"गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९६-१००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३६८:
इत्थं मयूरेशनाम प्राप चासौ गुणेश्वरः ५३ (४४५१)
इति श्रीगणेशपुराणे क्रीडाखण्डे शिखण्डिवरप्रदानं नामाष्टनवतितमोऽध्यायः ॥९८॥
 
अध्याय ९९ प्रारंभ :-
क उवाच ।
अद्भुतं कृतवान्वर्षे नवमेऽसौ गुणेश्वरः ।
शिखण्डिनं समारुह्य चतुरायुधभूषितः १
नानालंकारसंयुक्तो नृगनाभिजशोभितः ।
दिव्याम्बरधरो बालः क्रीडितुं समुपाययौ २
पूर्णचन्द्रनिभः श्रीमांजयशब्दैरभिष्टुतः ।
केचिन्नमन्ति तं बालाः केचिच्छत्रं ध्वजं परे ३
दध्रुः केचिद्वीजयन्तस्तद्दर्शनमहोत्सवाः ।
क्रीडन्तः सरसीं याताः पंचयोजनविस्तृताम् ४
अगाधोदां नक्रझषकूर्ममण्डूकसंयुताम् ।
लतातरुपरीवारां नानापक्षिगणैर्युताम् ५
उड्डीय पतिताः केचित्तस्यां केचिच्छनैर्ययुः ।
चूतं तत्तीरगं दृष्ट्वा विशालं फलसंयुतम् ६
आरुरोह मयूरेशो बालाः फलजिघत्सया।
रसालैस्ते निजघ्नुस्तानभिन्नांगांन्पलायिताः ७
बालाः स्कन्धान्दारयन्तो निपेतुः केऽपि तज्जले ।
एवं क्रीडत्सु बालेषु दैत्योऽगादश्वरूपवान् ८
यस्य पादप्रहारेण चूर्णतां यान्ति पर्वताः ।
यस्य ह्रेषितशब्देन कम्पते भुवनत्रयम् ९
पुच्छचांचल्यतो जीवान्हन्ति स्कन्धं जघर्ष ह ।
यस्मिंश्चूतेऽस्य शब्देन कम्पिते पतितेऽर्भके २.९९.१०
केचित्पलायिता बालाः केचिद्भग्नाश्च मस्तके ।
केचिन्निपतिताश्चाशु गुणेशो पतितो जले ११
निमग्ने द्विमुहूर्तेस्मिन्प्रारुदन्मुनिबालकाः ।
किं वक्तव्यमुमायै च दर्शनीयं मुखं कथम् १२
शंकरोऽपि रुषाविष्टो भस्मसान्न: करिष्यति ।
अगाधेस्मिंज्जले मग्नं प्रवेष्टुं च न शक्नुमः १३
माता पिता पालयिता भ्राता त्राता सखा च नः ।
क उवाच ।
एवं शोचत्सु बालेषु मयूरेशो दधार तम् १४
कर्णयोर्जलमध्ये तु चकर्ष बलवान्विभुः ।
आरुरोह बलाद्दैत्यं भारेणामज्जयन्मुहुः १५
स दैत्यो निर्वमन्नेत्रान्मुखाद्बहु जलं मुहुः ।
जलपूर्णश्रुतिश्वासोऽत्यजन्प्राणान्महारवः १६
एकहस्तेन धृत्वा तं दोलयित्वा जलाद्बहिः ।
मयूरेशस्ततो बाला जहृषुर्ननृतुर्भृशम् १७
भुवि ते शतधा जातं ददृशुर्दैत्यपुंगवम् ।
प्रशशंसुर्मयूरेशं महाबलपराक्रमम् १८
त ऊचुस्तं तदा देवं मृतं मत्वा रुदामहे ।
तावदेव हि दृष्टोऽसि हतदैत्यो बहिर्गतः १९
पुनस्ते जलमाविश्य प्रासिंचन्नंजलीन्मिथः ।
एकमत्या च सर्वे ते प्रासिंचन्गणनायकम् २.९९.२०
वर्षाकाले यथा मेघा धरणीं पर्वतानपि ।
षड्भुजैः परिषिंचन्सन्नपर्याप्तोऽभवद्यदा २१
तदासंख्यभुजैर्वारी चिक्षेप बालकेषु सः ।
तदाश्चर्यं तु ते दृष्ट्वा परस्परमथाब्रुवन् २२
षड्भुजोऽयं कथमभूदनन्तभुजमण्डितः ।
