"रामायणम्/अयोध्याकाण्डम्/सर्गः ५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ८:
| notes =
}}
[[File:Kanda 2 AYK-052-Gangaa Tharanam Sumantra Visarjanam cha.ogg|thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center]]
{{रामायणम्/अयोध्याकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''
<poem><span style="font-size: 14pt; line-height: 200%">प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः ००१
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
भास्करोदयकालोऽयं गता भगवती निशा ००२
असौ सुकृष्णो विहगः कोकिलस्तात कूजति ००२
बर्हिणानां च निर्घोषः श्रूयते नदतां वने ००३
तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम् ००३
विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः ००४
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः ००४
ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ ००५
जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ००५
राममेव तु धर्मज्ञमुपगम्य विनीतवत् ००६
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् ००६
निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम ००७
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् ००७
आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः ००८
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ००८
नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् ००९
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ००९
न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ०१०
मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् ०१०
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ०११
त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव ०११
वयं खलु हता राम ये तयाप्युपवञ्चिताः ०१२
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ०१२
इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा ०१३
दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् ०१३
ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् ०१४
रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् ०१४
इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये ०१५
यथा दशरथो राजा मां न शोचेत्तथा कुरु ०१५
शोकोपहत चेताश्च वृद्धश्च जगतीपतिः ०१६
काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते ०१६
यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः ०१७
कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया ०१७
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ०१८
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ०१८
तद्यथा स महाराजो नालीकमधिगच्छति ०१९
न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा ०१९
अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् ०२०
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः ०२०
नैवाहमनुशोचामि लक्ष्मणो न च मैथिली ०२१
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा ०२१
चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः ०२२
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् ०२२
एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे ०२३
अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः ०२३
आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् ०२४
सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च ०२४
ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय ०२५
आगतश्चापि भरतः स्थाप्यो नृपमते पदे ०२५
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ०२६
अस्मत्संतापजं दुःखं न त्वामभिभविष्यति ०२६
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ०२७
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ०२७
यथा च तव कैकेयी सुमित्रा चाविशेषतः ०२८
तथैव देवी कौसल्या मम माता विशेषतः ०२८
निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः ०२९
तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ०२९
यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः ०३०
भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ०३०
कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ०३१
तव तात वियोगेन पुत्रशोकाकुलामिव ०३१
सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ०३२
विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ०३२
दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् ०३३
सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे ०३३
दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम् ०३४
चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ०३४
आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने ०३५
रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः ०३५
अहं किं चापि वक्ष्यामि देवीं तव सुतो मया ०३६
नीतोऽसौ मातुलकुलं संतापं मा कृथा इति ०३६
असत्यमपि नैवाहं ब्रूयां वचनमीदृशम् ०३७
कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः ०३७
मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः ०३८
कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः ०३८
यदि मे याचमानस्य त्यागमेव करिष्यसि ०३९
सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया ०३९
भविष्यन्ति वने यानि तपोविघ्नकराणि ते ०४०
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ०४०
तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम् ०४१
आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम् ०४१
प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः ०४२
प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः ०४२
तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन् ०४३
अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम् ०४३
न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना ०४४
राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा ०४४
इमे चापि हया वीर यदि ते वनवासिनः ०४५
परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम् ०४५
वनवासे क्षयं प्राप्ते ममैष हि मनोरथः ०४६
यदनेन रथेनैव त्वां वहेयं पुरीं पुनः ०४६
चतुर्दश हि वर्षाणि सहितस्य त्वया वने ०४७
क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा ०४७
भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि ०४८
भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि ०४८
एवं बहुविधं दीनं याचमानं पुनः पुनः ०४९
रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत् ०४९
जानामि परमां भक्तिं मयि ते भर्तृवत्सल ०५०
शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः ०५०
नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी ०५१
कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः ०५१
परितुष्टा हि सा देवि वनवासं गते मयि ०५२
राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम् ०५२
एष मे प्रथमः कल्पो यदम्बा मे यवीयसी ०५३
भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात् ०५३
मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज ०५४
संदिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा ०५४
इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः ०५५
गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् ०५५
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय ०५५
तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् ०५६
लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ०५६
तौ तदा चीरवसनौ जटामण्डलधारिणौ ०५७
अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ ०५७
ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः ०५८
व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत् ०५८
अप्रमत्तो बले कोशे दुर्गे जनपदे तथा ०५९
भवेथा गुह राज्यं हि दुरारक्षतमं मतम् ०५९
ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः ०६०
जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः ०६०
स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः ०६१
तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् ०६१
आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः ०६२
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् ०६२
स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् ०६३
आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः ०६३
अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः ०६४
ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् ०६४
अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् ०६५
आस्थाय नावं रामस्तु चोदयामास नाविकान् ०६५
ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता ०६६
शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् ०६६
मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता ०६७
वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् ०६७
पुत्रो दशरथस्यायं महाराजस्य धीमतः ०६८
निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः ०६८
चतुर्दश हि वर्षाणि समग्राण्युष्य कानने ०६९
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ०६९
ततस्त्वां देवि सुभगे क्षेमेण पुनरागता ०७०
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये ०७०
त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे ०७१
भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे ०७१
सा त्वां देवि नमस्यामि प्रशंसामि च शोभने ०७२
प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते ०७२
गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम् ०७३
ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया ०७३
तथा संभाषमाणा सा सीता गङ्गामनिन्दिता ०७४
दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् ०७४
तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ०७५
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ०७५
अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् ०७६
अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ०७६
पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ०७७
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ०७७
गतं तु गङ्गापरपारमाशु॑ रामं सुमन्त्रः प्रततं निरीक्ष्य ०७८
अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्॑ मुमोच बाष्पं व्यथितस्तपस्वी ०७८
तौ तत्र हत्वा चतुरो महामृगान्॑ वराहमृश्यं पृषतं महारुरुम् ०७९
आदाय मेध्यं त्वरितं बुभुक्षितौ॑ वासाय काले ययतुर्वनस्पतिम् 2.52.102 ०७९
 
</span></poem>
 
 
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''
 
Line ४८५ ⟶ ३२१:
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥
 
 
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥'''
</poem>
=
 
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।