचक्रे अतएव स एनां पर्यत्याक्षीत् अनन्तरमादित्यादयो देवाः मिथो विचार्य एनामकिल्बिषां कृत्वा पुनर्बृहस्पतये प्रादुरिति । तदत्र वर्ण्यते-प्रथमा मुख्यास्ते देवाः ब्रह्मकिल्बिषे षष्ठीसमासः समासःस्वरः ब्रह्मणो बृहस्पतेः किल्बिषे पापे जुहूदौर्भाग्यरूपे विषये अवदन् निष्कृत्युपायमवोचन् वकारपरत्वादत्रप्रतिभावाभावः ।। के ते अकूपारः । अत्र यास्कः - आदित्योप्यकूपार उच्यते कूपारो भवति दूरपार इति । अकुत्सितपारः महागतिरादित्यः [https://sites.google.com/site/vedastudy/sarita-sahaja/salila सलिलः] अब्देवतावरुणः मातरिश्वा वायुः वीळुहराः हरतेरसुनिरूपं हरइति हरति विनाशयति तमांसीति हरस्तेजः प्रभूततेजस्कः तपः तृतीयायाःसुः तपसा तापनेन उग्रः उद्गूर्णोग्निः मयोभूः सुखस्यभावयिता सोमः देवीः देव्यः आपः कीदृश्यः ऋतेन सत्यभूतेन ब्रह्मणा प्रथमजाः आदित एवोत्पादिताः एते उपायमुक्त्वा प्रायश्चित्तमप्यकारयन्निति भावः॥१॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०९" इत्यस्माद् प्रतिप्राप्तम्