मन्दीभूता मुनिसुताः क्व द्विहस्ता वयं विभो २३
असंख्यभुजवीर्योजाः क्व च त्वं भुवनेश्वर ।
पुनः सर्वे सिषिचुस्ते मयूरेशं रुषान्विताः २४
सोऽनन्तरूपस्तान्सर्वान्सिषेचे गणनायकः ।
एकैकस्याग्रतो भूत्वा षड्भुजो निजतेजसा २५
तावच्छिखण्डिनिष्ठोऽसौ चतुरायुधभूषितः ।
प्रणेमुस्तेऽञ्जलिपुटं बद्ध्वा देवम् गुणेश्वरम् २६
पश्यन्तस्तन्मुखे विश्वं सर्वस्वर्गान्वितं तु ते ।
गन्धर्वयक्षरक्षांसि सरिदब्धिद्रुमानपि २७
सर्वं चराचरं विश्वं सदेवासुरमानुषम्।
प्रार्थयामासुरथ ते दृष्ट्वेत्थं ते भयातुराः २८
बाला ऊचुः ।
न विदामः स्वमात्मानं परं वा नापि किंचन ।
एकरूपो भव विभो कृपां कृत्वाऽखिलेश्वर २९
क उवाच ।
इति तत्प्रार्थनां श्रुत्वा जातोऽसौ पूर्ववद्विभुः ।
एतस्मिन्नन्तरे तत्र चिक्रीडुर्नागकन्यकाः २.९९.३०
या निरीक्ष्याभवच्चाष्टनायिकानां त्रपा भृशम् ।
नेत्रे निरीक्ष्य ह्रीमन्त्यः प्रापलन्हरिणस्त्रियः ३१
अतिसुन्दरगात्रास्ताः सर्वालंकारभूषिताः ।
ता निरीक्ष्य मयूरेशं विह्वला मदनाग्निना ३२
ता ऊचुश्च मिथः सर्वा अयं भर्ता भवेद्यति ।
सफलं नस्तदा जन्म जीवितं च वयोऽपि च ३३
धैर्यात्तमूचुस्ताः सर्वाः कुत आगमनं तव ।
दृष्ट्वा ते वदनं चेतो विह्वलं नोऽभिजायते ३४
विश्रान्तं कुरु चेतो नः स्वांगसंगान्नृषूत्तम ।
देव उवाच ।
अहं शिवसुतो नाम्ना मयूरेश इति स्फुटम् ३५
विख्यातो मुनिपुत्रैस्तु मज्जिता बलवत्तरैः ।
दृष्टवान्पादकमलं भवतीनां प्रसंगतः ३६
ता ऊचुः ।
अस्मद्गृहे क्षणं स्थित्वा विश्रामं कर्तुमर्हसि ।
देव उवाच ।
पार्वती मद्वियोगेन परितप्येद्भृशं यतः ३७
अतो नायामि वः स्थानं गच्छन्तु नागकन्यकाः ।
क उवाच ।
एवं वदति तस्मिंस्तु धृत्वा निन्युर्गृहं तु ताः ३८
तमदृष्ट्वा पुनः शोकं व्यधुर्मुनिसुतास्तदा ।
बाला ऊचुः ।
कथं कठिनतां यातो दयालुः स गुणेश्वरः ३९
अमृतस्राविकिरणो न चन्द्र उष्णतां व्रजेत् ।
न पिता त्यजते बालानपराधायुते सति २.९९.४०
क्व गतोऽसि विना त्वां हि गमिष्यन्ति हि नोऽसवः ।
क उवाच ।
केचिन्निपतिता भूमौ केचिद्भालं निजघ्निरे ४१
केचिद्ययुः स्वाश्रमं ते पथि तस्य पदाम्बुजे।।
दृष्ट्वा नेमू रुदन्तस्ते ददृशुस्ते भगासुरम् ४२
मूर्धजाघाततो यस्य भानि भूमौ निपेतिरे ।
शतयोजनपादाब्जो भूमावास्यं प्रसार्य सः ४३
तेषां मार्गे प्रसुष्वाप ततस्ते शिशवो ययुः ।
ध्यायन्तस्तं मयूरेशं शोचन्तः पथिविह्वलाः ४४
उदरे तस्य ते याता आपगा जलधीनिव ।
भ्रान्ताः परस्परं चक्रुर्वार्ता नानाविधास्ततः ४५
मयूरेशो गतः क्वापि वयं कुत्र व्रजामहे ।
न जानीमो दिशं सर्वे नो दृश्यन्ते गृहाणि च । ४६
इन्द्रियाणामधिपतिर्मनो नीतं तु तेन नः ।
विना नो मनसा ज्ञानं कथमुत्पत्स्यतेऽर्भकाः ४७
