"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३२:
तृतीयः । भ्राता । घृतऽपृष्ठः । अस्य । अत्र । अपश्यम् । विश्पतिम् । सप्तऽपुत्रम् ॥१
 
अत्र द्वितीयपादे तच्छब्दश्रुतेः प्रथमपादे प्रतिविशेषणं योग्यक्रियार्थसंबद्धो यच्छब्दोऽध्याहार्यः । योऽयं दिवि द्योतते तस्य “अस्य “वामस्य वननीयस्य संभजनीयस्य आरोग्यार्थिभिः सर्वैः सेवनीयस्य “पलितस्य पालयितुः प्रकाशवृष्ट्यादिप्रदानेन पालकस्य तथा योऽयं दिवि द्योतते “तस्य अस्य “होतुः ह्वातव्यस्य आह्वानार्हस्यादित्यस्य “मध्यमः मध्यमस्थानः। मध्ये भवो वायुरुच्यते । आदित्याग्नी अपेक्ष्य अस्य मध्यमत्वम्। स च “अश्नः सर्वत्र व्याप्तः। न हि वायुरहितः कश्चित्प्रदेशोऽस्ति । तादृशः “भ्राता “अस्ति भ्रातृस्थानीयो भवति । यथा लोके भ्राता पितृधनस्य भागं हरति तद्वत् । मध्यस्थानम् अन्तरिक्षलोकं हरतीति वा । वृष्ट्यर्थं रश्मिभिराहृतानां भौमानां रसानां हरणाद्वा भ्रातेत्युच्यते । पित्र्येण धनेन स्वार्जितेन वा भर्तव्यः भवतीति भ्राता। मध्यमो वायुरपि वृष्ट्यर्थं रसैः भक्तव्यः भवति ।। किंच “घृतपृष्ठः घृतमाहुतिलक्षणं पृष्ठे यस्य तादृशः “भ्राता तस्य “तृतीयः अस्ति भवति । त्रयाणां पूरणस्तृतीयः । उक्तोभयापेक्षया तृतीयत्वम् । भ्रातृत्वं प्रतिपादितप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितुस्तेजोभागस्य हरणात् दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तव्यत्वात् वा भ्रातृत्वम् । “अत्र एषु भ्रातृषु मध्ये पुरोदेशे वा "विश्पतिं विशां प्रजानां पालयितारं "सप्तपुत्रं सर्पणरश्मिपुत्रोपेतम् ऐतिहासिकपक्षे ‘अदितिः पुत्रकामा ' इति प्रस्तुते मित्रावरुणादिषु अदितिपुत्रेषु अस्य आदित्यस्य सप्तमपुत्रत्वम्। ईदृशं महानुभावमादित्यम् “अपश्यम् अद्राक्षम् भावनया आत्मत्वेन साक्षात्करोमीत्यर्थः। तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतिः । एवं वा । अस्य वामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य पालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरादातुः स्वस्मिन् संहर्तुरित्यर्थः । परमेश्वरस्य सृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषु प्रसिद्धम्। तस्य तादृशस्य परमेश्वरस्य भ्राता तद्भागहारी तदंशभूतः सूत्रात्मा मध्यमः सर्वत्र मध्ये वर्तमानोऽस्ति जगद्धारकत्वेन वर्तते । स च अश्नः व्यापनशीलः । ‘ वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संरब्धानि ' (बृ. उ. [https://sa.wikisource.org/s/x56 ३. ७. २]) इति श्रुतेः । वक्ष्यमाणविराडपेक्षया वा मध्यमत्वम् । किंच अस्य परमेश्वरस्य तृतीयो घृतपृष्ठः। घृतमित्युदकनाम । तेन तत्कार्यं शरीरमुच्यते । तदेव पृष्ठं स्पर्शकं वा यस्य स तादृशः । ‘ पृष्ठं स्पृशतेः' (निरु. [https://sa.wikisource.org/s/6zj ४. ३]) इति निरुक्तम् । यद्वा प्रदीप्तपृष्ठः । पृष्ठशब्दः कृत्स्नशरीरोपलक्षकः । प्रकाशितशरीराभिमानीत्यर्थः । न त्वयं सूक्ष्मशरीराभिमानिसूत्रात्मवत् स्पर्शनाविषयो भवति । अत्र एषु मध्ये विश्पतिं विशां प्रजानां पतिम् । उपलक्षणमेतत् । सर्वस्य पतिमित्यर्थः । ‘सर्वस्य पतिः सर्वस्येशानः' इति श्रुतेः । सप्तपुत्रं सप्त लोकाः पुत्रा यस्य तादृशम् । स्वमायया सृष्टसर्वलोकमित्यर्थः । अपश्यं पश्येयं साक्षात्करोमीत्यर्थः । अयमर्थः। स्वाधीनमायो जगत्कारणभूतः परमेश्वर एकः । तत उत्पन्नौ स्थूलसूक्ष्मशरीराभिमानिनौ द्वौ विराट्सूत्रात्मानौ । तेषु मध्ये द्वयोः साक्षात्कारेण मोक्षाभावात् सृष्ट्यादिकारणं परमेश्वरं ज्ञेयत्वेन प्रसिद्धं श्रवणमननादिसाधनेन साक्षात्करोमीत्यर्थः। एवमुत्तरत्रापि अध्यात्मपरतया योजयितुं शक्यम् । तथापि स्वरसत्वाभावात् ग्रन्थविस्तरभयाच्च न लिख्यते । यत्र द्वा सुपर्णा' इत्यादौ स्फुटम् आध्यात्मिको ह्यर्थः प्रतीयते तत्र तत्र प्रतिपादयामः । अयं मन्त्रो यास्केन व्याख्यातः अस्य वामस्य वननीयस्य पलितस्य पालयितुः ' ( निरु. [https://sa.wikisource.org/s/6zj ४. २६] ) इत्यादिना । तच्च व्याख्यानमत्रानुसंधेयम् ।।
 
 
पङ्क्तिः ९३५:
 
अम्बयो यन्ति शम्भुमयोभुभ्यां ब्रह्म जज्ञानमस्य वामस्य यो रोहित उदस्य क्रतवो मूर्धाहमिति द्वे सूक्ते विषासहिमिति सलिलगणः ॥ - अथर्वपरिशिष्ट [https://sa.wikisource.org/s/1d5z ३२.२२]
 
 
१.१६४.१ अस्य वामस्य पलितस्य इति
 
अस्य वामस्य वननीयस्य । पलितस्य पालयितुः । होतुर्ह्वातव्यस्य । तस्य भ्राता मध्यमोऽस्त्यशनः । भ्राता भरतेर्हरतिकर्मणः । हरते भागं भर्तव्यो भवतीति वा । तृतीयो भ्राता घृतपृष्ठोऽस्यायमग्निः । तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा । विश्पतिं सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा । सप्त सृप्ता संख्या । सप्तादित्यरश्मय इति वदन्ति - नि [https://sa.wikisource.org/s/6zj ४.२६]
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१६४" इत्यस्माद् प्रतिप्राप्तम्