"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१००" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः ०७४ पृष्ठं गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१०० प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">अध्याय ९६ प्रारंभ :-
क उवाच ।
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शंकरम् ।
शिवोवाच ।
देवेश सप्तमं वर्षं प्रवृत्तं सांप्रतं शिशोः १
क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
शिव उवाच ।
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम २
संपादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
क उवाच ।
इत्युक्त्वा गिरिजां देवः समाकार्य च गौतमम् ३
विचार्य सुदिने लग्नं सामग्रीः समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वानृषिगणान्मुनीन् ४
आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा ५
उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च ६
संपूज्य विधिवत्प्रादान्नानोपायनसंचयान् ।
त्रिंशत्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च ।
किन्नरेभ्यश्चारणेभ्यो वाद्यघोषे नदत्यपि ७
गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ।
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम् ८
उपायनानि दानानि ददौ हर्षात्सदाशिवः ।
देवतास्थापनं कृत्वा भोजयामास चाखिलान् ९
प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ।
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः २.९६.१०
वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ।
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः ११
एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ।
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ १२
तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ।
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ १३
कम्पते पादघातेन ययोराशु वसुन्धरा ।
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी १४
सभाद्वारगतं शक्रकारिणं समुपागतौ ।
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम् १५
स्रवद्रक्तः पपातोर्व्यां मूर्छितो गजराट् क्षणात् ।
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम् १६
करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ।
ततस्तौ मत्तमातंगौ सभामध्यं समीयतुः १७
शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ।
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः १८
यतो यतो गच्छतः स्म ततो देवाः पलायिताः ।
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः १९
शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ।
गणा ऊचुः ।
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः २.९६.२०
ततः पलायिता गौरी सखीभिर्गृहमागता ।
बालस्ततो निरीक्ष्यैतौ दन्तिनौ बलवत्तरौ २१
जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ।
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः २२
भ्रामयित्वास्फालयत्स एकस्मिन्नपरं गजम् ।
उभौ तौ शतधा जातौ पतितौ धरणीतले २३
धरा चकम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ।
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः २४
बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ।
सर्वे पलायिता देवा मुनयोऽनेन दानवौ २५
बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ।
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च २६
ऊचुर्गुणेशं ते सर्वे स्वामिन्सर्वंगुणाकर ।
सर्वप्राणहरौ दैत्यौ कापट्याद्गजरूपिणौ २७
निहतौ लीलया देवमायिनौ बलवत्तरौ ।
इत्युक्त्वा शक्रमुनयो देवाश्च विविशु सभाम् २८
उपविष्टेषु सर्वेषु ननृतुश्चाप्सरोगणाः ।
ततो वाद्यान्यवाद्यन्त ब्रह्मा रुद्रसमीपगः २९
दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ।
यज्ञोपवीतमजिनं होमं च समिधामपि २.९६.३०
कारयामास विधिवत्सावित्रीवाचनं ततः ।
ततो माता ददौ भिक्षामंशुके भूषणानि च ३१
उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ।
लड्डूकान्भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः ३२
ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ।
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ ३३
शोचिष्केशेति नामास्य चक्रे सम्यङ्महात्मनः ।
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ ३४
नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ।
ददौ तदैव कमलमभ्यर्च्य कमलासनः ३५
विधातेति च नामास्य स्थापयामास संसदि ।
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम् ३६
नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ।
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात् ३७
दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ।
भालचन्द्रं दशभुजं मुकुटेन विराजितम् ३८
दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ।
सिंहारूढं विराजन्तमुरगोदरबन्धनम् ३९
दृष्ट्वेत्थमदितिर्ह्रष्टा लिलिगं स्नेहनिर्भरा ।
रोमांचितशरीरा सा प्रेमगद्गदनिःस्वना २.९६.४०
विस्मयं परमं प्राप्ता स्रवदश्रुजलाविला।
परमानन्दमग्नाऽभूत्स्नेहस्तुतपयोधरा ४१
तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ।
ऊचतुस्तौ सुतस्नेहाद्वत्सावां ते वियोगतः ४२
कृशतां गमितौ तेऽद्य दर्शनात्पुष्टतां गतौ ।
नावां त्यज सुतेदानीं जनौ त्वच्चरणे रतौ ४३
गजानन उवाच ।
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ।
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि ४४
सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ।
क उवाच ।
एवं तु वदतोरेवं पार्वती समुपागता ४५
उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ।
अदिते देहि मे पुत्रं गृहीतं चिरकालतः ४६
नायं तव सुतः सुभ्रु सम्यक्पश्य शुचिस्मिते ।
साऽपश्यत्पुनरेवैनं स्वस्यैव तनयं विभुम् ४७
अदितिरुवाच ।
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ।
साऽपश्यत्पुनरेवैनं गुणेशं तनयं स्वकम् ४८
अदितिस्तां ममेत्याह पार्वती तां ममेति च ।
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः ४९
अनादिनिधनो देवः सृष्टिस्थित्यन्तुकारकः ।
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः २.९६.५०
कस्या अयं भवेत्पुत्र उभे भ्रान्तेऽस्य मायया ।
ते ऊचतुः ।
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम् ५१
क उवाच।
ततो देवा निरीक्ष्यैनं नानारूपिणमीश्वरम् ।
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम् ५२
कश्चित्त्रिलोचनं प्राह वरुणं विस्मिताः सुराः।
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते ५३
भवतीभ्यां विवेकेन ग्राहयोऽयं परमः पुमान् ।
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम् ५४
स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ।
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति ५५
अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा।
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम् ५६
नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ।
भवानी च गृहं याता पुत्रमादाय हर्षिता ५७
ततः समागताः सर्वे प्रागमन्निलयान्स्वकान् ५८ (४३४६)
इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥९६॥
 
</span></poem>