क्व मातरो भ्रातरो वा पितरः क्व गुणेश्वरः ।
एवं वदत्सु बालेषु मयूरेशोऽखिलार्थकृत् ४८
आविरासीत्तत्पुरतश्चतुरायुधभूषितः ।
गुणेश उवाच ।
मा शोचन्तु भवद्दुःखं ज्ञात्वाऽहं शीघ्रमागतः ४९
भगासुरोदरगता नात्मानं विदुरर्भकाः ।
क उवाच ।
निद्रया मोहयामास मुनिपुत्रान्गुणेश्वरः २.९९.५०
दैत्यदेहान्तरगतो ववृधे वामनौ यथा ।
विपाट्य देहं तस्याशु शकले द्वे व्यधाद्विभुः ५१
ततोऽस्तमित आदित्ये नागतेष्वर्भकेषु च ।
मातरः पितरश्चैव चिन्तामापुः शुचान्विताः ५२
ऊचुः परस्परं ते तु शिवापुत्रो महाबलः ।
बालान्नीत्वा गतः कुत्र मृतो वा शिशुभिः सह ५३
जीवंश्चेदागतः स स्यात्सायंकाले बुभुक्षितः ।
केचित्प्राणान्विना तैस्तु तत्यजुर्मातरोऽपि च ५४
केचिदूचुरुमायैतत्वृत्तं सर्वं निवेद्यताम् ।
केचित्तेषु वनं याता बभ्रमुर्वनपर्वतान् ५५
नापुस्तं च स्वकान्बालान्खिन्नाः प्रापुर्गृहान्पुनः ।
नानाकोलाहलं चक्रुर्जनन्यः पिदृसोदराः ५६
तेषामाक्रन्दितं श्रुत्वा कृपालुः स मयूरराट् ।
तत्तद्रूपं स्वमात्मानं तत्तद्भूषासमन्वितम् ५७
तत्तद्वासःपरीधानं तत्तच्छीलगुणान्वितम् ।
तत्तदंगं चकाराशु विवेशासौ गृहे ततः ५८ ।।
कृत्वा तत्तद्वयोवेषं तत्तन्मानयुतं शुभम् ।
जनन्यस्ताः समुत्थाय बालानादाय सत्वराः ५९
स्तनपानं ददुः प्रीत्या परमानन्दनिर्भराः।
ततो ददृशिरे बालाः पितृभिर्मातृभिस्तदा २.९९.६०
ता ऊचुः क्व स्थिता रोषादुषःकाले गताः कुतः।
न स्नानं न च भुक्तं वा न चान्यद्वापि भक्षितम् ६१
मयूरेश्वरसंगेन नेदानीं गन्तुमर्हथ ।
क उवाच ।
एवं शिक्षाप्य तान्बालानालिंग्य बुभुजुः सुखम् ६२
शिवापि पुरतोऽपश्यन्मयूरेशं समागतम् ।
आलिंग्य परिपप्रच्छ कि भुक्तं वनगोचरे ६३
त्वद्वियोगजदुःखेन मया किंचिन्न भक्षितम् ।
स्तनौ पिब पयोवृद्धौ भोजनं च समाचर ।
ततः सर्वं चकारासौ मातृवाक्यं गुणेश्वरः ६४ (४५१५)
इति श्रीगणेशपुराणे क्रीडाखण्डे नवनवतिमोऽध्यायः ॥९९॥
 
अध्याय १०० प्रारंभ :-
क उवाच ।
अनेकरूपवान्देवो मयूरेशोऽखिलेश्वरः ।
अतिसुन्दरदेहः सन्नागकन्याभिराहृतः १
गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।
सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः २
दिव्यवस्त्रैरलंकारैश्चन्दनैरपि पूज्य च ।
धूपदीपैश्च नैवेद्यैः फलतांबूलकांचनैः ३
ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।
यद् दृष्टं ते पदं देव ब्रह्माद्यैरपि कांक्षितम् । ४
नागलोको धन्यतमो जीवितं नः सुजीवितम् ।
आनंदह्रदमग्नं नो मानसं तापमप्यजत् ५
यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।
अत्र स्थित्वा कति दिनं पश्चात्त्वं गन्तुमर्हसि. ६.
मयूरेश उवाच।
वांच्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।
मद्वियोगेन तप्ता सा न भक्षयति किंचन ७
यूयं कस्यात्मजास्तस्य दर्शनं चेद्भवेन्मम ।
क उवाच ।
तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम् । ८
ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।
यस्य विषभवा ज्वाला दहेत्त्रिभुवनं विभो ९
क उवाच ।
इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरंगनाः ।
रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम् २.१००.१०
सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।
मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ।
तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम् ११
उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ।
येन पातालविवरे नान्धकारोऽभवत्किल १२
आन्दोलयामास शिरः कम्पयन्सप्तपर्वतान् ।
उदधीन्सप्तस्वर्गांश्च पातालानि रसातलम १३
हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया।
वासुकिं निजकण्ठं तं बबन्ध सर्पभूषणः १४
विख्यातः स्वर्गलोकेऽभून्ज्जगर्जानन्दतो विभुः ।
तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम् १५
ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ।
स च क्रोधसमाविष्टो विस्तार्य निखिलान्फणान् १६
विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ।
उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम् १७
आवेशेन ययौ रोषाद्दावानल इव ज्वलन् ।
शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत् १८
ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ।
ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत १९
शिखण्डिमस्तके हस्तं न्यधाद्युद्धाय पन्नगैः।
स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः २.१००.२०
दुधाव पक्षौ तद्वाताद्भ्रामयन्भुजगोत्तमान् ।
कांश्चित्स भक्षयामास चुचूर्ण चापरानपि २१
मारयामास कांश्चित्स भुजगान्बलवत्तरान् ।
निरीक्ष्य तं मृताः केचित्पन्नगा भयविह्वलाः २२
दृष्ट्वा पराक्रमं तस्य शेषः श्वासमपास्रजत् ।
शिखण्डी पतितस्तेन मूर्छितो धरणीतले २३
मयूरेशं ततः शेषो ययौ क्रोधद्दहन्निव ।
त्रैलोक्य विषवह्निस्थं समालोक्य गुणेश्वरः २४
विराटरूपं समास्थाय रुरोह तत्फणोपरि ।
उड्डीय बालभावेन गर्जन्मेघ इवापरः २५
ननर्त करतालेन पादाघातेन मर्दयन् ।
अनन्तकोटिब्रह्माण्डभारेण परिपीडितः २६
एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ।
बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन् २७
ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ।
हुंकारेणैव तान्सर्वान्पातयामास विघ्नराट् २८
अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ।
परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम् २९
न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ।
त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि २.१००.३०
नानावतारकर्ता त्वं नानादैत्यविमर्दनः ।
त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत् ३१
सर्वत्र कारणं त्वं हि कारणानां च कारणम् ।
अज्ञानादभिमानेन योद्धुकामान्क्षमस्व नः ३२
क उवाच ।
सम्पातिं च जटायुं च श्येनमानीय सर्पराट् ।
निवेद्य च नमस्कृत्य शेषस्तूष्णीं बभूव ह ३३
तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ।
बन्धा मुक्ताः सर्पकृतान्नमस्ते परमेश्वर ३४
क उवाच ।
एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ।
आलिलिंगुर्मुदा युक्तास्तदा गद्गदभाषिणः ३५
पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ।
ततः शिखण्डिनं सोऽथ रुरोह गणनायकः ३६
पातालाद्धरणीं प्रायात्तैस्त्रिभिः संयुतो वशी।
भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम् ३७
उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ।
तत्याज कण्ठे तं तस्य पशुमारममारयत् ३८
तच्छिरः परिबभ्राम शृंगवज्राहतं यथा ।
ततस्तदुत्थिता बाला योगमायाविमोहिताः ३९
मयूरेशः क्व चास्तीति प्राक्रोशन्सर्व एव ते।
आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च २.१००.४०
तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ।
गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम् ४१
दृष्ट्वा ते रुरुदुः स्नेहादालिलिंगुर्मुदाखिला ।
ते ऊचु ।
त्यक्त्वाऽस्मान्दैत्यजठरे मृतान्क्वास्ति गतो भवान् ४२
त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ।
मयूरेश उवाच ।
सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः ४३
न त्यक्तवान्कदाचिद्वो मा चिन्तां कर्तुमर्हथ ।
क उवाच ।
ततो ययौ मयूरेशो बालकैः परिवेष्टितः ४४
केचिद्धावन्ति पुरतो नानाशब्दकरा भृशम् ।
केचिच्छत्रधराः केचिद्दण्डचामरधारिणः ४५
धूलिध्वजं समालोक्य ययुर्मुनिगणा बहि ।
शिख्यारूढं मयूरेशं बालकै परिवेष्टितम् ४६
ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः।
गृहेऽस्मिन्शिशवश्चामी कुतोऽन्येऽस्य समीपतः ४७
तांश्च तान्मीलिताः सर्वेऽपश्यंते देवरूपिणः ।
विचारेण च तान्सर्वे परब्रह्मस्वरूपिणः ४८
आनन्दह्रदमग्नास्ते न विदुः स्वपरं पुनः ।
नापश्यंस्ते पुनस्तांस्तान्भ्रान्ता इव व्यलोकयन् ४९
मायया मोहिताः सर्वे स्वान्स्वान्बालान्व्यलोकयन् ।
कश्चित्पितरमासाद्य पठति स्म यथा पुरा २.१००.५०
कश्चिन्मातरमासाद्य पिबति स्म स्तनं मुदा।
आलिलिंगाथ जननीं पितरं वापि कश्चन ५१
भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ।
उमापि तनयं दृष्ट्वालिंग्य प्रादात्स्तनं मुदा ५२
कथं चिरतरं यात इति क्रोधादभाषत ।
आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ ५३
सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम् ५४ (४५६९)
इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः ॥१००॥